अध्यायः 067

भीष्मेण विश्वोपाख्यानकथने वासुदेवमाहात्म्यकथनम् ॥ 1 ॥ युधिष्ठिरस्य कृष्मसमाश्रयणेन विजय इति कथनम् ॥ 2 ॥

दुर्योधन उवाच ।
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते ।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥
भीष्म उवाच ।
वासुदेवो महद्भूतं सर्वदैवतदैवतम् ।
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥
श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः । नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ।
असितो देवलश्चापि वालखिल्यास्तपोधनाः ॥
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ।
सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः ॥
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ।
स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।
सर्वदेवमयो देवः शयानः शयने सुखम् ॥
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च ।
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत ॥
एषक लोकान्ससर्जादौ देवांश्च ऋषिभिः सह ।
अमृतं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः ।
एष कर्ता च कार्यं च आदेरादिः स्वयं प्रभुः ॥
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् ।
उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः ॥
ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् ।
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥
अग्रजं सर्वभूतानां संकर्षणमकल्पयत् ।
शेषं चाकल्पयद्देवमनन्तमिति तं विदुः ॥
यो धारयति भूतानि धरां चेमां सपर्वताम् । ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम् ।
कर्णस्रोतोभवं चापि मधुं नाम महासुरम् ॥
तमुग्रमुग्रकर्माणमुग्रां बुद्धइं समास्थितम् । हरन्तं ब्रह्मणो वेदाञ्जघान ब्रह्मणः पिता ।
ब्रह्मणोपचितिं कुर्वन्महात्मा पुरुषोत्तमः ॥
तस्य तात वधादेव देवदानवमानवाः ।
मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् ॥
वराहं नारसिंहं च त्रिविक्रममिति प्रभुम् ।
एष धाता विधाता च सर्वेषां प्रामिनां हरिः ॥
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ।
मुखतः सोसृजद्विप्रान्बाहुभ्यां क्षत्रियांस्तथा ॥
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैवच ।
तपसा नियतं देवं निधानं सर्वदेहिनाम् ॥
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन्केशवं महदाप्नुयात् ॥
केशवः परमं तेजः सर्वलोकपितामहः ।
एवमार्हुर्हृषीकेशं मुनयो वै नराधिप ॥
एवमेनं विजानीहि आचार्यं पितरं गुरुम् ।
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् ।
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः ।
भये महति मग्नांश्च पाति नित्यं जनार्दनःक ॥
स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत । सर्वात्मना महात्मानं केशवं जगदीश्वरम् ।
प्रपन्नः शरणं राजन्योगानां प्रभुमीश्वरम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तषष्टितमोऽध्यायः ॥

6-67-8 प्रभव उत्पत्तिहेतुः । अप्ययः प्रलयहेतुः ॥ 6-67-13 कर्णात्स्रवतीति कर्णस्रोतः कर्णमलम् ॥