अध्यायः 052

भीष्मार्जुनयोर्युद्धम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे ॥
सञ्जय उवाच ।
तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः । `तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु ।'
अपारमिव संदृश्य सागरप्रतिमं बलम् ॥
तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव ।
अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः ॥
ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥
ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ।
तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताःक ।
सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः ।
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥
सौभद्रे भीमसेने च सात्यकौ च महारथे ।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ॥
एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः ।
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥
अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे ।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥
सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः ।
विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः ॥
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् ।
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् ।
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन ।
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना ।
सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन ॥
तमब्रवीद्वासुदेवो यत्तो भव धनंजय ।
एष त्वां प्रापयिष्यामि पितामहरथं प्रति ॥
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् ।
प्रापयामास भीष्मस्य रथं प्रति जनेश्वर ॥
चलद्बहुपातकेन बलाकावर्णवाजिना ।
समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥
महता मेघनादेन रथेनामिततेजसा ।
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ॥
प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः ।
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ॥
त्रसयनतं रणे शूरान्मर्दयन्तं च सायकैः । सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः ।
सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ॥
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् ।
द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति ॥
ततो भीष्मो महाराज सर्वलोकमहारथः ।
अर्जुनं सप्ततसप्तत्या नाराचानां समाचिनोत् ॥
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः ।
दुर्योधनश्रतुःषष्ट्या शल्यश्च नवभिः शरैः ॥
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः ।
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः ।
न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः ।
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥
शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः ।
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः ।
सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनंजयम् ॥
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् ।
अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥
भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम् ।
अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त पाण्डवाः ॥
तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत् ।
प्रविवेश ततो मध्यं नरसिंहः प्रतापवान् ॥
तेषां महारथानां स मध्यं प्राप्य धनंजयः ।
चिक्रीड धनुषा राजँल्लक्षं कृत्वा महारथान् ॥
`क्षत्रियाणां शिरांस्युग्रैः कृन्तञ्शस्त्रैर्महारथः । शून्यान्कृत्वा रथोपस्थान्व्यचरत्फल्गुनस्तदा ।'
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः ।
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥
एष पाण्डुसुतस्तात कृष्णेन सहितो बली । यततां सर्वसैन्यानां मूलं नः परिकृन्तति ।
त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे ॥
त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते । न युध्यति रणे पार्थान्हितकामः सदा मम ।
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ॥
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ।
धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति ॥
उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः ।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिषत ॥
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः ।
परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् ।
स्थिता युद्धाय महते ततो युद्धमवर्तत ॥
गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः ।
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः ॥
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।
अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥
शरजालं ततस्तत्तु शरजालेन मारिष ।
वारयामास पार्थस्य भीष्मः शान्तनवस्तदा ॥
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ ।
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥
भीष्मचापविमुक्तानि शरजालानि शङ्घशः ।
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैःक ॥
तथैवार्जुनमुक्तानि शरजालानि सर्वशः ।
गाङ्गेयशरनुन्नानि प्रापतन्त महीतले ॥
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः । भीष्मोपि समरे पार्थं विव्याध निशितैः शरैः ।
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ ।
रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ॥
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः ।
वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥
भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः ।
विरराज रणे राजन्सपुष्प इव किंशुकः ॥
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् ।
सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः ॥
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति ।
न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे ॥
तौ मण्डलानि चित्राणि गतत्प्रत्यागतानि च ।
अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥
अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् ।
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः ।
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥
तयोः शङ्खनिनादेन रथनेमिस्वनेन च ।
दारिता सहसा भूमिश्चकम्पे च ननाद च ॥
नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ ।
बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ ॥
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः ।
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरेक ॥
तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम् ।
विस्कमयं सर्वभूतानि जग्मुर्भारतसंयुगे ॥
न तयोर्विवरं कश्चिद्रणे पश्यति भारत ।
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥
उभौ च शरजालेन तावदृश्यो बभूवतुः ।
प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥
तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह ।
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥
न शक्यौ युधि संरब्धौ जेतुमेतौ कथंचन ।
सदेवासुरगन्धर्वैर्लोकैरपि महारथौ ॥
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् ।
नैतादृशानि युद्धानि भविष्यन्ति कथंचन ॥
न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता ।
सधनुः सरथः साश्वः प्रवपन्सायकान्रणे ॥
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् ।
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥
आलोकादपि युद्धं हि सममेतद्भविष्यति । इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यकस्ततस्ततः ।
गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशांपते ॥
त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत ।
अन्योन्यं समरे जघ्नुस्तयोस्तत्र समागमे ॥
शितधारैस्तथा स्वङ्गैर्विमलैश्च परश्वधैः ।
शरैरन्यैश्च बहुभिः सस्त्रैर्नानाविधैरपि ॥
उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् । वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे ।
द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे द्विपञ्चशोऽध्यायः ॥

6-52-10 व्यतिकरो मेलकः । समागम इत्यर्थः ॥ 6-52-15 दृढधन्वना भीष्मेण ॥ 6-52-55 अन्तरं छिद्रम् । तर्कयन्तौ चिन्तयन्तौ । अन्तरमार्गस्थौ छिद्रान्वेषणपरौ ॥ 6-52-59 चिह्नं ध्वजः ॥ 6-52-68 आलोकात् आसंसारस्थितेः ॥