अध्यायः 024

सञ्जयेन युधिष्ठिरप्रश्नानामुत्तरदानपूर्वकं धृतराष्ट्रसन्देशश्रवणविधानम् ॥ 1 ॥

सञ्जय उवाच ।
यथाऽऽत्थ मे पाण्डव तत्तथैव कुरून्कुरुश्रेष्ठ जनं च पृच्छसि ।
अनामयास्तात मनस्विनस्ते कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥
सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे सन्त्येव पापाः पाण्डव तस्य विद्धि ।
दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः कुतो दायांल्लोपयेद्ब्राह्मणानाम् ॥
यद्युष्मासु वर्ततेऽसावधर्म्य- मद्रुग्धेषु द्रुग्धवत्तन्न साधु ।
मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो युष्मान्द्विपन्साधुवृत्तानसाधुः ॥
स चापि जानाति भृशं च तप्यते शोचत्यन्तः स्थविरोऽजातशत्रो ।
शृणोति हि ब्राह्मणानां समेत्य मित्रद्रोहः पातकेभ्यो यरीयान् ॥
स्मरन्ति तुभ्यं नरदेव सङ्गमे युद्धे च जिष्णोश्च युधां प्रणेतुः ।
समुद्धुष्टे दुन्दुभिशङ्खशब्दे गदापाणिं भीमसेनं स्मरन्ति ॥
माद्रीसुतौ चापि तथाऽऽजिमध्ये सर्वा दिशः संपतन्तौ स्मरन्ति ।
सेनां वर्षन्तौ शग्वैपरजमं महारथौ समरे दुष्प्रकम्पौ ॥
न त्वेव मन्ये पुरुषस्य राज- न्ननागतं ज्ञायते यद्भविष्यम् ।
त्वं चेत्तथा सर्वधर्मोपपन्नः प्राप्तः क्लेशं पाण्डव कृच्छ्ररूपम् । त्वमेवैतत्कृच्छ्रगतश्च भूयः समीकुर्याः प्रज्ञयाऽजातशत्रो ॥
न कामार्थं सन्त्यजेयुर्हि धर्मं पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ।
त्वमेवैतत्प्रज्ञयाऽजातशत्रो समीकुर्या येन शर्माप्नुयुस्ते ॥
धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च ये चाप्यन्ते सन्निविष्टा नरेन्द्राः ।
यन्मां ब्रवीद्धृतराष्ट्रो निशाया- मजातशत्रो वचनं पिता ते ॥
सहामात्यः सहपुत्रश्च राजन् समेत्य तां वाचमिमां निबोध ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि चतुविंशोऽध्यायः ॥

5-24-4 गरीयानिति ...... 5-24-5 ........ 5-24-7 अनागतं अज्ञातं अदृष्टमित्यर्थः ॥