अध्यायः 191

शिखण्डिन्या पित्रोः शोकस्य स्वमूलकत्वचिन्तनेन दुर्गमारण्यमेत्य स्थूणनाम्नः कुबेरानुचरस्य गृहसमीपे प्रायोपवेशः ॥ 1 ॥ स्थूणचोदितया शिखण्डिन्या तंप्रति पुंस्त्ववरणम् ॥ 2 ॥

भीष्म उवाच ।
ततः शिखण्डिनो माता यथातत्त्वं नराधिप ।
आचचक्षे महाबाहो भर्त्र कन्यां शिखण्डिनीम् ॥
अपुत्रया मया राजन्सपत्नीनां भयादिदम् ।
कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता ॥
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्याऽनुमोदितम् ।
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ॥
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता । मया च प्रत्यभिहितं देववाक्यार्थदर्शनात् ।
कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् ॥
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य ।
मन्त्रं राजा मन्त्रयामास राजन् यथायुक्तं रक्षणे वै प्रजानाम् ॥
संबन्धकं चैव समर्थ्य तस्मिन् दाशार्णके वै नृपतौ नरेन्द्र ।
स्वयं कृत्वा विप्रलम्भं यथाव- न्मन्त्र्यैकाग्रो निश्चयं वै जगाम ॥
स्वभावगुप्तं नगरमापत्काले तु भारत ।
गोपयामास राजेन्द्र सर्वतः समलङ्कृतम् ॥
आर्तिं च परमां राजा जगाम सह भार्यया ।
दशार्णपतिना सार्धं विरोधे भरतर्षभ ॥
कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान् ।
इति संचिन्त्य मनसा देवतामर्चयत्तदा ॥
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तदा ।
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ॥
देवानां प्रतिपत्तिश्च सत्यं साधुमता सताम् ।
किमु दुःस्वार्णवं प्राप्य तस्मादर्चयतां गुरून् ॥
दैवतानि च सर्वाणि पूज्यनां भूरिदक्षिणम् ।
अग्नयश्चापि हृयन्तां दाशार्णप्रतिषेधने ॥
अयुद्धेन निवृत्तिं च मनसा चिन्तय प्रभो ।
देवतानां प्रसादेन सर्वमेतद्भविष्यति ॥
मन्त्रिभिर्मन्त्रितं सार्धं त्वया पृथुललोचन ।
पुरस्यास्याविनाशाय यच्च राजंस्तथा कुरु ॥
दैवं हि मानुषोपेतं भृशं सिद्ध्यति पार्थिव ।
परम्परविरोधाद्धि सिद्धिरस्ति न चैतयोः ॥
तस्माद्विधाय नगरे विधानं सचिवैः सह ।
अर्चयस्व यथाकामं दैवतानि विशांपते ॥
एवं संभाषमाणौ तु दृष्ट्वा शोकपरायणौ ।
शिखण्डिनी तदा कन्या व्रीडितेव तपस्विनी ॥
ततः सा चिन्तयामास मन्कृते दुःखितावुभौ ।
इमाविति ततश्चक्रे मतिं प्राणविनाशने ॥
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा ।
निर्जगाम गृहं त्यक्त्वा गहनं निर्जनं वनम् ॥
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् ।
तद्भयादेव च जनो विसर्जयति तद्वनम् ॥
तत्र च स्थूणभवनं सुधामृत्तिकलेपनम् ।
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ॥
तन्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप ।
अनश्नाना बहुतिथं शरीरमुदशोपयत् ॥
दर्शयामास तां यक्षः स्थूणो मार्दवसंयुतः ।
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् ॥
अशक्ययिति सा यक्षं पुनः पुनरुवाच ह ।
करिष्यामीति वै क्षिप्रं प्रत्युवाचाथ गुह्यकः ॥
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे ।
अदेयमपि दास्यादि ब्रूहि यत्ते विवक्षितम् ॥
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् ।
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ॥
शिखण्ड्युवाच ।
आपन्नो मे पिता यक्ष न चिरान्नाशमेष्यति ।
अभियास्यति सक्रोधो दशार्णाधिपतिर्हि तम् ॥
मन्निमित्तं महोत्साहः सहेमकवचो नृपः ।
तस्माद्रक्षस्व मां यक्ष मातरं पितरं च मे ॥
प्रतिज्ञातो हि भवता दुःखप्रतिशमो मम ।
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ॥
यावदेव स राजा वै नोपयाति पुरं मम ।
तावदेव महायक्ष प्रसादं कुरु गुह्यक ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यनपर्वणि एकनवत्यधिकशततमोऽध्यायः ॥

5-191-11 साधुमता कल्याणवतापि देवानां सतां साधूनां च प्रतिपत्तिः पूजा नित्यं कर्तव्येति शेषः । किमु दुःखार्णवं प्राप्य कर्तव्येति । तस्मात् भवान् गुरून् देवाराधनार्थं ब्राह्मणान् अर्चयतां पूजयतु ॥ 5-191-21 लाजोल्लापिकः लाजानि उशीराणि उल्लापयति सूचयतीति लाजोल्लापिकः । उशीरपरिमलयुक्तधूमाढ्यमित्यर्थः । उशीरे लाजमुद्दिष्टमिति विश्वः । राजोपलेपधूमाढ्यं इतिo कoड पाठः ॥