अध्यायः 017

लोकपालैः सह नहुषनिषूदनोपायं मन्त्रयन्तमिन्द्रमेत्य भगस्त्येन नहुषस्य देवराज्यात्परिभ्रंशनिवेदनम् ॥ 1 ॥

शल्य उवाच ।
अथ संचिन्तयानस्य देवराजस्य धीमतः ।
नहुषस्य वधोपायं लोकपालैः सदैवतैः ॥
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत ।
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् ॥
विश्वरूपविनाशेन वृत्रासुरवधेन च ।
दिष्ट्याद्य नहुषो भ्रष्टो देवराज्यात्पुरन्दर ॥
दिष्ट्या हतारिं पश्यामि भवन्तं वलसूदन ।
इन्द्र उवाच ।
स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तत ।
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ॥
शल्य उवाच ।
पूजितं चोपविष्टं तमासेन मुनिसत्तमम् ।
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ॥
श्रोतुमिच्छामि भगवन्कथ्यमानं द्विजोत्तम ।
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ॥
अगस्त्य उवाच ।
श्रृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् ।
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ॥
श्रमार्ताश्च वहन्तस्तं नहुषं पापकारिणम् ।
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ॥
पप्रच्छुर्नहुषं देवं संशयं जयतां वर ।
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् ॥
एते प्रमाणं भवत उताहो नेति वासव ।
नहुषो नेति तानाह तमसा मूढचेतनः ॥
ऋषय ऊचुः ।
अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे ।
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ॥
अगस्त्य उवाच ।
ततो विवदमानः स मुनिभिः सह वासव ।
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ॥
तेनाभूद्धततेजाश्च निःश्रीकश्च महीपतिः ।
ततस्तं तमसा विग्नमवोचं भृशपीडितम् ॥
यस्मात्पूर्वैः कृतं राजन्ब्रह्मर्षिभिरनुष्ठितम् ।
अदृष्टं दूषयसि मे यच्च मूर्ध्य्रस्पृशः पदा ॥
यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् ॥
वाहान्कृत्व्रा वाहयसि तेन स्वर्गाद्धतप्रभः ।
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतले ॥
दशवर्षसहस्राणि सर्परूपधरो महान् ।
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ॥
` दृष्ट्वा युधिष्ठिरं नाम तव वंशसमुद्भवम् । निहतो ब्रह्मशापेन प्रपद्यस्व त्रिविष्टपम् ॥'
एवं भ्रष्टो दुरात्मा स देवराज्यादरिन्दम ।
दिष्ट्या वर्धामहे शक्र हतो ब्रह्मर्षिकण्टकः ॥
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते ।
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ॥
शल्य उवाच ।
ततो देवा भृशं तुष्टा महर्षिगणसंवृताः ।
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ॥
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः ।
सरांसि सरितः शैलाः सागराश्च विशांपते ॥
उपागम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शक्रुहन् । हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता ।
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ॥ ॥

इति श्रीमन्महाभाते उद्योगपर्वणि सेनोद्योगपर्वणि सप्तदशोऽध्यायः ॥