अध्यायः 077

भीमद्रोणपराक्रमवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् ।
न हि दुर्योधनस्तानि पश्यते भरतर्षभ ॥
यानि त्वं पश्यसे राजन्धर्मसंकरकारणात् ।
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशांपते ॥
तव दोषेण युद्दं च प्रवृत्तं सह पाण्डवैः ।
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ॥
आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते ।
इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥
तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् ।
शृणु युद्धं यथा वृत्तं शंसतो मे नराधिप ॥
भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् ।
आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ॥
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् ।
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ॥
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च ।
एतांश्चान्यांश्च सुबहून्समीपस्थान्महारथान् ॥
धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महारथः ।
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥
अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु ।
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ॥
स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः ।
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ॥
संप्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत् । यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान् ।
ततः शतसहस्राणि रथिनां सर्वशः प्रभो ।
उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे ॥
स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः ।
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥
तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् ।
समस्तानां वधे राजन्मतिं चक्रे महामनाः ॥
ततो रथं समुत्सृज्य गदामादाय पाण्डवः ।
उवाच सारथिं भीमं स्थीयतामिति भारत ॥
यावदेतान्हनिष्यामि धार्तराष्ट्रान्सहानुगान् । इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम् ।
जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम् ॥
गदया भिमसेनेन ताडिता वारणोत्तमाः ।
भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच ॥
भिन्नगात्राः सहारोहैः शेरते पर्वता इव ।
रथाश्च भग्नास्तिलशः सयोधाः शतशो रणे ॥
अश्वाश्च सादिनश्चैव पादातैः सह भारत ।
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ॥
यदेकः समरे राजन्बहुभिः समयोधयत् ।
अन्तकाले प्रजाः सर्वा दण्डपाणिरिवान्तकः ॥
भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः ।
द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः ॥
विदार्य महतीं सेनां तावकानां नरर्षभः ।
आससाद रथं शून्यं भीमसेनस्य संयुगे ॥
दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् ।
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥
अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् ।
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥
विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः ।
संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी ॥
प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् ।
मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः ॥
प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् । यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः ।
अभ्यधावद्गदापाणिस्तद्बलं स महाबलः ॥
ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् ।
सर्वेषामेव सैन्यानां संहर्षः समजायत ॥
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके ।
भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ॥
विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः ।
प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥
न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् ।
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ॥
यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति ।
एकायनगते भीमे मयि चावस्थिते युधि ॥
तस्य न स्वस्ति कुर्वन्ति देवाः शक्रपुरोगमाः ।
यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहम् ॥
`रौरवे नरके मञ्जेदप्लवे दुस्तरे नृभिः ।' मम भीमः सखा चैव संबन्धी च महाबलः ।
भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥
सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः ।
निघ्नन्तं मां रिपून्पश्य दानवानिव वासवम् ॥
एवमुक्त्वा ततो वीरो ययौ मध्येन वाहिनीम् ।
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ॥
स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम् ।
वातो वृक्षानिव बलात्प्रभञ्जन्तं रणे रिपून् ॥
ते वध्यमानाः समरे रथिनः सादिनस्तथा ।
पादाता दन्तिनश्चैव चक्रुरात्स्वरं महत् ॥
हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष ।
वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥
ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् ।
अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप ॥
अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरः ।
सैन्येन घोरेण सुसंहितेन दृष्ट्वा बली पार्षतो भीमसेनम् ॥
अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम् ।
आश्वासयन्पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले ॥
विशल्यमेनं च चकार तूर्ण- मारोपयच्चात्मरथे महात्मा ।
भृशं परिष्वज्य च भीमसेन- माश्वासयामास स शत्रुमध्ये ॥
तथा तस्मिन्वर्तमानेऽतिवेगं भ्रातॄनथोपेत्य तवापि पुत्रः ।
तस्मिन्विमर्दे तव संप्रवृत्ते दृष्ट्वा रणे वाक्यमिदं बभाषे ॥
अयं दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम् ॥
तं याम सर्वे महता बलेन मा वो रिपुः प्रार्थयतामनीकम् ।
श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठज्ञया नोदिता धार्तराष्ट्राः ॥
वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः ।
प्रगृह्य चास्त्राणि धनूंषि वीरा ज्यां नेमिघोषैः प्रविकम्पयन्तः ॥
शरैरवर्षन्द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः ।
निहत्य तांश्चापि शरैः सुतीक्ष्णै- र्न विव्यथे समरे चित्रयोधी ॥
समभ्युदीर्णांश्च तवात्मजांस्तथा निशाम्य वीरानभितः स्थितान्रणे ।
जिघांसुरुग्रो द्रुपदात्मजो युवा । प्रमोहनास्त्रं युयुजे महारथः । क्रुद्धो भृशं तव पुत्रेषु राज- न्दैत्येषु यद्वत्समरे महेन्द्रः ॥
`स वै ततोऽस्त्रं सुमहाप्रभावं' प्रमोहनं द्रोणदत्तं महात्मा ।
प्रयोजयामास उदारकर्मा तस्मिन्रणे तव सैन्यस्य राजन् ॥'
ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्वाः
प्रदुद्रुवुः कुरवश्चैव सर्वे सवाजिनागाः सरथाः समन्तात् । परीतकालानिव नष्टसंज्ञा- न्मोहोपेतांस्तव पुत्रान्निशम्य ॥
एतस्मिन्नेव काले तु भीमः प्रहरतां वरः ।
विश्रम्य च तदा राजन्पीत्वाऽमृतरसं जलम् ॥
पुनः सन्नह्य संक्रुद्धो योधयामास संयुगे ।
धृष्टद्यम्नेन सहितः कालयामास भारत ॥
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः ।
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥
सोऽतिविद्धस्ततो राजन्रणे द्रोणेन पार्थिवः । अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् ।
जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् ।
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥
अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः ।
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥
ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात् ।
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ॥
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ।
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः ॥
ततः प्रज्ञांस्त्रमदाय मोहनास्त्रं व्यनाशयत् ।
ततः प्रत्यागतप्राणास्तव पुत्रा महारथाः ॥
पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः ।
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ॥
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ।
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः ॥
प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः ।
प्रवृत्तिर्भिमसेनस्य पार्षतस्य च संयुगे ॥
विज्ञेया समरे शीघ्रं प्रविशध्वं रथार्णवम् ।
गच्छन्तु परया शक्त्या भवन्त इति मे मतिः ॥
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः । बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ।
मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ॥
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् ।
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥
ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमम् ।
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥
तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् ।
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ॥
न संवारयितुं शक्ता तव सेना जनाधिप ।
मदमूर्च्छन्वितात्मा वै प्रमदेवाध्वनि स्थिता ॥
तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः ।
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्रवृकोदरौ ॥
तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् ।
बभूवतुर्मुदायुक्तौ निघ्नन्तौ तव वाहिनीम् ॥
`द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम् ।' दृष्ट्वा तु सहसायान्तं पाञ्चाल्यो गुरुमात्मनः ।
नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥
ततो रथं समारोप्य कैकेयस्य वृकोदरम् ।
अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् ॥
तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् ।
क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः ॥
अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते ।
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ॥
अथान्यद्धनुरादाय पार्षतः परवीरहा ।
द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः ॥
तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक ।
हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ॥
वैवस्वतक्षयं घोरं प्रेषयामास भारत । सारथिं चास्य भल्लेन प्रेषयामास भारत ।
हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः ।
आरुरोह महाबाहुरभिमन्योर्महारथम् ॥
ततः सरथनागाश्वा समकम्पत वाहिनी ।
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥
तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा ।
नाशक्रुवन्वारयितुं समस्तास्ते महारथाः ॥
वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः ।
व्यभ्रमत्तत्रतत्रैव क्षोभ्यमाण इवार्णवः ॥
तथा दृष्ट्वा च तत्सैन्यं जहृषे तावकं बलम् । दृष्ट्वाचार्यं सुसंक्रुद्धं तपन्तं रिपुवाहिनीम् ।
तुष्टुवुः सर्वतो योधाः साधुसाध्विति भारत ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे सप्तसप्ततितमोऽध्यायः ॥