अध्यायः 022

धृतराष्ट्रेण यथाक्रमं दुर्योधनपाण्डवनिन्दाप्रशंसनपूर्वकं पाण्डवान्प्रति सञ्जयप्रेषणम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
प्राप्तानाहुः सञ्जय पाण्डुपुत्रा- नुपप्लव्ये तान्विजानीहि गत्वा ।
अजातशत्रुं च सभाजयेथा दिष्ट्या वनाद्ग्राममुपस्थितस्त्वम् ॥
सर्वान्वदेः सञ्जय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हा निरुष्य ।
तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्यापेतानामुपकारिणां सताम् ॥
नाहं क्वचित्सञ्जय पाण्डवानां मिथ्यावृत्तिं कांचन जात्वपश्यम् ।
सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव ॥
दोषं ह्येषां नाध्यगच्छं परीच्छ- न्सूक्ष्मं कंचिद्येन गर्हेय पार्थान् ।
धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं सुखप्रिये नानुरुध्यन्ति कामात् ॥
धर्मं शीतं क्षुत्पिपासे तथैव निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम् ।
धृत्या चैव प्रज्ञया चाभिभूय धर्मार्थयोगान्प्रयतन्ति पार्थाः ॥
त्यजन्ति मित्रेषु धनानि काले न संवासाञ्जीर्यति तेषु मैत्री ।
यथार्हमानार्थकरा हि पार्था- स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे । अन्यत्र पापाद्विपमान्मन्दबुद्धे- र्दुर्योधनात्क्षुद्रतराच्च कर्णात् ॥
` पुत्रो मह्यं मृत्युवशं जगाम दुर्योधनः सञ्जय रागबुद्धिः ।'
तेषां हीमौ हीनसुखप्रियाणां महात्मनां संजनयतो हि तेजः ॥
उत्थानवीर्यः सुखमेधमानो दुर्योधः सुकृतं मन्यते तत् ।
तेषां भागं यच्च मन्येत बालः शक्यं हर्तुं जीवतां पाण्डवानाम् ॥
यस्यार्जुनः पदवीं केशवश्च वृकोदरः सात्यकोऽजातशत्रोः ।
माद्रीपुत्रौ सृञ्जयाश्चापि यान्ति पुरा युद्धात्साधु तस्य प्रदानम् ॥
सह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद्रथस्थः ।
तथा जिष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा ॥
तिष्ठेत कस्तस्य मर्त्यः पुरस्ता- द्यः सर्वलोकेषु वरेण्य एकः ।
पर्जन्यघोषान्प्रवपञ्शरौघा- न्पतङ्गसङ्घानिव शीघ्रवेगान् ॥
दिशं ह्युदीचीमपि चोत्तरान्कुरून् गाण्डीवधन्वैकरथो जिगाय ।
धनं चैपामाहरत्सव्यसाची सेनानुगान्द्रविडांश्चैव चक्रे ॥
यश्चैव देवान्खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान् ।
उपाहरत्पाण्डवो जातवेदसे यशो मानं वर्धयन्पाण्डवानाम् ॥
गदाभृतां नास्ति समोऽत्र भीमा- द्धस्त्यारोहो नास्ति समश्च तस्य ।
रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्वलेनायुतनागवीर्यम् ॥
सुशिक्षितः कृतवैरस्तरस्वी दहेत्क्षुद्रांस्तरसा धार्तराष्ट्रान् ।
सदाऽत्यमर्षी न वलात्स शक्यो युद्धे जेतुं वासवेनापि साक्षात् ॥
सुतेजसौ वलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फाल्गुनेन ।
श्येनौ यथा पक्षिपूगान्रुजन्तौ माद्रीपुत्रौ शेपयेतां न शत्रून् ॥
एतद्बलं पूर्णमस्माकमेवं यत्सत्यं तान्प्राप्य नास्तीति मन्ये ।
तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः ॥
सहामात्यः सोमकानां प्रबर्हः सन्त्यक्तात्मा पाण्डवार्थे श्रुतो मे ।
अजातशत्रुं प्रसहेत कोऽन्यो येषां स स्यादग्रणीर्वृष्णिसिंह ॥
सहोषितश्चरितार्थो वयस्थो मात्स्येयानामधिपो वै विराटः ।
स वै सपुत्रः पाण्डवार्थे च शश्व- द्युधिष्ठिरे भक्त इति श्रुतं मे ॥
अवरुद्धा रथिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति ।
केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थिनश्रानुवसन्ति पार्थान् ॥
सर्वांश्च वीरान्पृथिवीपतीनां समागतान्पाण्डवार्थे निविष्टान् ।
शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान्संश्रितान्धर्मराजन् ॥
गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजातिशुद्धाः ।
म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थे निविष्टाः ॥
पाण्ड्यश्च राजा समितीन्द्रकल्पो योधप्रवीरैर्बहुभिः समेतः ।
समागतः पाण्डवार्थे महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥
अस्त्रं द्रोणादर्जुनाद्वासुदेवा- त्कृपाद्भीष्माद्येन कृतं शृणोमि ।
यं तं कार्ष्णिप्रतिममाहुरेकं स सात्यकिः पाण्डवार्थे निविष्टः ॥
उपाश्रिताश्चेदिकरूशकाश्च सर्वोद्योगैर्भूमिपालाः समेताः ।
तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥
अस्तम्भनीयं युधि मन्यमान्यो ज्यां कर्षतां श्रेष्ठतमं पृथिव्याम् ।
सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा संममर्द ॥
यशोमानौ वर्धयन्पाण्डवानां पुराऽभिनच्छिशुपालं समीक्ष्य ।
यस्य सर्वे वर्धयन्ति स्म मानं करूशराजप्रमुखा नरेन्द्राः ॥
तमसह्यं केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम् ।
संप्राद्रवंश्चेदिपतिं विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये ॥
यस्तं प्रतीपस्तरसा प्रत्युदीया- दाशंसमानो द्वैरथे वासुदेवम् ।
सोऽशेत कृष्णेन हतः परासु- र्वातेनेवोन्मथितः कर्णिकारः ॥
पराक्रमं मे यदवेदयन्त तेषामर्थे सञ्जय केशवस्य ।
अनुस्मरंस्तस्य कर्माणि विष्णो- र्गावल्गणे नाधिगच्छामि शान्तिम् ॥
न जातु ताञ्छत्रुरन्यः सहेत येषां स स्यादग्रणीर्वृष्णिसिंहः ।
प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ ॥
न चेद्गच्छेत्सङ्गरं मन्दबुद्धि- स्ताभ्यां लभेच्छर्म तदा सुतो मे ।
नो चेत्कुरून्सञ्जय निर्दहेता- मिन्द्राविष्णू दैत्यसेनां यथैव ॥
मते हि मे शक्रसमो धनञ्जयः सनातनो वृष्णिवीरश्च विष्णुः ।
धर्मारामो ह्रीनिषेवस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ॥
दुर्योधनेन निकृतो मनस्वी नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ।
नाहं तथा ह्यर्जुनाद्वासुदेवा- द्भीमाद्वाऽहं यमयोर्वा बिभेमि ॥
यथा राज्ञः क्रोधदीप्तस्य सूत मन्योरहं भीततरः सदैव ।
महातपा ब्रह्मचर्येण युक्तः सङ्कल्पोऽयं मानसस्तस्य सिद्ध्येत् ॥
तस्य क्रोधं सञ्जयाहं समीक्ष्य स्थाने जानन्भृशमस्म्यद्य भीतः ।
स गच्छ शीघ्रं प्रहितो रथेन पाञ्चालराजस्य चमूनिवेशनम् ॥
अजातशत्रुं कुशलं स्म पृच्छेः पुनः पुनः प्रीतियुक्तं वदेस्त्वम् ।
जनार्दनं चापि समेत्य तात महामात्रं वीर्यवतामुदारम् ॥
अनामयं मद्वचनेन पृच्छे- र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ।
न तस्य किंचिद्वचनं न कुर्यात् कुन्तीपुत्रो वासुदेवस्य सूत ॥
प्रियश्चैषामात्मसमश्च कृष्णो विद्वांश्चैषां कर्मणि नित्ययुक्तः ।
समानीतान्पाण्डवान्सृञ्जयांश्च जनार्दनं युयुधानं विराटम् ॥
अनामयं मद्वचनेन पृच्छेः सर्वांस्तथा द्रौपदेयांश्च पञ्च ।
यद्यत्तत्र प्राप्तकलं परेभ्य- स्त्वं मन्येथा भारतानां हितं च तद्भाषेथाः सञ्जय राजमध्ये
न मूर्च्छयेद्यन्न च युद्धहेतुः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि स़ञ्जययानपर्वणि द्वाविंशोऽध्यायः ॥

5-22-2 स्वस्तिमन्तो वयमिति सर्वान्वदेः । कृच्छ्रं निरुष्यापि तेषां शान्तिरक्रोधोऽस्मासु विद्यते । मिथ्यापेतानां निष्कपटानाम् ॥ 2 ॥ 5-22-3 मह्यं पर्याकार्षुः मदर्थं परित आनीतवन्तः ॥ 5-22-4 धर्मार्थाभ्यां धर्मार्थं अर्थार्थं 5-22-7 तेजः क्रोधम् ॥ 5-22-9 तस्य तस्मै । प्रदानं भागप्रदानम् ॥ 5-22-10 जिष्णुर्जयशीलः ॥ 5-22-13 जातवेदसे उपाहृरत् खाण्डवमिति विपरिणामेनानुषङ्गः ॥ 5-22-20 अवरुद्धाः बहिर्निः सारिताः ॥ 5-22-24 कार्ष्णिः प्रद्युम्नस्तत्तुल्यम् ॥ 5-22-25 चेदिपतिं शिशुपालम् । कृष्णो ममर्देत्युत्तरेणान्वयः ॥ 5-22-29 आशं समानो जयमिति शेषः ॥ 5-22-30 यत् यतः । अवेदयन्त ज्ञापितवन्तः । चारा इति शेषः ॥ 5-22-31 कृष्णौ वासुदेवार्जुनौ ॥ 5-22-34 निकृतो वञ्चितः । मनस्वी जितमनाः ॥ 5-22-36 स्थाने जानन् युक्तं पश्यन् ॥ 5-22-37 महामात्रं महाभागम् ॥ 5-22-38 शान्तिमीप्सुरस्तीति वदेत्यध्याहारः ॥ 5-22-40 मूर्च्छयेत् वर्धयेत् । क्रोधमिति शेषः ॥