अध्यायः 059

स्वप्रतिज्ञां विहाय गृहीतचक्रेम कृष्णेन पादचारेम भीष्मं हन्तुमभियानम् ॥ 1 ॥ अर्जुनेन कृष्णस्य प्रतिनिवर्तनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे ।
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥
भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत ।
पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ॥
स़ञ्जय उवाच ।
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत ।
पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ॥
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्ससु ।
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ॥
अभ्ययाञ्जवनैरश्वैः पाण्डवानामनीकिनीम् ।
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥
प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् ।
अस्माकं पाण्डवैः सार्धमनायात्तव भारत ॥
घनुषां कूजतां तत्र तलानां चाभिहन्यताम् ।
महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥
तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव ।
स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ॥
काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च ।
शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ॥
पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः ।
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥
हृतोत्तमाह्गाः केचित्तु तथैवोद्यतकार्मुकाः ।
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाःक ॥
प्रावर्तत महावेगा नदी रुधिरवाहिनी ।
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ॥
वरश्वनरनागानां शरीरप्रभवा तदा ।
परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥
न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप ।
यथा तव सुतानां च पाण्डवानां च भारत ॥
नासीद्रथपथस्तत्र यौधैर्युधि निपातितैः ।
गजैश्च पतितैर्नीलैर्गिरिश्रृङ्गैनिरवावृतः ॥
विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष ।
शुशुभे तद्राणस्थानं शरदीव नभस्तलम् ॥
विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः ।
अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ॥
तात भ्रातः सखे बन्धो वयस्य मम मातुल ।
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥
अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि ।
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥
तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।
जघान पाण्डवरथानादिश्य भारतर्षभ ॥
स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् ।
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥
तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह ।
अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥
मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे ।
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥
उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो ।
एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ॥
न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् ।
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥
कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् ।
व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ॥
अमानुषेण रूपेण चरन्तं पितरं तव ।
शलभा इव राजानः पतन्ति विधिचोदिताः ॥
भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः ।
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ॥
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः ।
भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा ॥
गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम् ।
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ॥
नाराचेन सुमुक्तेन निजघान पिता तव ।
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ॥
मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते ।
एवं सा धर्मराजस्य वध्यमाना महाचमूः ॥
भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा ।
प्राकम्पत महासेना शरवर्षेण तापिता ॥
पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः ।
यतमानाऽपि ते वीरा द्रवमाणान्महारथान् ॥
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ।
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ॥
अभज्यत महाराज न च द्वौ सह धावतः ।
आविद्धरनागाश्वं पतितध्वजकूबरम् ॥
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ।
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ॥
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः । 6-59-39bविमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ॥
विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत ।
तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम् ॥
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ।
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ॥
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ।
असं स कालः संप्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः ॥
प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे । यत्त्वया कथितं वीर पुरा राज्ञां समागमे ।
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम ।
बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ॥
द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले ।
दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ॥
भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव ।
एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः ॥
नोदयाश्वान्यतो भीष्मो विगाहे तद्वलार्णवम् ।
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥
सञ्जय उवाच ।
ततोऽश्वान्रजतप्रकख्यान्नोदयामास माधवः ।
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ॥
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥
ततो भीष्मःक कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः ।
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥
क्षणेन स रथस्तस्य सहयः कसहसारथिः ।
शरवर्षेण महता संछन्नो न प्रकाशते ॥
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् ।
चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः ॥
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ॥
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ॥
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ।
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥
त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय ।
प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ॥
इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः ।
मुमोच समरे वीरः शरान्पार्थरथं प्रति ॥
अदर्शयद्वासुदेवो हययाने परं बलम् ।
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु ॥
तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ ।
विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ॥
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ ॥
पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः । कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः ।
`पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः ॥'
वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः ।
मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा ॥
ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम् ।
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥
वारन्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ।
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥
अमृष्यमाणो भगवान्केशवः परवीरहा ।
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥
एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् ।
किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥
द्रवते च महासैन्यं पाण्डवस्य महात्मनः ।
एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान् ॥
प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् ।
सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ॥
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ।
अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ॥
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् । तथा चिन्तयतस्तस्य भूय एव पितामहः ।
प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति ॥
तेषां बहुत्वासु भृसं शराणां दिशश्च सर्वाः पिहिता बभूवुः ।
न चान्तरिक्षं न दिशो न भूमि- र्न भास्करोऽदृश्यत रश्मिमालीक ॥
ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः ।
द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च ॥
श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च ।
प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च ॥
किरीटिनं त्वरमाणाभिस्रु- र्निदेशगाः शान्तनवस्य राज्ञः ।
तं वाजिपादातरथौघजालै- रनेकसाहस्रशतैर्ददर्श ॥
किरीटिनं संपरिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च ।
ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् ॥
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम् ।
स तान्यनीकानि महाधनुष्मान् शिनिप्रवीरः सहसाऽभिपत्य ॥
चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य ।
विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् ॥
युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः ।
क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात्कथितः पुराणैः ॥
मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्मं परिपालयध्वम् ।
तान्वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान्द्रवतः समन्तात् ॥
पार्थस्य दृष्टवा मृदुयुद्धातां च भीष्मं च सङ्ख्ये समुदीर्यमाणम् ।
अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता ॥
उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान् ।
ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु ॥
भीष्मं रथात्पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य ।
न सारथेः सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ॥
तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य ।
निहत्य भीष्मं सगणं तथाजौ द्रोणं च शैनेय रथप्रवीरौ ॥
प्रीतिं करिष्यामि धनंजयस्य राज्ञश्च भीमस्य तथाऽश्विनोश्च ।
निहत्य सर्वान्धृतराष्ट्रपुत्रां- स्तत्पक्षिणो ये च नरेन्द्रमुख्याः । राज्येन राजानमजातशत्रुं संपादयिष्याम्यहमद्य हृष्टः ॥
` इतीदमुक्त्वा स महानुभावः सस्मार चक्रं निशितं पुराणम् ।
सुदर्शनं चिन्तितमात्रमेव तस्याग्रहस्तं स्वयमारुरोह ॥
तच्चक्रपद्मं प्रगृहीतमाजौ रराज नारायणबाहुनालम् ।
यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातमक् ॥
तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् ।
तेस्यैव देहोरुसरःप्ररूढं रराज नारायणबाहुनालम् ॥'
ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम् ।
क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान् । संकम्पयन्गां चरणैर्महात्मा वेगेन कृष्मः प्रससार भीष्मम् ॥
मदान्धमाजौ समुदीर्णदर्पं सिंहो जिघांसन्निव वारणेन्द्रम् ।
सोऽभिद्रवन्भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी । व्यालम्बिपीताम्बरधृक्ककाशे घनो यथा खे तडितावनद्धः ॥
तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य ।
सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा ॥
स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम् ।
अभ्युत्पतँल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः ॥
तमाद्रवन्तं प्रगृहीतचक्रं दृष्ट्वा देवं शान्तनवस्तदानीम् ।
असंभ्रमं तद्विचकर्ष दोर्भ्यां महाधनुर्गामडिवतुल्यघोषम् । उवाच भीष्मस्तमनन्तपौरुषं गोविन्दमाजावविमूढचेताः ॥
एह्येहि देवेश जगन्निवास नमोस्तु ते माधव चक्रपाणे ।
प्रसह्य मां पातय लोकनाथ रथोत्तमात्सर्वशरण्य सङ्ख्ये ॥
त्वया हतस्यापि ममाऽद्य कृष्ण श्रेयः परिस्मिन्निह चैव लोके ।
संभावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् ॥
रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् ।
जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः ॥
निगृह्यमणाश्च तदाऽऽदिदेवो भृश सरोषः किल नाम योगी ।
आदाय वेगेन जगाम विष्णु- र्जिष्णुं महावात इवैकवृक्षम् ॥
पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम् ।
बलान्निजग्राह हरिं किरीटी पदेऽथ राजन्दशमे कथंचित् ॥
अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली ।
उवाच कोपे प्रतिसंहरेति गतिर्भवान्केशव पाण्डवानाम् ॥
न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च ।
अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रानुजसंप्रयुक्तः ॥
ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य ।
स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह ॥
`ततः प्रतिज्ञां समवाप्य भीष्मः कृताञ्चलिः स्तुत्यमथाकरोद्वै ।
त्रैविक्रमे यस्य वपुर्बभासे तथैव दृष्ट्वा तु समुञ्ज्वलन्तम् ॥
प्रगृह्य शङ्खं द्विषताकं निहन्ता स तानभूषून्पुनराददानः ।
भीष्मं शरैः संपरिवार्य सङ्ख्ये चिच्छेद भूरिश्रवसश्च चापम् ॥
शल्यं च विद्ध्वा नवभिः पृषत्कै- र्दुर्योधं वक्षसि निर्बिभेद ।'
विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः ॥
व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम् ।
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥
मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनिःस्वनाश्च ।
ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् ॥
गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च ।
जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः ॥
तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम् ।
अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः ॥
अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुङ्खान् ।
दुर्योदनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम् ॥
स सप्तभिः सप्त शरप्रवेकान् संवार्य भीरिश्रवसा विसृष्टान् ।
शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ ॥
ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम् ।
गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचर्त वीरः ॥
ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् ।
माहेन्द्रमस्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे ॥
तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान् ।
शरौघजालैर्विमलाग्निवर्णै- र्निवारयामास किरीटमाली ॥
शिलीमुखाः पार्थधनुःप्रमुक्ता रथान्ध्वजाग्राणि धनूंषि बाहून् ।
निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ।
ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य ।
गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयांचकार ॥
तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्च ।
अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुग्राश्वरथप्रणादाः ॥
गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः ।
पाञ्चालराजो द्रुपदश्च वीर- स्तं देशमाजग्मुरदीनसत्त्वाः ॥
सर्वाणि सैन्यानि तु तावकानि यतोयतो गाण्डिवजः प्रणादः ।
ततस्ततः सन्नतिमेव जग्मु- र्न तं प्रतीपोऽभिससार कश्चित् ॥
तस्मिन्सुघोरे कनृप संप्रहारे हताः प्रवीराः सरथाश्वसूताः ।
गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः ॥
परीतसत्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः ।
दृढं हताः पात्रिभिरुग्रवेगैः पार्थेन भल्लैर्विमलैः शिताग्नैः ॥
निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनिमुखेषु ।
पदातिसङ्घाश्च रथाश्च सङ्ख्ये हयाश्च नागाश्च धनञ्जयेन ॥
बाणाहतास्तूर्णमपेतसत्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् ।
ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः ॥
ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा ।
नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे वै ॥
वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधाः ।
नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः प्रभूतरक्षोगणभूतसेविता ॥
शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी ।
विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा ॥
श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च ।
उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम् ॥
प्रवर्तितामर्जुनबाणसङ्घै- र्मेदोवसासृकप्रवहां सुभीमाम् ।
हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फल्गुनेन ॥
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः ।
जयप्रगल्भाःक पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान् ॥
हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन ।
वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान् ॥
विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च ।
ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ॥
तदैन्द्रमस्त्रं विततं च घोर- मसह्यमुद्वीक्ष्य युगान्तकल्पम् ।
अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च ॥
चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम् ।
अवापय कीर्ति च यशश्च लोके विजित्य शत्रूंश्च धनंजयोऽपि ॥
ययौ नरेन्द्रैः सहसोदरैश्च समाप्तकर्मा शिबिरं निशायाम् ।
ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः ॥
रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन ।
प्राज्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ॥
महत्कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः ।
श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ ॥
द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन् ।
अन्ये च योधाः शतशः समेताः क्रुद्धेन पार्थेन रणस्य मध्ये ॥
स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन ।
इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः ॥
उल्कासहस्रैश्च सुसंप्रदीप्तै- र्विभ्राजमानैश्च तथा प्रदीप्रैः ।
किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे एकोनषष्टितमोऽध्यायः ॥

6-59-31 पिण्डितान् एकस्थान् । वर्मितान् कवचिनः ॥ 6-59-39 आक्रन्दे युद्धे ॥ 6-59-83समुदीर्यमाणं वर्धमानप्रयत्नम् ॥ 6-59-87 अश्विनोरश्विपुत्रयोर्नकुलसहदेवयोः ॥ 6-59-111 प्रजिघाय प्रेषयामास ॥ 6-59-112 शरप्रवेकान् बाणश्रेष्ठान् ॥