अध्यायः 033

धृतराष्ट्रेण रात्रौ विदुरानयनम् ॥ 1 ॥ चिन्तया प्रजागरंगतेन धृतराष्ट्रेण दुर्योधनादिसुखोपायप्रश्ने विदुरेण नीतिकथन पूर्वकं पाण्डवेभ्यो राज्यदानस्य तदुपायत्वकथनम् ॥ 2 ॥

वैशंपानय उवाच ।
द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः ।
विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम् ॥
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।
अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय ॥
द्वाःस्थ उवाच ।
विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् ।
द्रुष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥
धृतराष्ट्र उवाच ।
प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् ।
अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने ॥
द्वाःस्थ उवाच ।
प्रविशान्तःपुरं क्षत्तर्महारादजस्य धीमतः ।
न हि ते दर्शनेऽकल्पो जातु राजाऽब्रवीद्धि माम् ॥
वैशंपायन उवाच ।
ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् ।
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥
विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् ।
यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् ॥
धृतराष्ट्र उवाच ।
सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः ।
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया ।
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥
आग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥
यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः ।
सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव मेऽद्य प्रचिन्ता ॥
` तन्मे ब्रूहि विदुर त्वं यथाव- न्मनीषितं सर्वमजातशत्रोः ।
यथा न नस्तात हितं भवेच्च प्रजाश्च सर्वाः सुखिता भवेयुः ॥'
विदुर उवाच ।
अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप ।
कच्चिच्च परवित्तेषु गृद्ध्यन्न परितप्यसे ॥
धृतराष्ट्र उवाच ।
श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः ।
अस्मिन्रादर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ॥
विदुर उवाच ।
राजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत् ।
प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः ॥
विपरीततरश्च त्वं भागधेये न संमतः ।
अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ॥
आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात् ।
गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेशांस्तितिक्षते ॥
दुर्योधने सौबले च कर्णे दुःशासने तथा ।
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥
` एकस्माद्वृक्षाद्यज्ञपात्राणि राज- न्स्रुक्व द्रोणी पेठनीपीडने च ।
एतस्माद्राजन्ब्रुवतो मे निबोध एकस्माद्वै जायतेऽसच्च सच्च ॥
निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥
क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
किंचिदवमन्यन्ते नराः पण्डितबुद्धयः ॥
क्षिप्रं विजानाति चिरं श्रृणोति विज्ञाय चार्यं भजते न कामात् ।
नासंपृष्टो व्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥
न हृष्यत्यात्मसंमाने नावमानेन तप्यते ।
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥
प्रवृत्तवाक् चित्रकथ ऊहवान्प्रतिभानवान् ।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥
` अर्थं महान्तमासाद्य विद्यामेश्वर्यमेव च ।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ' ॥
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥
अकामान्कामयति यः कामयानान्परित्यजेत् ।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥
संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥
श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति ।
सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥
परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ॥
आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥
अशिष्यं शास्ति यो राजन्यश्च शिष्यं न शास्ति च ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥
एकः संपन्नमाश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भवा ॥
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रपिप्लवः ॥
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे ।
सत्यं स्वगस्य सोपानं पारावारस्य नौरिव ॥
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते ।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥
सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम् ।
क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ॥
क्षमा वशीकृतीर्लोके क्षमया किं न साध्यते ।
शान्तिखङ्गः करे यस्य किं करिष्यति दुर्जनः ॥
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ।
अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ॥
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥
द्वाविमौ ग्रसते भूमिः सर्पो बलिशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते ।
अब्रुवन्परुषं किंचिदसतोऽनर्चयंस्तथा ॥
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।
स्त्रियः कामितकामिन्यो मूर्खाः पूजितपूजकाः ॥
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥
द्वावेव न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः ।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चात्प्रतिपादनम् ॥
द्वावभ्यसि निवेष्टव्यौ गले बध्वा दृढां शिलाम् ।
धनवन्तमदातारं दरिद्रं चातपस्विनम् ॥
द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ॥
हरणं च परस्वानां परदाराभिमर्शनम् ।
सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः ॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥
वरप्रदानं राज्यं च पुत्रजन्म च भारत ।
शत्रोश्च मोक्षणं कृच्छ्रात्रीणि चैकं च तत्समम् ॥
भक्तं च भजमानं च तवास्मीति च वादिनम् ।
त्रीनेताञ्छरणं प्राप्तान्विषमेऽपि कन सन्त्यजेत् ॥
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् ।
अल्पप्रज्ञैः सह मन्त्रं न कुर्या- न्न दीर्घसूत्रैरलसैश्चारणैश्च ॥
चतवारि ते तात गृहे वसन्तु श्रियाऽभिजुष्टस्य गृहस्थधर्मे ।
वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥
चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः ।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥
देवतानां च सङ्कल्पमनुभावं च धीमताम् ।
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥
चत्वारि कर्माण्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः ।
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥
पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् ।
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥
पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ।
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ॥
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ।
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥
षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड्जीवलोकस्य सुखानि राजन् ॥
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥
प्रमदाः कामयानेषु यजमानेषु याजकाः ।
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥
षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात् ।
गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥
षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।
आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरं ॥
नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम् ।
नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकं ॥
आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह संप्रयोगः ।
स्वप्रत्यया वृत्तिरभीतवासः षट् जीवलोकस्य सुखानि राजन् ॥
ईर्षुर्धृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः ।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः ॥
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।
महच्च दण्डपारुष्यमर्थदूषणमेव च ॥
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥
नैनान्स्मरति कृत्येषु याचितश्चाभ्यसूयति ।
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुध्वा विसर्जयेत् ॥
अष्टाविमानि हर्षस्य नवनीतानि भारत ।
वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि ॥
समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥
समये च प्रियालापः स्वयूथ्येषु समुन्नतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥
अष्टौ गुमाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश ।
तस्मादेतेषु भावेषु न प्रसञ्जेत पण्डितः ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च ।
विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥
जानाति विश्वासयितुं मनुष्यान् विज्ञातदोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥
सुदुर्बलं नावजानाति कंचि- द्युक्तो रिपुं सेवते बुद्धिपूर्वम् ।
न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥
प्राप्याप.. न व्यथते कदाचि- दुद्योगमान्वच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः ॥
अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् ।
दम्भं स्तैन्यं पैशुनं मद्यमानं न सेवते यः स सुखी सदैव ॥
न संरम्भेणारभते त्रिवर्ग- माकारितः शंसति तत्त्वमेव ।
न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥
न योऽभ्यसूयत्सयनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति ।
नात्याह किंचित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् ॥
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् ।
न मूर्च्छितः कटुकान्याह किंचि- त्प्रियं सदा तं कुरुते जनो हि ॥
न वैरमुद्दिपयति प्रशान्तं न दर्पमारोहति शान्तिमेति ।
न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः ॥
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः ।
दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥
देशाचारान्समयाञ्जातिधर्मान् बुभूषते यः स परावरज्ञः ।
स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति ॥
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् ।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥
दमं शौचं दैविकं मङ्गलानि प्रायश्चित्तान्विविधाँल्लोकवादान् ।
एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥
समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथां च ।
गुणैर्विशिष्टांश्च पुरो दधाति विपश्चितस्तस्य नयाः सुनीताः ॥
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा ।
ददात्यमित्रेष्वपि याचितः सं- स्तमात्मवन्तं प्रजहत्यनर्थाः ॥
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित् ।
मन्त्रे गुप्ते सम्यगनुष्ठिते च नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ॥
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्मानकृच्छुद्धभावः
अतीव स ज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव सप्रन्नः ॥
य आत्मनाऽपत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत
अनन्तजेजाः सुमनाः समाहितः स तेजसा सूर्य इवावभासते ॥
वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः ।
त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय ॥
प्रदायैषामुचितं तातराज्यं सुखी पुत्रैः सहितो मोदमानः ।
न देवानां नापि च मानुषाणां भविष्यसि त्वं गर्हणीयो नरेन्द्र ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि त्रयस्त्रिंशोऽध्यायः ॥

5-33-5 अकल्पो न किंतु कल्पः समर्थ एव । सर्वदा विदुरसंदर्शनं मय अप्रत्याख्येयमित्यर्थः ॥ 5-33-10 प्रजागरं निद्राया अभावम् ॥ 5-33-12 यतः यदा प्राप्तः सञ्जयस्तदारभ्येत्यर्थः । प्रचिन्ता प्रकृष्टा चिन्ता ॥ 5-33-14 अभियुक्तमित्यर्धोपात् एकः त्रयोऽन्ये च प्रदागरावेशभाजनानि ॥ 5-33-15 गृद्ध्यन् लिप्सावान् ॥ 5-33-17 प्रेष्यः प्रकर्षेण एषणीयः प्रार्थ्य इतियावत् । ते त्वया प्रेषितो वनमिति शेषः ॥ 5-33-18 विपरीतः राजलक्षणहीनः सर्वेषां द्वेष्यः । भागधेये राज्यांशे । अर्चिषां नेत्ररश्मीनां प्रक्षयात् । न संमतस्त्वं धर्मात्मापि सन्निति उपहासः ॥ 5-33-19 आनृशंस्यात् क्रूरत्वाभावात् । अनुक्रोशात् दयालुत्वात् । तितिक्षते युधिष्ठिर इति शेषः ॥ 5-33-20 एतेष्विति । एतेषामधीनो भूत्वेत्यर्थः ॥ 5-33-21 एतेषु पाण्डित्यं नास्तीति वक्तुं पाण्डितलक्षणान्याह आत्मज्ञानमित्यादिना । आत्मज्ञानं शास्त्रीयापेक्षम् । समारम्भः शक्त्यपेक्षः । तितिक्षा वैराग्यापेक्षा । धर्मनित्यता श्रद्धापेक्षा । एतानि अयथाभूतानि मूढान् पुरुषार्थात् भ्रंशयन्ति नतु पण्डितानित्यर्थः ॥ 5-33-23 अनास्तिकः परलोकाद्यस्तीति जानन् । श्रद्दधानः श्रद्धा गुरुवेदवाक्यादिषु फलावश्यंभावनिश्चयस्तद्वान् ॥ 5-33-24 दर्पः परावज्ञानम् । स्तम्भः असन्नतिः । मान्यमानिता मान्यं मानार्हं आत्मानं मन्यत इति मान्यमानी तस्य भावस्तत्ता ॥ 5-33-27 संसारिणी स्वभावतोऽनवस्तितापि कामात् ऐहिक सुखात् उभयलोकसुखावहं धर्ममर्थं वृणीते स पण्डितः । कामो धर्मार्थापेक्षया निकृष्ट इत्यर्थः । कामादिति । यस्तु कामं त्यक्त्वा अर्थं वृणीते सः अर्थार्थी मोक्षादेव सर्वं अर्थं विन्दति ज्ञानफले मोक्षे कृत्स्नस्यार्थस्यान्तर्भावात् स जनकादितुल्यः अतः पण्डित उच्यते ॥ 5-33-29 चिरं शृणोति ज्ञानदार्ढ्याय असंपृष्टः यथावदपृष्टः । व्युपयुङ्क्ते वाग्व्ययं करोति । परार्थे विषये प्रज्ञानं चिह्नम् ॥ 5-33-31 निश्चित्य स्वयत्नमाध्यत्वम् । कर्मणः अन्तर्मध्ये न वसति नोपरमते किंतु समापयत्येव । अवन्ध्यकालः सर्वदा सप्रयोजनमेव कर्माचरन् ॥ 5-33-32 आर्याः शिष्टाःक तद्योग्यकर्मणि । भूरितैश्वर्यं तत्प्राप्त्यर्थं कर्माणि ॥ 5-33-34 योगो रचनाप्रकारः । उपायस्तदर्थसाग्री । मनुष्याणां मध्ये स नरः पण्डितः ॥ 5-33-35 प्रवृत्तवाक् अकुण्ठितवचनः । चित्रकथो लोककथाभिज्ञः । ऊहस्तर्कः । प्रतिभानं तत्कालस्फूर्तिः ॥ 5-33-36 प्रज्ञानुगं बुद्धिवश्यम् । श्रुतानुगा शास्त्रानुसारिणी ॥ 5-33-38 महामनाः अधिकेच्छावान् । अकर्मणा हीनकर्मणा द्यूतादिनेत्यर्थः ॥ 5-33-42 संसारयति भृत्यादिद्वारा प्रवर्तयति ॥ 5-33-46 नैष्कर्म्यात् अयत्नतः ॥ 5-33-47 कदर्यं अदातारम् ॥ 5-33-51 एकया बुद्द्या । द्वे कार्याकार्ये विनिश्चित्य सम्यगवधार्य । त्रीन् मित्रोदासीनशत्रून् । चतुर्भिः सामदानभेददण्डैः । मित्रं साम्नैव दानभेदाभ्यामुदासीनम् सर्वैः शत्रुं वशीकुरु । पञ्च इन्द्रियाणि जित्वा । षड्विदित्वा संधिविग्रहादीन् ज्ञात्वा । सप्त हित्वा-स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव चेति सप्त हेयानि त्यक्त्वा सुखी भव ॥ 5-33-54 सत्यं यथार्थभाषणम् । पारावारस्य समुद्रस्य ॥ 5-33-69 यद्धं कनीयान् । भेददाने मध्यमः । साम उत्तमः 5-33-71 त्वयिसति त्वत्पुत्रोऽधनोऽतस्त्वमेव पाण्डवानां राज्यं दातुं प्रभुरसीत्यर्थः ॥ 5-33-75 शरणं गृहम् । विषमेपि संकटेपि ॥ 5-33-76 दीर्घसूत्रैः क्षिप्रसाध्ये कार्ये चिरं कुर्वद्धिः । अलसैः करिष्यामीति कालगमकैः । चारणैः स्तावकैः । अरणैरितिच्छेदो कवा । रणविरोधिभिर्द्यूताद्यासक्तैरित्यर्थः ॥ 5-33-77 वृद्धः कुलधर्मानुपदिशति । कुलीनः शिशून् आचारं ग्राहयति । सखा हितं वदति । भगिनी धनं रक्षति ॥ 5-33-78 साद्यस्कानि सद्यःफलानि ॥ 5-33-79 देवताः स्वर्गभाजः । स्वर्गपदार्थश्च- यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् इत्येवंरूपः । अतस्ते सत्यसंकल्पाः । धीमतामगस्त्यादीनामनुभावं समुद्रपानादिप्रभावम् । तेपि देवतुल्या इत्यर्थः । विनयोपि गुरुप्रसादकरत्वेन सद्यःफलः । विनाशहेतुः कर्मापि चौर्यादिकं तच्च त्वय्येवास्ति । तव सर्वं कर्म मानार्थमेवेति भाः । पापकर्मणां विनाशनं विनाशयितुः सद्यःफलम् ॥ 5-33-82 पितॄन् अग्निष्वात्तादीन् गोत्रप्रवर्तकानृषींश्च । मनुष्यान् पित्रादीन् ॥ 5-33-83 त्वा त्वाम् । उपजीव्याः गुरवः । इह लोके साधिता मित्रादयाः । इह परलोके जन्मान्तरे वा स्वं स्वं कार्यं कुर्वन्तीत्यर्तः ॥ 5-33-84 दृतेश्चर्ममयाज्जलपात्रात् 5-33-88 गोपालस्य ग्रामे वासे वनवाससाध्यस्य गोरक्षणस्याभावः । नापितस्य वने वासे ग्रामे तत्कार्याभाव इति भावः ॥ 5-33-90 षण्णामिति । आत्मनि चित्ते नित्यानां षण्णाम्- कामक्रोधौ शोकमोहौ मदमानौ च षट्पदीत्युक्तानाम् । ऐश्वर्यं वशित्वम् ॥ 5-33-95 नातुराः अरोगाः ॥ 5-33-96 स्वप्रत्यया स्वनिश्चयपूर्विका वृत्तिवर्तनं नतु गतानुगतिकयेत्यर्थः ॥ 5-33-100 द्वेष्टि मनसानिष्टं चिन्तयति । विरुध्यते कर्मणा ॥ 5-33-104 सन्निपातः समरतं (न्नगर्भः)॥ 5-33-107 त्रिस्थूणं वातपित्तश्लेष्माणः स्थूणायरू... । पञ्च साक्षिवदुदासीनाः शब्दादयो ग्राह्या यस्मिन् । क्षेत्रज्ञाधि ....... वीवाधिष्ठितम् ॥ 107 ॥ 5-33-108 मत्ते मद्यादिना । प्रमत्तो विषयान्तरासक्तयाऽनवहितः । उन्मत्ते धातुदोषात् ॥ 5-33-112 मात्रा उपराधानुसारेण दण्डप्रमाणम् । ब्राह्मणादौ अपराधस्य क्षगां च ज...ति ॥ 5-33-113 युक्तः छि...पेक्षणि हितः ॥ 113 ॥ 5-33-114 संभ्य...क्रोध न च स्त्रियोऽर्थे यतते विवादं इति कo पाठः । 5-33-116 न ........इति । खo पाठः । मात्रार्थे अल्पार्थे इति ......॥ 5-33-11. प्रातिभाव्यं प्रतिकूलो भावः चित्ताभिप्राया ......... प्रातिभाव्यं विरोधम् । अत्याह अतिकम्य ब्रवीति ॥ 5-33-122 दम्भं परवच्चनेच्छया धर्मानुष्ठानम् ॥ 5-33-127 जात्य अभिजातः उत्तमे आकरे जातः ॥ 5-33-128 आत्मना अपत्रपते परैरज्ञातेऽपि स्वव्यलीके स्वयमेव लज्जते ॥