अध्यायः 072

संकुलयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
शिखण्डी सह मत्स्येन विराटेन विशांपते ।
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥
द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् ।
राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद्धनंजयः ॥
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः ।
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ॥
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् ।
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥
सहदेवस्तु शकुनिमुलूकं च महारथम् ।
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥
युधिष्ठिरो महाराज गजानीकं महारथः ।
समवर्तत संग्रामे पुत्रेण निकृतस्तव ॥
माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि ।
त्रिगर्तानां बलैः सार्धं समसञ्जत पाण्डवः ॥
अभ्यवर्तन्त संक्रुद्धाः समरे साल्वकेकयान् ।
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः । नाकुलिश्च शतानीकः समरे रथपुङ्गवः ।
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः ।
द्रोणेन समरे राजन्समियायोग्रकर्मणा ॥
एवमेते महेष्वासास्तावकाः पाण्डवैः सह ।
समेत्य समरे शूराः संप्राहारं प्रचक्रिरे ॥
मध्यंदिनगते सूर्ये नभस्याकुलतां गते ।
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे ।
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥
समेतानां च समरे जिगीषूणां परस्परम् ।
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥
तत्राद्भुतमपश्यास संप्रहारं सुदारुणम् ।
यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह ॥
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन ।
विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः ॥
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् ।
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥
कवचानां विचित्राणां भूषणानां प्रभास्तथा ।
खं दिशः प्रदिशश्चैव भासयामासुरोजसा ॥
वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः ।
विरराज तदा राजंस्तत्रतत्र रणाङ्गणम् ॥
रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे ।
विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् ।
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ॥
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः ।
अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः ॥
तस्य शक्तिं महावेगं भीमसेनो महाबलः ।
क्रुद्धाशीविषसंकाशं प्रेषयामास भारत ॥
तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम् ।
चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः ॥
ततोऽपरेण भल्लेन पीतेन निशितेन च ।
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥
अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः ।
शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि ॥
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे ।
आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः ॥
शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर ।
ततः संधाय वै तीक्ष्णं शरं परमदारुणम् ॥
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ।
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ॥
तेन तेनैव धावन्ति मनोमारुतरंहसः ।
ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत् ॥
हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् ।
अभ्यद्रवत गृह्णीत हयान्यच्छत धावत ॥
इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ।
एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा ॥
न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा । ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह ।
स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे ।
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥
तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः ।
अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे द्विसप्ततितमोऽध्यायः ॥

6-72-18 ओजसा स्वप्रभावेण ॥