अध्यायः 029

श्रीकृष्णेन स्वस्य कुरुपाण्डेषु तुल्यवृत्तित्वकथनपूर्वकं कर्मणामवश्यानुष्ठेयत्वसमर्थनम् ॥ 1 ॥ तथा सञ्जयंप्रति दुर्योधनादिकृत्यनयस्मारणपूर्वकं स्वस्य सन्ध्यर्थं तत्रागमनकथनम् ॥ 2 ॥ तथा पाण्डवानां शमाशमान्यतरपक्षानुसारित्वकथनपूर्वकं धृतराष्ट्रंप्रति यथाभिलषितकरणकथनचोदनम् ॥ 3 ॥

वासुदेव उवाच ।
अविनाशं सञ्जय पाण्डवाना- मिच्छाम्यहं भूतिमेषां प्रियं च ।
तथा राज्ञो धृतराष्ट्रस्य सूत समाशंसे बहुपुत्रस्य वृद्धिम् ॥
कामो हि मे सञ्जय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति ।
राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समक्षम् ॥
सुदुष्करस्तत्र शमो हि नूनं प्रदर्शितः सञ्जय पाण्डवेन ।
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नावमूर्च्छेत् ॥
न त्वं धर्मं विचरं सञ्जयेह मत्तश्च जानामि युधिष्ठिराच्च
अथो कस्मात्सज्जय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म ॥
यथाख्यातमावमतः कुटुम्बे पुरा कस्मान्साधुविलोपमात्थ ।
अस्मिन्विधौ वर्तमाने यथाव- दुच्चावचा मतयो ब्राह्मणानाम् ॥
कर्मणाऽऽहुः सिद्धिमेके परत्र हिन्वा कर्म विद्यया सिद्धिमेके ।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये- द्विद्वानपीह विहितं ब्राह्मणानाम् ॥
या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम् ।
तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः ॥
सोऽयं विधिर्विहितः कर्मणैव संवर्तते सञ्जय तत्र कर्म ।
तत्र योऽन्यत्कर्मणः साधु मन्ये- न्मोघं तस्यालपितं दुर्बलस्य ॥
कर्मणाऽमी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा ।
अहोरात्रे विदधत्कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः ॥
मासार्धमासानथ नक्षत्रयोगा- नतन्द्रितश्चन्द्रमाश्चाभ्युपैति ।
अतन्द्रितो दहते जातवेदाः समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥
अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी वलेन ।
अतन्द्रिताः शीघ्रसपो वहन्ति सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥
अतन्द्रितो वर्षति भूरितेजाः सन्नादयन्नन्तरिक्षं दिशश्च ।
अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥
हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप ।
सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च ॥
एतानि सर्वाण्युपसेवमानो यो देवराज्यं मघवान्प्राप मुख्यम् ।
बृहस्पतिर्ब्रह्मचर्यं चचार समीहितः संशिमात्मा यथावत् ॥
हित्वा सुख प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः ।
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे ॥
यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च सूत ।
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च निपेवमाणा ऋषयोऽमुत्र भान्ति ॥
जानन्निमं सर्वलोकस्य धर्मं विप्रेन्द्राणां क्षत्रियाणां विशां च ।
स कस्मात्त्वं जानतां ज्ञानवान्सन् व्यायच्छसेक सञ्जय कौरवार्थे ॥
आम्नायेषु नित्यसंयोगमस्य तथाऽश्वमेधे राजसूये च विद्धि ।
संयुज्यते धनुपा वर्मणा च हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ॥
ते चेदिमे कौरवाणाम्रुपाय- मवगच्छेयुवधेनैव पार्थाः ।
धर्मत्राणं पुण्यमेषां कृतं स्या- दार्ये वृत्ते भीमसेनं निगृह्य ॥
ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम् ।
यथाशक्त्यापूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम् ॥
उताहो त्वं मन्यसे शाम्यमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम् ।
अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां श्रृणोमि ॥
चातुर्वर्ण्यस्य प्रथमं संविभाग- मवेक्ष्य त्वं सञ्जय स्वं च कर्म ।
निशम्याथो पाण्डवानां च कर्म प्रशंस वा निन्द वा या मतिस्ते ॥
अधीयीत ब्राह्मणो वै यजेत दद्यादीयात्तीर्थमुख्यानि चैव ।
अध्याप्रयेद्याजयेच्चापि याज्यान् प्रतिग्रहान्वा विहितान्प्रतीच्छेत् ॥
` अधीयीत क्षत्रियोऽथो यजेत दद्याद्धनं न तु याचेत किंचित् ।
न याजयेन्न तु चाध्यापयीत एवं स्मृतः क्षत्रधर्मः पुराणः ॥'
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा ।
यज्ञैदिष्ट्वा सर्ववेदानधीत्य दारान्कृवा पुण्यकृदावसेद्गृहान् ॥
स धर्मात्मा धर्ममधीत्य पुण्यं यदृच्छया व्रजति ब्रह्मलोकम् ।
वैश्योऽधीत्य कृषिगोरक्षपण्यै- र्वित्तं चिन्वन्पालयन्नप्रमत्तः ॥
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् ।
परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः । नित्योत्थितो भूतयेऽतन्द्रितः स्या- देवं स्मृतः शूद्रधर्मः पुराणः ॥
एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे ।
अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामात् ॥
श्रेयांस्तस्माद्यदि विद्येत कश्चि- दभिज्ञातः सर्वधर्मोपपन्नः ।
स तं द्रष्टुमनुशिष्यन्प्रजानां न चैतद्बुध्येदिति तस्मिन्नसाधुः ॥
यदा गृध्येत्परभूतौ नृशंसो विधिप्रकोपाद्बलमाददानः ।
ततो राज्ञामभवद्युद्धमेत- त्तत्र जातं वर्म शस्त्रं धनुश्च । इन्द्रेणैतद्दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च ॥
तत्र पुण्यं दस्युवधेन लभ्यते सोऽयं दोषः कुरुभिस्तीव्ररूपः ।
अधर्मज्ञैर्धर्ममबुध्यमानैः प्रादुर्भूतः सञ्जय साधु तन्न ॥
तत्र राजा धृतराष्ट्रः सपुत्रो धर्म्यं हरेत्पाण्डवानामकस्मात् ।
नावेक्षन्ते राजधर्मं पुराणं तदन्वयाः कुरवः सर्व एव ॥
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः ।
उभौ गर्ह्यौ भवतः सञ्जयैतौ किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे ॥
सोऽयं लोभान्मन्यते धर्ममेतं यमिच्छति क्रोधवशानुगामी ।
भागः पुनः पाण्डवानां निविष्ट- स्तं नः कस्मादाददीरन्परे वै ॥
अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम् ।
एतान्धर्मान्कौरवाणां पुराणा- नाचक्षीथाः सञ्जय राजमध्ये ॥
एते मदान्मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः ।
इदं पुनः कर्म पापीय एव सभामध्ये पश्य वत्तं कुरूणाम् ॥
प्रियं भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम् ।
यदुपैक्षन्त कुरवो भीष्ममुख्याः कामानिगेनोपरुद्धां व्रजन्तीम् ॥
तां चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः ।
मम प्रियं धृतराष्ट्रोऽकरिष्यत् पुत्राणां च कृतमस्याभविष्यत् ॥
दुःशासनः प्रतिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम् ।
सा तत्र नीता करुणं व्यपेक्ष्य नान्यं क्षत्तुर्नाथमवाप किंचित् ॥
कार्पण्यादेव सहितास्तत्र भूपा नाशक्नुवन्प्रतिवक्तुं सभायाम् ।
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ॥
अबुद्ध्वा त्वं धर्ममेतं सभाया- अथेच्छसे पाण्डवस्योपदेष्टुम् ।
कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तत्र सभां समेत्य ॥
येन कृच्छ्रात्पाण्डवानुज्जहार तथाऽऽत्मानं नौरिव सागरौघात् ।
यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे ॥
न ते गतिर्विद्यते याज्ञसेनि प्रपद्येथा धार्तराष्ट्रस्य वेश्म ।
पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व ॥
यो बीभत्सोर्हृदये प्रोत आसी- दस्थि छिन्दन्मर्मघाती सुघोरः ।
कर्णाच्छरो वाङ्भयस्तिग्मतेजाः प्रतिष्ठितो हृदये फाल्गुनस्य ॥
कृष्णाजिनानि परिधित्समानान् दुःशासनः कटुकान्यभ्यभाषत् ।
एते सर्वे षण्डतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् ॥
गान्धारराजः शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थम् ।
पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या । जानासि त्वं सञ्जय सर्वमेतत् द्यूते वाक्यं गर्ह्यमेवं यथोक्तम् ॥
स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् ।
` जानासि त्वं धार्तराष्ट्रस्य मोहं दुरात्मनः पापवशानुगस्य ' ॥
अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामपि चेच्छकेयम् ।
पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात् ॥
अपि मे वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् ।
अवेक्षेरन्धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः ॥
अतोऽन्यथा रथिना फाल्गुनेन भीमेन चैवाहवदंशितेन ।
बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि प्रदह्यमानान्कर्मणा स्वेन पापान् ॥
पराजितान्पाण्डवेयांस्तु वाचो रौद्रा रूक्षा भाषते धार्तराष्ट्रः ।
गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयिता हि काले ॥
सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्कफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥
` वनं राजा धृतराष्ट्रः सपुत्रः सिंहा वने सञ्जय पाण्डवेयाः ।
सिंहाभिगुप्तं न वनं विनश्येत् सिंहो न नश्येत वनाभिगुप्तः ॥
निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम् । तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत् ॥'
वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः ।
मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना ॥
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।
तस्माद्व्याघ्रो वनं रक्षेद्वयं व्याघ्रं च पालयेत् ॥
लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः ।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः ।
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः ।
योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकोनत्रिंशोऽध्यायः ॥

5-29-2 शाम्यतेति वचनादन्यत्तान्प्रति न ब्रूयाम् । पाण्डवानां समक्षं राज्ञो युधिष्ठिराच्च एतदेव शृणोमि । अहं च एतन्मन्ये मानयामि ॥ 2 ॥ 5-29-3 तत्र राज्ये निमित्ते । गृद्धः लिप्सावान् । एवं सति एषां कौरवाणां कस्माद्धेतोः कलहः नावमूर्च्छेत् ॥ 3 ॥ 5-29-4 विचरं विचलितम् । पूरयतः पालयतः ॥ 4 ॥ 5-29-5 यथाख्यातं प्रसिद्धिमनतिक्रम्य आवसतः अधितिष्टतः साधुविलोपं धर्मलोपं युधिष्ठिरे कस्माद्धेतोः आत्थ उक्तवान् त्वम् । अस्मिन्विधौ ॥ 5 ॥ 5-29-17 व्यायच्छसे निग्रहं करोषि ॥ 17 ॥ 5-29-18 विद्या धर्मः शौर्यं च युधिष्ठिरे पुष्कलमस्तीति नायमन्येन शिक्षणीयो जेतुं वा शक्य इत्यर्थः ॥ 18 ॥ 5-29-19 कौरवाणां अवधेन उपायम् । राज्यप्राप्ताविति शेषः । एषां एतैः । भीमसेनं आर्ये वृत्ते अहिंसायां निगृह्य पुण्यमेव कृतं स्यात् ॥ 19 ॥ 5-29-21 शाम्यमेव शमः कार्यएवेति मन्यसे तर्हि धर्ममन्त्रं धर्मानुष्ठानं युद्धपक्षेऽस्ति उत अयुद्धपक्षे । तयोर्मध्ये यदेव वक्ष्यसि तथैव ते वाचं श्रृणोमि करिष्यामीत्यर्थः ॥ 21 ॥ 5-29-26 सः क्षत्रियः अधीत्य प्राप्य ॥ 26 ॥ 5-29-29 तस्मात् राज्ञः श्रेयान् प्रशस्ततरः अभिज्ञातः ज्ञानतः धर्मतश्च यदि कश्चिदस्ति स तं युधिष्ठिरं प्रजानां कर्मणि षष्ठी । प्रजाः द्रष्टुं राज्यं प्राप्तुमित्यर्थः । अनुशिष्यन् अनुशासितुमिच्छत् एतन्मदुक्तं धर्मजातं युधिष्ठिरेऽस्तीति बुध्येत् । नच तस्मिन्नसाधुः युधिष्ठिरेऽसाधुरधर्मो न चास्तीत्यपि बुध्येत् ॥ 29 ॥ 5-29-30 परभूतौ परैश्वर्ये नूशंसश्चोरकल्पो राजा विधिप्रकोषात् दैवप्रातकूल्यात् गृद्ध्येत् । ततो हेतोः राज्ञां परस्परं युद्धं समभवत् । कर्म युद्धम् । वर्म कवचम् । शस्त्रं खङ्गादि धनुश्चेति ॥ 30 ॥ 5-29-31 कुरुभिर्निमित्तभूतैरयं दोषः वञ्जनारूपः प्रादुर्भूतः ॥ 31 ॥ 5-29-32 धर्म्यं धर्मादागतं पित्र्यं राज्यम् । तदन्वयास्तदनुसारिणः ॥ 32 ॥ 5-29-33 पृथत्क्वं स्तेनादन्यत्वम् ॥ 33 ॥ 5-29-34 एतं छलेन राज्यापहारम् । निविष्टः वनवासादूर्ध्वं राज्यं ग्राह्यमिति कौरवेषु न्यासरूपेण स्थितः तं भागं नः अस्माकं परे कस्मात् आददीरन् गृहीतवन्तः ॥ 34 ॥ 5-29-35 पदे पदनीये अवश्यग्राह्ये भागे निमित्ते ॥ 35 ॥ 5-29-37 कामानुगेन रजसा । उपरुद्धां गृहकर्मतो निरुद्धाम् ॥ 37 ॥ 5-29-39 प्रातिलोम्यात् अक्रमेण ॥ 39 ॥ 5-29-40 कार्पण्यात् दैन्यात् ॥ 40 ॥ 5-29-41 पाण्डवस्य धर्मं उपदेष्टुं इच्छसे ॥ 41 ॥ 5-29-47 विपन्नं नष्टं समाधातं समीकर्तुम् ॥ 47 ॥ 5-29-48 शकेयं शक्तश्चेत्स्याम् ॥ 48 ॥ 5-29-49 काव्यां शोक्रीम् ॥ 49 ॥ 5-29-51 रौद्राः मर्मच्छिदः । रूक्षाः निःस्नेहाः । भाषते द्यूतावसानेऽभाषत ॥ 51 ॥ 5-29-53 ब्रह्म वेदः ॥ 53 ॥