अध्यायः 196

युधिष्ठिरेणापि त्रेधाविभज्य स्वसेनानां प्रेषणम् ॥ 1 ॥

वैशंपायन उवाच ।
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥
चेदिकाशिकरूशानां नेतारं दृढविक्रमम् ।
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम् ।
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः ।
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ।
अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः ॥
दिदेश तान्यनीकानि प्रयाणाय महीपतिः ।
तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम् ॥
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ।
स गजाश्वमनुष्याणां ये च शिल्पोपजीविनः ॥
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः ।
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥
भीमं च युयुधानं च पाण्डवं च धनंजयम् ।
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्टिरः ॥
भाण्डं समारोपयतां चरतां संप्रधावताम् ।
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पशत् ॥
स्वयमेव ततः पश्चाद्विराटद्रपदान्वितः ।
अथापरैर्महीपालैः सह प्रायान्महीपतिः ॥
भीमधन्वायती सेना धृष्टद्युम्नेन पालिता ।
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥
ततः पुनरनीकानि न्ययोजयत बुद्धिमान् ।
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम् ॥
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः ।
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥
दश चाश्वसहस्राणि द्विसहस्त्राणि दन्तिनाम् ।
अयुतं च पदातीनां रथाः पञ्चशतं तथा ॥
भीमसेनस्य दुर्धर्षं प्रथमं प्रादिशद्बलम् ।
मध्यमे च विराटं च जयत्सेनं च पाण्डवः ॥
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
वीर्यवन्तौ महात्मानौ युधामन्यूत्तमौजसौ ॥
अन्वयातां तदा मध्ये वासुदेवधनञ्जयौ । `तौ दृष्ट्वा पृथिवीपाला नष्टमित्येव मेनिरे ।
अन्तरिक्षगताः सर्वे देवाः सेन्द्रपुरोगमाः ' ॥
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः । तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः ।
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः ॥
पदातयश्च ये शूराः कार्मुकासिगदाधराः ।
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे ।
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥
तत्र नागसहस्राणि हयानामयुतानि च ।
तथा रथसहस्राणि पदातीनां च भारत ॥
चेकितानः स्वसैन्येन महता पार्थिवर्षभ ।
धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ ॥
सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः ।
वृतः शतसहस्रेण रथानां प्रमुदन्बली ॥
क्षत्रदेवब्रह्मदेवौ रथस्थौ पुरुषर्षभौ ।
जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः ॥
शकटापणवेशाश्च यानं युग्यं च सर्वशः । तत्र नागसहस्राणि हयानामयुतानि च ।
फल्गु सर्वं कलत्रं च यत्किंचित्कृशदुर्बलम् ॥
कोशसञ्चयवाहांश्च कोष्ठागारं तथैव च ।
गजानीकेन संगृह्य शनैः प्रायाद्युधिष्ठिरः ॥
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य वा विभुः ॥
रथा विंशतिसाहस्रा ये तेषामनुयायिनः ।
हयानां दश कोट्यश्च महतां किंकिणीकिनाम् ॥
गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः ।
कुलीना भिन्नकरटा मेघा इव विसर्पिणः ॥
षष्टिर्नागसहस्राणि दशान्यानि च भारत ।
युधिष्ठिरस्य यान्यासन्युधि सेना महात्मनः ॥
क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः ।
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥
एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः ।
यदाश्रित्याथ युयुधे धार्तराष्ट्रं सुयोधनम् ॥
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः ।
नर्दन्तः प्रययुस्तेषाणनीकानि सहस्रशः ॥
तत्र भेरीसहस्राणि शङ्खानामयुतानि च ।
न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः ॥ ॥

इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां उद्योगपर्वणि अम्बोपाख्यानपर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ ॥ समाप्तमम्बोपाख्यानपर्व ॥ उद्योगपर्व च ॥ अस्यानन्तरं भीष्मपर्व भविष्यति तस्ययमाद्य श्लोकः । जनमेजय उवाच । कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः । पार्थिवाः सुमहात्मानो नानादेशसमागताः ॥ इदं उद्योगपर्व कुंभघोणस्थेन टीo आर्o कृष्णाचार्येण टीo आर्o व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1828 सन 1907

5-196-12 भीमधन्वायनीति झo पाठे भीमधन्वानः अयन्ते प्रचरन्त्यस्यामिति भीमधन्वायनी ॥ 5-196-19 कृतप्रहरणाः `कृतयुद्धाः ' ॥ 5-196-26 शकटा भाण्डवन्ति अनांसि । आपणो वणिस्कमुदायः । वेशो वेश्याजनः । यानं युद्धयोग्यं वाहनम् । युग्यं केवलं वाहनम् । फल्गु बालादिकम् । कलत्रं स्त्र्यादिकम् ॥ 5-196-27 कोशो धनम् । कोष्ठो धान्यादिसामग्री । संगृह्य एकीकृत्य ॥ 5-196-