अध्यायः 030

सञ्जयेन गमनाय युधिष्ठिराद्यामन्त्रणम् ॥ 1 ॥ युधिष्ठिरेण सञ्जयंप्रति आभीष्मं आखञ्जकुब्जं सर्वेषु यथायोग्यं वन्दनादिपूर्वकं स्वस्य कुशलनिवेदनचोदनम् ॥ 2 ॥ तथा दुर्योधनंप्रति सन्धिविग्रहान्यतरपक्षस्वीकरणाभ्यनुज्ञानकथनचोदनम् ॥ 3 ॥

सञ्जय उवाच ।
आमन्त्रये त्वां नरदेवदेव गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु ।
कच्चिन्न वाचा वृजिनं हि किंचि- दुच्चारितं मे मनसोऽभिषङ्गात् ॥
जनार्दनं भीमसेनार्जुनौ च माद्रीसुतौ सात्यकिं चेकितानम् ।
आमन्त्र्य गच्छामि शिवं सुखं वः सौम्येन मां पश्यत चक्षुषा नृपाः ॥
युधिष्ठिर उवाच ।
अनुज्ञातः सञ्जय स्वस्ति गच्छ न नः स्मरस्यप्रियं जातु विद्वन् ।
विद्मश्च त्वां ते च वयं च सर्वे शुद्धात्मानं मध्यगतं सभास्थम् ॥
आप्तो दूतः सञ्जय सुप्रियोऽसि कल्याणवाक् शीलवांस्तृप्तिमांश्च ।
न मुह्येस्त्वं सञ्जय जातु मत्या न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम् ॥
न मर्मगां जातु वक्ताऽसि रूक्षां नोपश्रुतिं कटुकां नोति शुष्काम् ।
धर्मारामामर्थवतीमहिंस्रा- मेतां वाचं तव जानीम सूत ॥
त्वमेव नः प्रियतमोऽसि दूत इहागच्छेद्विदुरो वा द्वितीयः ।
अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं धनञ्जयस्यात्मसमः सखाऽसि ॥
इतो गत्वा सञ्जय क्षिप्रमेव उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः ।
विशुद्धवीर्याश्चरणोपपन्नाः कुले जाताः सर्वधर्मापपन्नाः ॥
स्वाध्यायिनो ब्राह्मणा भिक्षवश्च तपस्विनो ये च नित्या वनेषु ।
अभिवाद्य तान्मद्वचनेन वृद्धां- स्तथैव तान्कुशलं तात पृच्छेः ॥
पुरोहितं धृतराष्ट्रस्य राज्ञ- स्तथाचार्यानृत्विजो ये च तस्य ।
तांश्चैवत्वं सहितान्वै यथावत् सङ्गच्छेथाः कुशलेनैव सूत ॥
अश्रोत्रिया ये च वसन्ति वृद्धा मनस्विनः शीलबलोपपन्नाः ।
आशंसन्तोऽस्माकमनुस्मरन्तो यथाशक्ति धर्ममात्रां चरन्तः ॥
श्लाघस्व मां कुशलिनं स्म तेभ्यो ह्यनामयं तात पृच्छेर्जघन्यम् ।
ये जीव्ति व्यवहारेण राष्ट्रे पशूंश्च ये पालयन्तो वसन्ति । ` कृषीवला बिभ्रति ये च लोकं तेषां सर्वषां कुशलं स्म पृच्छेः ॥'
आचार्य इष्टो नयगो विधेयो वेदानभीप्सन्ब्रह्मचर्यं चचार ।
योऽस्त्रं चतुष्पात्पुनरेव चक्रे द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ ॥
अधीतविद्यश्चरणोपपन्नो योऽस्त्रं चतुष्पात्पुनरेव चक्रे ।
गन्धर्वपुत्रप्रतिमं तरस्विनं तमश्वत्थामानं कुशलं स्म पृच्छेः ॥
शारद्वतस्यावसथं स्म गत्वा महारथस्यात्मविदां वरस्य ।
त्वं मामभीक्ष्णं परिकीर्तयन्वै कृपस्य पादौ सञ्जय पाणिना स्पृशेः ॥
यस्मिन्शौर्यमानृशंस्यं तपश्च प्रज्ञा शीलं श्रुतरूपे धृतिश्च ।
पादौ गृहीत्वा कुरुसत्तमस्य भीष्मस्य मां तत्र निवेदयेथाः ॥
प्रज्ञाचक्षुर्यः प्रणेता कुरूणां बहुश्रुतो वृद्धसेवी मनीषी ।
तस्मै राज्ञे स्थविरायाभिवाद्य आचक्षीथाः सञ्जय मामरोगम् ॥
ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो मूर्खः शठः सञ्जय पापशीलः ।
यस्यापवादः पृथिवीं याति सर्वां सुयोधनं कुशलं तात पृच्छेः ॥
भ्राता कनीयानपि तस्य मन्द- स्तथाशीलः सञ्जय सोपि शश्वत् ।
महेष्वासः शूरतमः कुरूणां दुःशासनः कुशलं तात वाच्यः ॥
यस्य कामो वर्तते नित्यमेव नान्यः शमाद्भारतानामिति स्म ।
स बाह्लिकानामृषभो मनीषी पुनर्यथा माऽभिवदेत्प्रसन्नः ॥
` भूरिश्रवास्तात निपातयोधी महेष्वासो रथिनामुत्तमोऽग्र्यः ।
गत्वा स्म तं मद्वचनेन ब्रूयाः शल्यं तथा मद्वचनात्प्रतीतः ॥
महेष्वासो रथिनामुत्तमोऽग्र्यः समः शलो रक्षिता पृष्ठमस्य ।
हीनिषेवो देविता यो मताक्षः सत्यव्रतः पुरुमित्रो जयश्च । ये प्रस्थानं तत्र मे नाभ्यनन्दं- स्तेषां सर्वेषां कुशलं तात पृच्छेः ॥'
गुणैरनेकैः प्रवरैश्च युक्तो विज्ञानवान्नैव च निष्ठुरो यः ।
स्नेहादमर्षं सहते सदैव स सोमदत्तः पूजनीयो मतो मे ॥
अर्हत्तमः कुरुषु सौमदत्तिः स नो भ्राता संजय मत्सखा च ।
महेष्वासो रथिनामुत्तमोऽर्हः सहामात्यः कुशलं तस्य पृच्छेः ॥
ये चैवान्ये कुरुमुख्या युवानः पुत्राः पौत्रा भ्रातरश्चैव ये नः ।
यंयमेषां मन्यसे येन योग्यं तत्तत्प्रोच्यानामयं सूत वाच्याः ॥
ये राजानः पाण्डवायोधनाय समानीता धार्तराष्ट्रेण केचित् ।
वशातयः साल्वकाः केकयाश्च तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ॥
प्राच्योदीच्या दाक्षिण्यात्याश्च शूरा- स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे ।
अनृशंसाः शीलवृत्तोपुन्ना- स्तेषां सर्वेषां कुशलं सूत पृच्छेः ॥
हस्त्यारोहा रथिनः सादिनश्च पदातयश्चार्यसङ्घा महान्तः ।
आख्याय मां कुशलिनं स्म नित्य- मनामयं परिपृच्छेः समग्रान् ॥
तथा राज्ञो ह्यर्थयुक्तानमात्यान् दौवारिकान्ये च सेनां नयन्ति ।
आयव्ययं ये गमयन्ति नित्य- मर्थांश्च ये महतश्चिन्तयन्ति ॥
वृन्दारकं कुरुमध्येष्वमूढं महाप्रज्ञं सर्वधर्मोपपन्नम् ।
न तस्य युद्धं रोचते वै कदाचि- द्वैश्यापुत्रं कुशलं तात पृच्छेः ॥
निकर्तने देवने योऽद्वितीय- श्छन्नोपधः साधुदेवी मताक्षः ।
यो दुर्जयो देवरथेन सङ्ख्ये स चित्रसेनः कुशलं तात वाच्यः ॥
गान्धारराजः शकुनिः पार्वतीयो निकर्तने योऽद्वितीयोऽक्षदेवी ।
मानं कुर्वन्धार्तराष्ट्रस्य सूत मिथ्याबुद्धेः कुशलं तात पृच्छेः ॥
यः पाण्डवानेकरथेन वीरः समुत्सहत्यप्रधृप्यान्विजेतुम् ।
यो मुह्यतां मोहयिताऽद्वितीयो वैकर्तनः कुशलं तस्य पृच्छेः ॥
स एव भक्तः स गुरुः स भर्ता स वै पिता स च माता सुहृच्च ।
अगाधबुद्धिर्विदुरो दीर्घदर्शी स नो मन्त्री कुशलं तं स्म पृच्छेः ॥
वृद्धाः स्त्रियो याश्च गुणोपपन्ना ज्ञायन्ते नः सञ्जय मातरस्ताः ।
ताभिः सर्वाभिः सहिताभिः समेत्य स्त्रीभिः सवृद्धाभिरभिवादं वदेथाः ॥
कच्चित्पुत्रा जीवपुत्राः सुसम्य- ग्वर्तन्ते वो वृत्तिमनृशंसरूपाः ।
इति स्मोत्का सञ्जय ब्रूहि पश्चा- दजातशत्रुः कुशली सपुत्रः ॥
राज्ञो भार्याः सञ्जय वेत्थ तत्र तासां सर्वासां कुशलं तात पृच्छेः ।
सुसंगुप्ताः सुरभयोऽनवद्याः कच्चिद्गृहानावसथाप्रमत्ताः ॥
कच्चिद्वृत्तिं श्वशुरेषु भद्राः कल्याणीं वर्तध्वमनृशंसरूपाम् ।
यथा च वः स्युः पतयोऽनुकूला- स्तथा वृत्तिमात्मनः स्थापयध्वम् ॥
या नः स्नुषाः सञ्जय वेत्थ तत्र प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः ।
प्रजावत्यो ब्रूहि समेत्य ताश्च युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ॥
कन्याः स्वजेथाः सदनेषु सञ्जय अनामयं मद्वचनेन पृष्ट्वा ।
कल्याणा वः सन्तु पतयोऽनुकूला यूयं पतीनां भवतानुकूलाः ॥
अलङ्कृता वस्त्रवत्यः सुगन्धा अबीभत्साः सुखिता भोगवत्यः ।
लघु यासां दर्शनं वाक्व लघ्वी वेशस्त्रियः कुशलं तात पृच्छेः ॥
दास्यः स्युर्या ये च दासाः कुरूणां तदाश्रया बहवः कुब्जखञ्जाः ।
आख्याय मां कुशलिनं स्म तेभ्यो- ऽप्यनामयं परिपृच्छेर्जघन्यम् ।
कच्चिद्वृत्तिं वर्तते वै पुराणीं कच्चिद्भोगान्दार्तराष्ट्रो ददाति ।
अङ्गहीनान्कृपणान्वामनान्वा यानानृशंस्याद्धार्तराष्ट्रो बिभर्ति ॥
अन्धाश्च सर्वे बधिरास्तथैव हस्ताजीवा बहवो येऽत्र सन्ति ।
आख्याय मां कुशलिनं स्म तेभ्यो- ऽप्यनामयं परिपृच्छेर्जघन्यम् ॥
मा भैष्ट दुःखेन कुजीवितेन नूनं कृतं परलोकेषु पापम् ।
निगृह्य शत्रून्सुहृदोऽनुगृह्य वासोभिरन्नेन च वो भरिष्ये ॥
` न चाप्येतच्छक्यमेकेन वक्तुं नानादेशा बहवो जातिसङ्घाः ।
विप्रोषितो बालवद्द्रष्टुमिच्छ- न्नमस्येऽहं सञ्जय भैमसेनान् । ते मे यथा वाचमिमां यथोक्तां त्वयोच्यमानां श्रृणुयुक्तथा कुरु ॥
सन्त्येव मे ब्राह्मणेभ्यः कृतानि भावीन्यथो नो बत वर्तयन्ति ।
तान्पश्यामि युक्तरूपांस्तथैव तामेव सिद्धिं श्रावयेथा नृपं तम् ॥
ये चानाथा दुर्बलाः सर्वकाल- मात्मन्येव प्रयतन्तेऽथ मूढाः ।
तांश्चापि त्वं कृपणान्सर्वथैव ह्यस्मद्वाक्यात्कुशलं तात पृच्छेः ॥
ये चाप्यन्ये संश्रिता धार्तराष्ट्रा- न्नानादिग्भ्योऽभ्यागताः सूतपुत्र ।
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा- न्संपृच्छेथाः कुशलं चाव्ययं च ॥
एवं सर्वानागताभ्यागतांश्च राज्ञो दूतान्सर्वदिग्भ्योभ्युपेतान् ।
पृष्ट्वा सर्वान्कुशलं तांश्च सूत पश्चादहं कुशली तेषु वाच्यः ॥
न हीदृशाः सन्त्यपरे पृथिव्यां ये योधका धार्तराष्ट्रेण लब्धाः ।
धर्मस्तु नित्यो मम धर्म एव महाबलः शत्रुनिबर्हणाय ॥
इदं पुनर्वचनं धार्तराष्ट्रं सुयोधनं सञ्जय श्रावयेथाः ।
यस्ते शरीरे हृदयं दुनोति कामः कुरूनसपत्नोऽनुशिष्याम् ॥
न विद्यते युक्तिरेतस्य काचि- न्नैवं विधास्यामि यथा प्रियं ते ।
ददस्व वा शक्रपुरीं ममैव युध्वस्व वा भारतमुख्यवीर ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जयानपर्वणि त्रिंशोऽध्यायः ॥

5-30-1 अभिषङ्गात् आवेशात् ॥ 5-30-5 उपश्रुतिं वार्ताम् । रूक्षां मर्मगाम् । कटुकां नीरसाम् ॥ 5 ॥ 5-30-7 चरणं ब्रह्मचर्येणाध्ययनम् ॥ 5-30-10 अश्रोत्रियाः अत्रैवर्णिकाः शूद्रादयः । धर्ममात्रां धर्मलेशं जरन्तः ॥ 5-30-11 श्लाघ्यस्व स्तुहि । जघन्यं पश्चातेभ्यस्तेषां अनामयं पृच्छेः । व्यवहारेण वाणिज्यादिना पालयन्तः स्थानाधिकारिणः ॥ 5-30-12 चतुष्पात् मन्त्र उपचारः प्रयोगः संहारश्चेति चत्वारः पादा अस्थेति अस्त्रम् ॥ 5-30-13 गन्धर्वेति सौन्दर्यं संगीतं च तस्मिन् द्योतितम् ॥ 5-30-25 पाण्डवायोधनाय पाण्डवैः सह युद्धाय ॥ 5-30-29 वृन्दारकं श्रेष्ठम् ॥ 5-30-30 निकर्तनेऽर्थापहारे । छन्नोपधो गुप्तछलः ॥ 5-30-32 मुह्यतां धार्तराष्ट्राणाम् ॥ 5-30-40 शीघ्रहारि । वेशस्त्रियो वेश्याः ॥ 5-30-44 शत्रून् धार्तराष्ट्रान् निगृह्य वः युष्मान् भरिष्ये पोषयिष्ये इति ब्रूया इति शेषः ॥ 44 । 5-30-46 मे मया कृतानि वत्सरदेयानि नो वर्तयन्ति न चालयन्ति । त्वदीया अधिकारिणः तान्यहं यथा यथावत्पश्यमि तथैव तां सिद्धिं त्वद्दत्तं सम्यक् परिपालयामीति दूतद्वारा मां श्रावयेथा इति तं नृपं दुर्योधनं ब्रृहीति शेषः ॥ 46 ॥ 5-30-47 आत्मन्येव प्रयतन्ते न तु कर्तुं शक्नुवन्ति ॥ 5-30-50 नित्यः अविनाशिफलः ॥ 50 ॥ 5-30-52 युक्तिः संभावना एतस्यार्थस्य न विद्यते । शक्रपुरीं इन्द्रप्रस्थम् ॥ 52 ॥