अध्यायः 182

रामेण रथादधः पातितस्य भीष्मस्य दिव्यपुरुषैः समाश्वासनम् ॥ 1 ॥ भीष्मेण रामस्य रथादधः पातनम् ॥ 2 ॥ समुद्बुध्य पुनर्युयुत्सो रामस्य महर्षिभिर्युद्धात्प्रतिनिवर्तनम् ॥ 3 ॥

भीष्म उवाच ।
ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते ।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥
ततोऽभ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः ।
ववर्ष शरजालानि मयि मेध इवाचले ॥
ततः सूतो मम सुहृच्छरवर्षेण ताडितः ।
अपयातो रथोपस्थान्मनो मम विषादयन् ॥
ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत् ।
पृथिव्यां च शराघातान्निपपात मुमोह च ॥
ततः सूतो जहात्प्राणान्रामबाणप्रपीडितः ।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥
ततः सूते हते तस्मिन्क्षिपतस्तस्य मे शरान् ।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितम् ॥
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥
स मे भुजान्तरे राजन्निपत्य रुधिराशनः ।
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥
मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।
मेघवद्विननादोच्चैर्जहृषे च पुनः पुनः ॥
तथा तु पतिते राजन्मयि रामो मुदा युतः ।
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥
मम तत्राभवन्ये तु कुरवः पार्श्वतः स्थिताः । आगता अपि युद्धं तञ्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि ॥
ततोऽपश्यं पतितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिर्वाय तस्थुः स्वबाहुभिः परिधार्याजिमध्ये ॥
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।
अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ॥
श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ।
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ॥
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् । ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥
हयाश्च मे संगृहीतास्तयाऽऽस- न्महानद्या संयति कौरवेन्द्र ।
पादौ जनन्याः प्रतिगृह्य चाहं तथा पितॄणां रथमभ्यरोहम् ॥
ररक्ष सा मां सरथं हयांश्चोपस्काराणि च ।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः ।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥
ततो जगाम वसुधां मम बाणप्रपीडितः ।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः । 5-182-22bअर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥
ववुश्च वाताः परुषाश्चलिता च वसुंधरा ।
गृध्रा बलाश्च कङ्काश्च परिपेतुर्गुदा युताः ॥
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।
अनाहता दुन्दुभयो विनेदुर्भृशनिःस्वनाः ॥
एतदौत्पातिकं सर्वं घोरमासीद्भयंकरम् ।
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥
ततो वै सहसोत्थाय रामो मामभ्यवर्तत ।
पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्छितः ॥
आददानो महाबाहुः कार्मुकं तालसन्निभम् ।
ततो मय्याददानं तं राममेव न्यवारयन् ॥
महर्षयः कृपायुक्ताः क्रोधाविष्टोऽपि भार्गवः ।
समाहरदमेयात्मा शरं कालानलोपमम् ॥
सतो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगूढः
निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयाव- ॥
एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत्सुघोरम् ।
कल्यंकल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥

5-182-2 अभ्रान्ते मेघमण्डलसमीपे ॥ 5-182-12 द्विजान् ब्राह्मणरूपधरान् वसून् ॥ 5-182-21 भूयिप्तहस्नदे स्वर्णसहस्राणां दातरि ॥ 5-182-22 सकम्पनाः सविद्युतः ॥ 5-182-23 बलाः बलाकाः ॥ 5-182-30 कल्यंकल्यं प्रातःप्रातः ॥