अध्यायः 034

धृतराष्ट्रेण दुर्योधनादिश्रेयस्साधनप्रश्ने विदुरेण नीतिकथनपूर्वकं युधिष्ठिराय राज्यदानस्य तत्साधनत्वकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि ।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥
तस्माद्यथावद्विदुर प्रशाधि प्रज्ञापूर्वं सर्वमजातशत्रोः ।
यन्मन्यसे पथ्यमदीनसत्व श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ॥
पापाशङ्की पापमेवानुपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम् ।
कजे तन्मे ब्रूहि तत्पं यथाव- न्मनीषितं सर्वमजातशत्रोः ॥
विदुर उवाच ।
शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् ।
नापृष्टः कस्यचिद्ब्रूयाद्यः स नेच्छेत्पराभवम् ॥
तस्माद्वक्ष्यामि ते राजन्हितं यत्स्यान्कुरून्प्रति ।
वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥
मिथ्योपेतानि कर्माणि सिद्ध्येतादीनि भारत ।
अनुपायप्रयुक्तानि मा स्म ते....मनः कृथाः ॥
तथैव योगविहितं यत्तु कर्म न सिध्यति ।
उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।
संप्रधार्य च कुर्वीत सहसा न समाचरेत् ॥
अनुबन्धं च संप्रेक्ष्य विपाकं चैव कर्मणाम् ।
उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।
कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति ।
युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् ।
श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् ।
अन्नाभिलाषी ग्रसते नानुबन्धमवेक्षते ॥
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।
हितं च परिणामे यत्तदाद्यं भूतिमिच्छता ॥
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।
स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥
यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।
फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः ।
तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं यथाऽगताः ।
कृतः पुरुषकारोऽहि भवेद्येषु निरर्थकः ॥
` अनर्थे चैव निरतमर्थे चैव पराङ्भुखम् ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।
क्षिप्रमारभते कर्तुं न दीर्घयति तादृशान् ॥
ऋजु पश्यति यः सर्वं चक्षुषा नु पिबन्निव ।
आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥
सुपुष्पितः स्यादफलः फलितः स्याद्दुरारुहः ।
अपक्वः पक्वसङ्काशो न तु शीर्येत कर्हिचित् ॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥
यस्मात्रस्यन्ति भूतानि मृगव्याधान्मृगा इव ।
सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥
पितृपैतामहं राज्यं प्राप्यापि स्वेन कर्मणा ।
वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः ।
वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ॥
अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः । प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ।
य एव यत्नः क्रियते परराष्ट्रविमर्दने । स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ।
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् ।
धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥
अप्युन्मत्तात्प्रलपतो बालाच्च परिजल्पतः ।
सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥
सुव्याहृतानि महतां सुकृतानि ततस्ततः ।
सञ्चिन्वन्धीर आसीत शिलाहारी शिलं यथा ॥
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।
अथ या सुदुघा राजन्नैव तां वितुदन्त्यपि ॥
यदतप्तं प्रणमति न तत्सन्तापमर्हति ।
यच्च स्वयं नतं दारु न तत्संनामयेद्बुधः ॥
एतयोपमया धीरः सन्नमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥
पर्जन्यनाथाः पशवो राजानो मन्त्रिबान्धवाः ।
पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥
मानेन रक्ष्यते धान्यमश्वान्रक्षेदनुक्रमात् ।
अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः ।
अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते ॥
य ईर्षुः परवित्तेषु रूपे वीर्ये कुलान्वये ।
सुखसौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।
मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥
असन्तोऽभ्यर्थिताः सद्भिः क्वचित्कार्ये कदाचन ।
मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥
गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।
असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥
जिता सभा वस्त्रवता मिष्टाशा गोमता जिता ।
अध्वा जितो यानवता सर्वं शीलवता जितम् ॥
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।
तैलोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥
संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।
श्रुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।
जीर्यन्त्यपि हि काष्ठानि दरिद्राणां महीपते ॥
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
ऐश्वर्यमदमत्तो हि नो पतित्वाऽवबुध्यते ॥
इन्द्रियौरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥
यो जितः पञ्चवर्गेण सहजेनात्मकर्षिणा ।
आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥
अविजित्य य आत्मानममात्यान्विजिगीषते ।
अमित्रान्वा जितामात्यः सोऽवशः परिहीयते ॥
आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥
रथः शरीरं पुरुषस्य राज- न्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः ।
तैरप्रमत्तः कुशली सदश्वै- र्दान्तैः सुखं याति रथीव धीरः ॥
एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ताः सरथं सारथिं हयम् ॥
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः ।
इन्द्रियैरजितैर्बालः सुदुःखं मन्यते सुखम् ॥
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।
श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।
इन्द्रियाणामनैश्वर्यादैश्वार्याद्भूश्यते हि सः ॥
आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।
आत्मा ह्येवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥
बन्धुरात्मात्मनस्तस्य येनैवात्मात्मना जितः ।
स एव नियतो बन्धुः स एव नियतो रिपुः ॥
क्षुद्राक्षेणेव जालेन झपावपिहितावुरू ।
कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥
समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति ।
स वै संभृतसंभारः सततं सुखमेधते ॥
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मनोमयान् ।
जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥
दृश्यन्ते हि महात्मानो बध्यमानाः स्वकर्मभिः ।
इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥
असंत्यागात्पापकृतामपापां- स्तुल्यो दण्डः स्पृशते मिश्रभावात् ।
शुष्केणार्द्रं दह्यते मिश्रभावा- त्तस्मात्पापैः सह सन्धिं न कुर्यात् ॥
निजानुत्पततः शत्रून्पश्च पञ्चप्रयोजनान् ।
यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥
अनसूयार्जवं शौचं सन्तोषः प्रियवादिता ।
दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥
आत्मज्ञानमानायासस्तितिक्षा धर्मनित्यता ।
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।
वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् ।
शुश्रूपा तु वलं स्त्रीणां क्षमा गुणवतां बलम् ॥
वाक्संयमो हि नृपते सुदुष्करतमो मतः ।
अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ॥
अभ्यावहति कल्याणं विविधं वाक् सुभाषिता ।
सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥
रोहते सायकैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥
कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः ।
वाक्छशल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेभ्यः ॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते ।
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥
सेयं बुद्धिः परीता ते पुत्राणां भरतर्षभ ।
पाण्डवानां विरोधेन न चैनानवबुध्यसे ॥
राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् ।
शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥
अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः ।
तेजसा प्रज्ञया चैव युक्तो धर्मर्थतत्त्ववित् ॥
अनुक्रोशादानृशंस्याद्योऽसौ धर्मभृतां वरः ।
गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि चतुस्त्रिंशोऽध्यायः ॥

5-34-1 दह्यमानस्य चिन्ताग्निनेति ......॥ 5-34-2 अजातशत्रोः पध्ये कुरूणां च श्रेयस्करम् ॥ 5-34-3 पापाशङ्की भाविदुःखादुह्रिजन् । पापं स्वकृतं पर्वापराधं पश्यन् ॥ 5-34-6 मिथ्योपेतानि कपटद्युतादीनि । अनुपप्यैः असदपायैः प्रयुक्तानि दुःखफलानीत्यर्थः ॥ 5-34-8 अनुबन्धान् प्रयोजनानि ॥ 5-34-12 असांप्रतं अयुक्तं यथा स्यात्तथा न वर्तितव्यम् ॥ 5-34-13 मुखे मुष्टिमन्ते मृत्युदं कर्म न कर्तव्यमित्यर्थः । अनुबन्धे पश्चाद्बन्धम् ॥ 5-34-14 आद्यं भक्षणीयम् ॥ 5-34-18 अङ्गारकारको हि मूलत उत्कृत्य काष्ठं दहति । अङ्गार इङ्गालः ॥ 5-34-20 अनारभ्याः प्रबलैः सह वैरादयः । अगताः कदाचिदप्यप्राप्ताः ॥ 5-34- 23 लघुमूलान् अल्पोपायनान् ॥ 5-34- 25 सुपुष्पितः वाचा चक्षुषा चानुग्रहं दर्शयन्नपि अफलः स्यात् । भृत्ये न धनेन वर्धयेत् । सफलोपि सन् दुरारुहः भृत्यवश्यो न भवेत् । अपक्व इति । अन्तर्बलहीनोऽपि बलवत्तां बहिः प्रकाशयेदेवेत्यर्थः ॥ 5-34-26 कर्मणा दानेन । लोकं भृत्यवर्गम् ॥ 5-34-29 आदितः आदिकालात् सद्भिराचरितं धर्ममाचरत इत्यन्वयः ॥ 5-34-30 प्रतिसंवेष्टते संकुचति । बहुफलं न प्रयच्छतीत्यर्थः ॥ 5-34-32 न जहाति श्रियम् ॥ 5-34-34 सुव्याहृतानि पाण्डित्यवचनानि सुकृतानि तदुपदिष्टकर्माणि । शिलं कणिशाद्यर्जनम् ॥ 5-34-40 योगेन अभ्यासेन । मृजया उद्वर्तनेन ॥ 5-34-41 अनुक्रमः व्यायामशिक्षादिः । मानं द्रोणादि ॥ 5-34-42 प्रमाणं धर्मस्य कारणम् ॥ 5-34-44 अकाले इष्टसिद्धए प्राक् भीतः स्यात् । येन माद्येत् लोभादिना तन्न पिबेत् नाश्रयेत् ॥ 5-34-45 अभिजनः सहायः ॥ 5-34-51 संपन्नं मिष्टम् ॥ 5-34-53 शीलाभावे सत्सु अवमानो महान् क्लेश इत्याह अवृत्तीति ॥ 5-34-54 ऐश्वर्यमदः पापिष्ठो निन्दिततमो येभ्यस्ते पानमदादयो मदाः ॥ 5-34-55 इन्द्रियार्थेषु शब्दादिषु ग्रहैः सूर्यादिभिः ॥ 5-34-56 पञ्चवर्गः श्रोत्रादिगणः ॥ 5-34-58 आत्मानं मनः ॥ 5-34-61 व्यापादयितुं नाशयितुम् । अविधेयाः अवशाः ॥ 5-34-62 अर्थतोऽर्थहेतोः । अनर्थतः अन्यायतः ॥ 5-34-67 क्षुद्राक्षेण सूक्ष्मछिद्रेण प्रज्ञानं तौ नाशयतः । जालमिव महामीनावित्यर्थः ॥ 5-34-68 समवेक्ष्य अनुरुध्य । संभारान् जयसाधनानि ॥ 5-34-70 राजानो रावणादयः । राज्यविभ्रमैः ऐश्वर्यविलासैः । स्वकर्मभिः सीताहरणादिभिः ॥ 5-34-72 पञ्च इन्द्रियाणि पञ्चप्रयोजनानि शब्दश्रवणादीनि येषां तान् । उत्पततः उत्पथेन गच्छतः ॥ 5-34-73 अनायासः अचाञ्चल्यम् ॥ 5-34-74 तितिक्षा द्वन्द्वसहनशीलता । वाक्गुप्ता असंबद्धप्रलापाद्रक्षिता । अन्त्येषु नीचेषु ॥ 5-34-75 आक्रोशो रूक्षभाषणम् । परिवादो निन्दा ॥ 5-34-77 वाक्यसंयमो नियतं वचनम् । विचित्रं चमत्कारयुक्तम् ॥ 5-34-79 बीभत्सं निन्दितं यतो न संरोहति ॥ 5-34-80 कर्णी कर्णाकृतिफलको बाणः । नालीकः नलिकया प्रक्षेप्यो बाणः । निर्हरन्ति निःसारयन्ति ॥ 5-34-81 नामर्मसु किंतु मर्मस्येव ॥ 5-34-82 अवाचीनानि नीचकर्माणि ॥ 5-34-85 शिष्यस्ते त्वदाज्ञकारी । शासिता पृथिव्याः ॥ 5-34-86 भागधेये राज्यांशे पुरस्कृतः 5-34-87 अनुक्रोशात् दयालुत्वात् । आनृशंस्यात् अक्रौर्यात् ॥