अध्यायः 042
सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥
वैशंपायन उवाच ।
ततो राजा धृतराष्ट्रो मनीषी
संपूज्य वाक्यं विदुरेरितं तत् ।
सनत्सुजातं रहिते महात्मा
पप्रच्छ बुद्धिं परमां बुभूषन् ॥
धृतराष्ट्र उवाच ।
सनत्सुजात यदिमं शृणोमि
न मृत्युरस्तीति तवोपदेशम् ।
देवासुरा ह्याचरन्ब्रह्मचर्य-
ममृत्यवे तत्कतरन्नु सत्यम् ॥
सनत्सुजात उवाच ।
अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे ।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥
उभे सत्ये क्षत्रियाद्य प्रवृत्ते
मोहो मृत्युः संमतोऽयं कवीनाम् ।
प्रमादं वै मृत्युमहं ब्रवीमि
तथाऽप्रमादममृतत्वं ब्रवीमि ॥
प्रमादाद्वै असुराः पराभव-
न्नप्रमादाद्ब्रह्मभूताः सुराश्च ।
नैव मृत्युर्व्याघ्र इवात्ति जन्तू-
न्न ह्यस्य रूपमुपलभ्यते हि ॥
यमं त्वेके मृत्युमतोऽन्यमाहु-
रात्मावासममृतं ब्रह्मचर्यम् ।
पितृलोके राज्यमनुशास्ति देवः
शिवः शिवानामशिवोऽशिवानाम् ॥
अस्यादेशान्निःसरते नराणां
क्रोधः प्रमादो लोभरूपश्च मृत्युः ।
अहं गतेनैव चरन्विमार्गा-
न्न चात्मनो योगमुपैति कश्चित् ॥
ते मोहितास्तद्वशे वर्तमाना
इतः प्रेतास्तत्र पुनः पतन्ति ।
ततस्तान्देवा अनुविप्लवन्ते
अतो मृत्युर्मरणादभ्युपैति ॥
कर्मोदये कर्मफलानुरागा-
स्तत्रानु ते यान्ति न तरन्ति मृत्युम् ।
सदर्थयोगानवगमात्समन्ता-
त्प्रवर्तते भोगभोगेन देही ॥
तद्वै महामोहनमिन्द्रियाणां
मिथ्यार्थयोगस्य गतिर्हि नित्या ।
मिथ्यार्थयोगाभिहतान्तरात्मा
स्मरन्नुपास्ते विषयान्समन्तात् ॥
अभिध्या वै प्रथमं हन्ति लोकान्
कामक्रोधावनुगृह्याशु पश्चात् ।
एते बालान्मृत्यवे प्रापयन्ति
धीरास्तु धैर्येण तरन्ति मृत्युम् ॥
सोऽभिध्यायन्नुत्पतिष्णन्निहन्या-
दनादरेणाप्रतिबुध्यमानः ।
नैनं मृत्युर्मृत्युरिवात्ति भूत्वा
एवं विद्वान्यो विनिहन्ति कामान् ॥
कामानुसारी पुरुषः कामाननु विनश्यति ।
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥
तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते ।
मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥
अमूढवृत्तेः पुरुषस्येह कुर्या-
त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः ।
अमन्यमानः क्षत्रिय किञ्चिदन्य-
न्नाधीयते तार्ण इवास्य सर्पः ॥
क्रोधाल्लोभान्मोहभयान्तरात्मा
स वै मृत्युस्त्वच्छरिरे य एषः ।
एवं मृत्युं जायमानं विदित्वा
ज्ञाने तिष्ठन्न बिभेतीह मृत्योः ।
विनश्यते विषये तस्य मृत्यु-
र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥
धृतराष्ट्र उवाच ।
यानेवाहुरिज्यया साधुलोकान्
द्विजातीनां पुण्यतमान्सनातनात् ।
तेषां परार्थं कथयन्तीह वेदा
एतद्विद्वान्नैति कथं नु कर्म ॥
सनत्सुजात उवाच ।
एवं ह्यविद्वानुपयाति तत्र
तत्रार्थजातं च वदन्ति वेदाः ।
सवेह आयाति परं परात्मा
प्रयाति मार्गेण निहत्य मार्गान् ॥
धृतराष्ट्र उवाच ।
कोऽसौ नियुङ्क्ते तमजं पुराणं
स चेदिदं सर्वमनुक्रमेण ।
किं वास्य कार्यमथवा सुखं च
तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥
सनत्सुजात उवाच ।
दोषो महानत्र विभेदयोगे
ह्यनादियोगेन भवन्ति नित्याः ।
तथास्य नाधिक्यमपैति किञ्चि-
दनादियोगेन भवन्ति पुंसः ॥
य एतद्वा भगवान्स नित्यो
विकारयोगेन करोति विश्वम् ।
तथाच तच्छक्तिरिति स्म मन्यते ।
तथार्थयोगेन भवन्ति वेदाः ॥
धृतराष्ट्र उवाच ।
यस्माद्धर्मान्नाचरन्तीह केचि-
त्तथा धर्मान्केचिदिहाचरन्ति ।
धर्मः पापेन प्रतिहन्यते स्वि-
दुताहो धर्मः प्रतिहन्ति पापम् ॥
सनत्सुजात उवाच ।
तस्मिन्स्थितौ वाप्युभयं हि नित्यं
ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम् ।
तथान्यथा पुण्यमुपैति देही
तथागतं पापमुपैति सिद्धम् ॥
गत्वोभयं कर्मणा युज्यते स्थिरं
शुभस्य पापस्य स चापि कर्मणा ।
धर्मेण पापं प्रणुदतीह विद्वान्
धर्मो बलीयानिति तत्र विद्धिः ॥
धृतराष्ट्र उवाच ।
यानिहाहुः स्वस्य धर्मस्य लोका-
न्द्विजातीनां पुण्यकृतां सनातनान् ।
तेषां क्रमान्कथय ततोऽपि चान्या-
न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥
सनत्सुजात उवाच ।
येषां व्रतेऽथ विस्पर्धा बले बलवतामिव ।
ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥
येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम् ।
ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥
तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः ।
नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम् ।
अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत् ॥
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् ।
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥
यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत् ।
ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम् ।
कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥
यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये ।
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः ।
ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥
कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति ।
निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥
अश्रान्तः स्यादनादाता संमतो निरुपद्रवः ।
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥
अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ ।
ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥
सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन ।
न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥
यमप्रयतमानं तु मानयन्ति समाहिताः ।
न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत् ॥
लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा ।
विद्वांसो मानयन्तीह इति मन्येत मानितः ॥
अधर्मनिपुणा मुढा लोके मायाविशारदाः ।
न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥
न वै मानं च मौनं च सहितौ वसतः सदा ।
अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥
श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी ।
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥
द्वाराणि तस्येह वदन्ति सन्तो
बहुप्रकाराणि दुराधराणि ।
सत्यार्जवे ह्रीर्दमशौचविद्या
षण्मानमोहप्रतिबन्धनानि ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि द्विचत्वारिंशोऽध्यायः ॥