अध्यायः 050

धृष्टद्युम्नेन क्रौञ्चव्यूहनिर्माणम् ॥ 1 ॥

सञ्जय उवाच ।
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ ।
भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा ॥
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् ।
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥
शुचा परमया युक्तश्चिन्तयानः पराजयम् ।
वार्ष्णेयमब्रवीद्रजान्दृष्ट्वा भीष्मस्य विक्रमम् ॥
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् ।
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् ।
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महाबलम् ।
दृष्ट्वा विप्रद्रुर्त सैन्यं समरे मार्गणाहतम् ॥
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे ।
वरुणः पाशभृद्वापि कुबेरो वा गदाधरः ॥
न तु भीष्मो महाजेताः शक्यो जेतुं महाबलः ।
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लुवे ॥
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव ।
वनं यात्सामि वार्ष्णेय श्रेयो मे तत्र जीवितुम् ॥
न त्वेतान्पृथिवीपालान्दातुं भीष्माय मृत्यवे ।
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥
यथाऽनलं प्रज्वलितं पतङ्गाः समभिद्रुताः ।
विनाशायोपगच्छन्ति तथा मे सनिको जनः ॥
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातश्चैव मे वीराः कर्शिताः शरपीडिताः ॥
मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात् ।
जीवितं बहुमन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥
जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम् ।
न घातयिष्यामि रणे मित्राणीमानि केशव ॥
रथान्मे बहुसाहस्रान्दिव्यैरस्त्रैर्महाबलः ।
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥
किं नु कृत्वा हितं मे स्याद्ब्रूहि माधव माचिरम् ।
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥
एको भीमः परं शक्त्या युध्यत्येव महाभुजः ।
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥
गदया वीरघातिन्या यथोत्साहं महामनाः ।
करोत्यसुकरं कर्म रथाश्वनरपङ्क्तिषु ॥
नालमेष क्षयं कर्तुं परसैन्यस्य मारिष ।
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥
एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते ।
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ॥
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः ।
धक्ष्यन्ति क्षत्रियान्सर्वान्प्रयुक्तानि पुनः पुनः ॥
कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवैः ।
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥
स त्वं पश्य महाभाग योगेश्वर महारथम् ।
भीष्मं यः शमयेत्संख्ये दावाग्निं जलदो यथा ॥
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः ।
स्वराज्यमनुसंप्राप्ता मोदिष्यन्ते सबान्धवाः ॥
एवमुक्त्वा ततः पार्थो ध्यान्नास्ते महामनाः ।
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ॥
शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम् । अब्रवीत्तत्र गोविन्दो हर्षयन्सर्वपाण्डवान् ॥ 6-50-27aमाशुचो भरतश्रेष्ट न त्वं शोचितुमर्हसि । यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनःक ॥
अहं च प्रियकृद्राजन्सात्यकिश्च महायशाः ।
विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः ॥
तथैव सबलाश्चेमे राजानो राजसत्तम ।
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशांपते ॥
एष ते पार्षतो नित्यं हितकामः प्रिये रतः ।
सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ॥
शिखण्डी च महाबाहो भीष्मस्य निधनं किल । एतच्छ्रुत्वा ततो धर्मो धृष्टद्युम्नं महारथम् ।
अब्रवीत्समितौ तस्यां वासुदेवस्य श्रृण्वतः ॥
धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि मारिष ।
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ॥
भवान्सेनापतिर्मह्यं वासुदेवेन संमितः ।
कार्तिकेयो यथा नित्यं देवानामभवत्पुरा ॥
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ।
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ॥
अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष ।
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ॥
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ।
तत उद्धर्षयन्सर्वान्धृष्टद्युम्नोऽभ्यभाषत ॥
अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा ।
रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम् ॥
सर्वानद्य रणे दृप्तान्प्रतियोत्स्यामि पार्थिव ।
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ॥
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ।
तमब्रवीत्ततः पार्थः पार्षतं पृतनापतिम् ॥
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ।
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ॥
तं यथावत्प्रतिव्यूहं परानीकविनाशनम् ।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥
यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा ।
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ॥
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः ।
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ॥
इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः । 6-50-44bआकाशग इवाकाशे गन्धर्वनगरोपमः ॥
नृत्यमान इवाभाति रथचर्यासु मारिष ।
तेन रत्नवता पार्थः स च गाण्डीवधन्वना ॥
बभूव परमोपेतः सुमेरुरिव भानुना ।
शिरोभूद्द्रुपदो राजा महत्या सेनया वृतः ॥
कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ ।
दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह ॥
अनूपकाः किराताश्च ग्रीवायां भरतर्षभ ।
पटच्चरैश्च पौण्ड्रैश्च राजन्पौरवकैस्तथा ॥
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ।
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥
द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ।
पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह ॥
मारुता धेनुकाश्चैव तंगमाः परतंगणाः ।
बाह्लिकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ॥
एते जनपदा राजन्दक्षिणं पक्षमाश्रिताः ।
अग्निवेशास्तुद्दुण्डाश्च मालवा दानभारयः ॥
शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः ।
नकुलः सहदेवश्च वामं पक्षं समाश्रिताः ॥
रथानामयुतं पक्षौ शिरस्तु नियुतं तथा ।
पृष्ठमर्बुदमेवासीत्सहस्रामि च विंशतिः ॥
ग्रीवायां नियुतं चापि सहस्रामि च सप्ततिः ।
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ॥
जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ।
जघनं पालयामास विराटः सह केकयैः ॥
काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ।
एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः ॥
सूर्योधयं त इच्छतः स्थिता युद्धाय दंशिताः । तेषामादित्यवर्मानि विमलानि महान्ति च ।
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे पञ्चाशोऽद्यायः ॥

6-50-19 आर्जवेन अकुटिलेन दिव्यास्त्रमायाहीनेन ॥ 6-50-25 अन्तर्मनाः विमनाः ॥ 6-50-31 निधनं निधनहेतुः ॥ 6-50-32 भाषितमुक्तम् ॥ 6-50-33 मह्यं मम ॥ 6-50-44 आकाशग इव पक्षीव ॥ 6-50-45 रथचर्यासु रथवर्त्मसु ॥ 6-50-46 परमोपेतः परा उत्कृष्टा चासौ मा लक्ष्मीश्चेति परमा तया उपेतः ॥