अध्यायः 044

सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ 1 ॥

धृतराष्ट्र उवाच ।
सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम् ।
परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार ।
सनत्सुजात उवाच ।
नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव ।
बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या ॥
धृतराष्ट्र उवाच ।
अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् ।
अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत ॥
सनत्सुजात उवाच ।
अव्यक्तविद्यामभिधास्ये पराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् ।
यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या ॥
धृतराष्ट्र उवाच ।
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा ।
तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥
सनत्सुजात उवाच ।
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति ।
इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥
अस्मिँल्लोके वै जयन्तीह कामा- न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः ।
त आत्मानं निर्हरन्तीह देहा- न्मुञ्जादिषीकामिव सत्वसंस्थाः ॥
शरीरमेतौ कुरुतः पिता माता च भारत । आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम
यः प्रावृणोत्यवितथेन वर्णा- नृतं कुर्वन्नमृतं संप्रयच्छम् ।
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमस्य जानन् ॥
गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः ।
मानं न कुर्यान्नादधीत रोप- मेप प्रथमो ब्रह्मचर्यस्य पादः ॥
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः ।
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि ।
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥
समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत् ।
तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥
आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन ।
यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः ॥
नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि ।
इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥
कालेन पादं लभते तथार्थं ततश्च पादं गुरुयोगतश्च ।
उत्साहयोगेन च पादमृच्छे- च्छास्त्रेण पादं च ततोऽभियाति ॥
धर्मादयो द्वादश यस्य रूप- मन्यानि चाङ्गानि तथा बलं च ।
आचार्ययोगे फलतीति चाहु- र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥
एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनुप्रयच्छेत् ।
स तां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥
एवं वसन्सर्वतो वर्धतीह बहून्पुत्रांल्लभते च प्रतिष्ठाम् ।
वर्षन्ति चास्मै प्रदिशो दिशश्च वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥
एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥
गन्धर्वाणामनेनैव रूपमप्सरसमभूत् ।
एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥
आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव ।
एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥
य आश्रयेत्पावयेच्चापि राज- न्सर्वं शरीरं तपसा तप्यमानः ।
एतेन वै बाल्यमभ्येति विद्वान् मृत्युं तथा स जयत्यन्तकाले ॥
अन्तवतः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मलेन ।
ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं नान्यः पन्था अयनाथ विद्यते ॥
धृतराष्ट्र उवाच ।
आभाति शुक्लमिव लोहितमि- वाथो कृष्णमथाञ्जनं काद्रवं वा ।
सद्ब्रह्मणः पश्यति योऽत्र विद्वा- न्कथं रूपं तदमृतमक्षरं पदम् ॥
सनत्सुजात उवाच ।
आभाति शुक्लमिव लोहितमि- वाथो कृष्णमायसमर्कवर्णम् ।
न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥
न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य ।
न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥
नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु ।
रथन्तरे बार्हद्रथे वापि राज- न्महाव्रते नैव दृश्येद्भ्रुवं तत् ॥
अपारणीयं तमसः परस्ता- त्तदन्तकोऽप्येति विनाशकाले ।
अणीयो रूपं क्षुरधारया समं महच्च रूपं तद्वै पर्वतेभ्यः ॥
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः ।
भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥
अनामयं तन्महदुद्यतं यशो वाचो विकारं कवयो वदन्ति ।
यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥
` तदेतदह्ना संस्थितं भाति सर्वं तदात्मवित्पश्यति ज्ञानयोगात् ।
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥' ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सनुत्सुजातपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥