अध्यायः 035

विदुरेण धृतराष्ट्रंप्रति सुधन्वविरोचनसंवादादिकथनपूर्वकं पाण्डवेषु पुत्रतौल्येन वृत्तिविधानम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।
श्रृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥
विदुर उवाच ।
सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे त्वेते समे स्यातामार्जवं वा विशिष्यते ।
आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥
यावत्कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते ।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥
स्वयंवरे स्थिता कन्या केशिनी नाम नामतः ।
रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया ॥
विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह ।
प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी ॥
केशिन्युवाच ।
किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥
विरोचन उवाच ।
प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः । अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः
केशिन्युवाच ।
इहैवावां प्रतीक्षाव उपस्थाने विरोचन ।
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥
विरोचन उवाच ।
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥
विदुर उवाच ।
अतीतायां च शर्वर्यामुदिते सूर्यमण्डले । अथाजगाम तं देशं सुधन्वा राजसत्तम ।
विरोचनो यत्र विभो केशिन्या सहितः स्थितः ॥
सुधन्वा च समागच्छत्प्राह्लादिं केशिनीं तथा । समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ ।
प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः ॥ 5-35-14a` इति होवाच वचनं विरोचनमनुत्तमम् । आस्स्व तल्पे हि सौवर्णे प्राह्लादे ब्राह्मणस्त्वहम् ॥'
अन्वालभे हिरण्मयं प्राह्लादे ते वरासनम् ।
एकत्वमुपसंपन्नो नत्वासोऽहं त्वया सह ॥
विरोचन उवाच ।
तवार्हते तु फलकं कूर्चं वाप्यथवा बृसी ।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥
सुधन्वोवाच ।
पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि ।
वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम् ॥
पिता हि ते समासीनमुपासीतैव मामधः ।
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥
विरोचन उवाच ।
हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये वुदुः ॥
सुधन्वोवाच ।
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥
विरोचन उवाच ।
आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।
न तु देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥
सुधन्वोवाच ।
पितरं ते गमिष्यावः प्राणयोर्विपणे कृपे ।
पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत् ॥
विदुर उवाच ।
एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा ।
विरोचनसुधन्वानौ प्रह्लादौ यत्र तिष्ठति ॥
प्रह्लाद उवाच ।
इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह ।
आशीविषाविव क्रुद्धावेकमार्गाविहागतौ ॥
किं वै सहैवं चरथो न पुरा चरथः सह ।
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥
विरोचन उवाच ।
न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।
प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः ॥
प्रह्लाद उवाच ।
उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने ।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥
सुधन्वोवाच ।
उदकं मधुपर्कं च प्रश्नवाचार्पितं मम । प्रह्लद त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः ।
किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद्विरोचनः
प्रह्लाद उवाच ।
` न कल्माषो न कपिलो न कृष्णो न च लोहितः ।
अणीयान्क्षुरधारायाः को धर्मं वक्तुमर्हिति ॥
अभिवाद्यो भवान्ब्रह्मन्साक्ष्ये चैव नियोजितः ।' पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥
सुधन्वोवाच ।
` यदेतत्त्वं न वक्ष्यसि यदि वापि विवक्ष्यसि ।
प्रह्लाद प्रश्नमतुलं मूर्धा ते विफलिष्यति ॥
विदुर उवाच ।
आदित्येन सहायान्तं प्रह्लादो हंसमब्रवीत् ।
धृतराष्ट्र महाप्राज्ञ सर्वज्ञं सर्वदर्शिनम् ॥
प्रह्लाद उवाच ।
पुत्रो वाऽन्यो भवेद्ब्रह्मन्साक्ष्ये चापि भवेत्स्थितः ।
तयोर्विवदतोर्हंस कथं धर्मः प्रवर्तते ॥
हंस उवाच ।'
गां प्रदद्यादौरसाय यद्वान्यत्स्यात्प्रियं धनम् ।
द्वयोर्विवदतो राजन्प्रश्नं सत्यं यथा वदेत् ॥
प्रह्लाद उवाच ।
अथ यो नैव प्रब्रूयात्सत्यं वा यदि वाऽनृतम् ।
हंस तत्वं च पृच्छामि कियदेनः करोति सः ॥
`हंस उवाच
पृष्टो धर्मं न विब्रूयाद्गोकर्णशिथिलं चरन् । धर्माद्भ्रश्यति राजंस्तु नास्य लोकोऽस्ति न प्रजाः ।
धर्म एतान्संरुजति यथा नद्यस्तु कूलजान् ।
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ॥
श्रेष्ठोऽर्धं तु हरेत्तत्र भवेत्पादश्च कर्तरि ।
पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते ॥
अनेना भवति श्रेष्ठो मुच्यन्तेऽपि सभासदः ।
कर्तारमेनो गच्छेद्वा निन्द्यो यत्र हि निन्द्यते ॥
प्रह्लाद उवाच ।
मोहाद्वा चैव कामाद्वा मिथ्यावादं यदि ब्रुवन् ।
धृतराष्ट्र तत्वं पृच्छामि दुर्विवक्ता तु किं वसेत् ॥
हंस उवाच ।'
यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता तु तां वसेत् ॥
नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।
अमित्रान्भूयसः पश्यन्दुर्विवक्ता तु तां वसेत् ॥
यां च रात्रिमभिद्रुग्धो यां च मित्रे प्रियेऽनृते ।
सर्वस्वेन च हीनो यो दुर्विवक्ता तु तां वसेत् ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥
प्रह्लाद उवाच ।
मत्तः श्रेयानङ्गिरा वै सुधन्वा त्विद्वरोचन ।
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव ।
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥
सुधन्वोवाच ।
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।
पुनर्ददामि ते पुत्रं तस्मात्प्रह्लाद दुर्लभम् ॥
एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः ।
पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥
विदुर उवाच ।
तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।
मा गमः ससुतामात्यो नाशं पुत्रार्थमब्रुवन् ॥
न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥
यथायथा हि पुरुषः कल्याणे कुरुते मनः ।
तथातथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥
नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् ।
नीडं शकुन्ता इव जातपक्षा- श्छन्दांस्येनं प्रजहत्यन्तकाले ॥
मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् ।
राजद्विष्टं स्त्रीपुंसयोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥
सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकृर्वीत सप्त ॥
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ।
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥
भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः ।
अतितीक्ष्णश्च कारुश्च नास्तिको वेदनिन्दकः ॥
स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः ॥
तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः ।
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च ॥
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया ।
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः ।
न क्रोधिनोऽर्थो न नृशंमस्य मित्रं क्रृगस्य न स्त्री सुखिनो न विद्या ।
न कामिनो ह्रीरलसस्य न श्रीः सर्वं तु न स्यादनवस्थितस्य ॥
श्रीर्मङ्गलान्प्रभवति प्रागल्भ्यात्संप्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमान्प्रतितिष्ठति ॥
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
एतान्गुणांस्तत महानुभावा- नेको गुणः संश्रयते प्रसह्य
राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेप गुणोतिभाति ॥
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येपामन्ववेतानि सद्भि- श्चत्वारि चैपामनुयान्ति सन्तः ॥
यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥
तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति ॥
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥
सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः ॥
पापं कुर्वन्पापकीर्तिः पापमेवाश्रुते फलम् ।
पुण्यं कुर्वन्पापकीर्तिः पुण्यमत्यन्तमश्रुते ॥
तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः ।
पापं प्रज्ञां नाशयति क्रियमाणं पुःन पुःनः ॥
वृद्धप्रज्ञः पापमेव नित्यमारभते नरः ।
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ॥
वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः । पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति ।
तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः ॥
असूयको दन्दशूको निष्ठुरो वैरकृच्छठः ।
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥
अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा ।
नकृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥
प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः ।
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥
दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् ।
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।
यावज्जीवं तु तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥
जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् ।
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥
धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अन्तः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥
ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥
दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा ।
कर्मे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥
सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ ।
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि पञ्चत्रिंशोऽध्यायः ॥

5-35-2 आर्जवं अवैषम्यम् ॥ 5-35-10 इहस्थाने उपस्थाने मामुपस्थातुम् । वां दैत्यब्राह्मणौ अहं पश्येयम् ॥ 5-35-13 समागच्छत् उभयोः संमुखं अगच्छत् ॥ 5-35-14 विरोचनेन सौवर्णे पीठे मया सह उपवेश्यतामिति प्रार्थितः सुधन्वा उवाच ॥ 5-35-15 अन्वालभे स्पृशाम्येव ॥ 5-35-16 फलकं काष्ठपीठं । कूर्चं । बृसी वर्तितदर्भमयं पीठं वा । तव अर्हते योग्यं भवति ॥ 5-35-18 उपासीत सेवते । अधः स्थित्वेति शेषः ॥ 5-35-19 प्रश्नं आवयोः कः श्रेष्ठ इति प्रश्नम् । ये विदुस्तान् पृच्छाव ॥ 5-35-24 सह न चरितं वैरात् ॥ 5-35-27 पीवरी पुष्टा । कुता मधुपर्कार्थं उपकल्पिता ॥ 5-35-30 नियोजितः अहमिति शेषः ॥ 5-35-39 पगच्छेदिति ङo पाठः ॥ 5-35-40 किं वसेत् कथं वसेत् ॥ 5-35-41 अधिविन्ना कृतसपत्नीका स्त्री तां रात्रिं वसेत्तद्वद्दुःखं प्राप्नुयात् 5-35-44 पञ्च पूर्वजान् पश्वनृते अजादिपशुहिंसार्थमनृते उक्ते सति हन्ति नाशयति परलोकात् च्यावयति । एवमुत्तरत्र ॥ 5-35-46 अङ्गिराः सुधन्वनः पिता । त्वत् त्वत्तः ॥ 5-35-49 पादप्रक्षालनं हरिद्रया पादधावनम् । कुमार्याः केशिन्याः । विवाहे दंपत्योः परस्परं हरिद्रया पादधावनं कुर्वन्तीति प्रसिद्धम् । अस्यैव भार्या केशिनी भवत्वित्यर्थः ॥ 5-35-50 अब्रुवन्सत्यमिति शेषः ॥ 5-35-53 छन्दांसि वेदाः 5-35-54 अन्तरं वियोगम् । विवादं वैरप्रवर्तनम् ॥ 5-35- 55 सामुद्रिकं हस्तरेखादिपरीक्षकम् । वणिजं चोरपूर्वं पूर्वं चोरः पश्चाद्विणिक्रभूतः तं कूटतुलावन्तं वा । शलाकधूर्तं शलाकया पाशादिना वा शकुनादिकमुक्त्वा योऽन्यान् वञ्चयति तम् । अरिं विपरीतसाक्ष्यभयात् । मित्रं परीक्षकाणमविश्वासात् । कुशीवलं कुत्सितं शीलं वाति अनुसरतीति तम् । नर्तकीदासं विटोन्मत्तादिकं वा । 5-35-53 सत्कर्मद्वारापि तस्य साधुत्वं न मन्तव्यमित्याह मानेति । मानः लोकेषु उत्कर्षः तदर्थान्यग्निहोत्रादीनि भयदानीत्यर्थः । मौनं ध्यानम् ॥ 5-35-57 कुण्डाशी भगभक्षः । जीवति भर्तरि जाराज्जातः कुण्डस्तदन्नाशी । सोमविक्रयी प्रसिद्धः । पर्वकारः शरकृत् आयुधमात्रकर्तेत्यर्थः । सूची सूचको नक्षत्रादीनां परदोषाणां च । ज्यौतिषिकः पिशुनो वा । 5-35-58 कारुः अशुचिः । नास्तिकः परलोकादिद्वेषी ॥ 5-35-59 स्रुवप्रग्रहणो ग्रामपुरोहितः । व्रात्यः अतीतोपनयनकालः पतितसावित्रीको वा । कीनाशः कर्षकः । आत्मवान्समर्थोपि यो रक्षेत्युक्तो हिंस्यात् ॥ 5-35-60 तृणोल्कया तृणज्वालया जातरूपं रूपवद्वस्त ज्ञायतेऽन्धकारे सति । भद्रे वृषः धर्म इतियावत् । वृत्तेन शीलेन सोस्ति नास्तीति ज्ञायते । व्यवहारेण अहिंसादिप्रधानेन । कृच्छ्रेषु दुर्भिक्षादिसंकटेषु ॥ 5-35-63 श्रीरिति । दाक्ष्यं शीघ्रकारित्वम् ॥ 5-35-65 एष गुणो राजसत्कारः ॥ 5-35-66 इमानि वक्ष्यमाणानि । अन्ववेतानि नित्यसंवद्धानि । अनुयान्ति यत्रेन भजन्ति ॥ 5-35-71 रूपं विनयमुद्रा । ध्रुतं अध्ययनम् । विद्या देवताद्युपासनम् । चित्रभाष्यं युक्तियुक्तं वचनम् ॥ 5-35-76 दन्दशूको मर्मच्छेत्ता । निष्ठुरः अप्रियवाक् । नचिरात् शीघ्रम् ॥ 5-35-77 नकृच्छ्रं सुखम् ॥ 5-35-78 आगमयति आनयति ॥ 5-35-79 वर्षा इत्यत्यन्तसंयोगे द्वितीया ॥ 5-35-81 गतपारं प्राप्ततत्त्वम् ॥ 5-35-82 परिपाकसुखं कर्म त्वत्पुत्रा न कुर्वन्ति अन्यायेन च सुखं लिप्सन्ति तत्तु विपरीतमेवेत्याह धनेनेति ॥ 5-35-83 आत्मवतां जितचित्तानाम् । प्रच्छन्नपापो दुर्योधनः ।