अध्यायः 083

द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय ।
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥
न चैव मामकं किंचिद्धृष्टं शंससि सञ्जय ।
नित्यं पाण्डुसुतान्हृष्टानभग्नान्संप्रशंससि ॥
जीयमानान्विमनसो मामकान्विगतौजसः ।
वदसे संयुगे सूत दिष्टमेतन्न संशयः ॥
सञ्जय उवाच ।
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः ।
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥
गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् ।
महोदधिसमभ्याशे लवणत्वं निगच्छति ॥
तथा तत्पौरुषं राजंस्तावकानां परंतप ।
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् ।
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ॥
तवापराधात्सुमहान्सपुत्रस्य विशांपते ।
पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप ।
न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ॥
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः ।
चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः ॥
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः ।
तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ॥
आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ ।
युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ ॥
तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् ।
युधामन्युः सुसंक्रुद्धो भ्रातरौ देवरूपिणौ ॥
विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः ।
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत ।
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥
युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः ।
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥
त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः ।
धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ॥
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ ।
शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि ॥
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम् ॥
युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ ।
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥
तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ ।
रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः ॥
तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः ।
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।
वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः ॥
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् ।
रथेनादित्यवर्णेन सध्वजेन महाबलः ॥
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक ।
यथा वज्रधरः पूर्वं संग्रामे तारकामये ॥
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः ।
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥
यथा सुरपतिः शक्रस्त्रासयामास दानवान् ।
तथैव समरे राजा द्रावयामास पाण्डवान् ॥
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम् ।
त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ॥
भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।
आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे ॥
घटोत्कचस्ततो राजन्भगदत्तं महारणे ।
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान् ।
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥
स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः ॥
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश ।
प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ॥
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः ।
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥
ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत ।
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ॥
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् ।
शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति ॥
तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् ।
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं ॥
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।
अजय्यं समरे वीरं यमेन वरुणेन च ॥
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः ।
यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम् ॥
मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत ।
स्वस्त्रीयौ छादयांचक्रे शरौघैः पाण्डुनन्दनौ ॥
सहदेवस्तु समरे मातुलं दृश्य संगतम् ।
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥
ततः प्रहस्य समरे नकुलस्य महारथः ।
` ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष ॥
अथैनं छिन्नधन्वानं छादयामास भारत ।
निजघान रणे तं तु सूतं चास्य न्यपातयत् ॥
ततः प्रसह्य समरे नकुलस्य महारथः ।
अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ॥
प्रेषयामास समरे यमस्य सदनं प्रति ।
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ॥
आरुरोह ततो यानं भ्रातुरेव यशस्विनः ।
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ॥
मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात् ।
स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ॥
स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः ।
प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ॥
सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान् ।
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥
स शरः प्रेषितस्तेन गरुडानिलवेगवान् ।
मद्रराजं विनिर्भिद्य निपपात महीतले ॥
स गाढविद्धो व्यथितो रथोपस्थे महारथः ।
निषसाद महाराज कश्मलं च जगाम ह ॥
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे ।
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम् ।
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ ।
दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः ॥
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते ।
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे त्र्यशीतितमोऽध्यायः ॥

6-83-12 इरावन्तमभिप्रेक्ष्य इति झo पाठः ॥ 6-83-13 इरावांस्तु सुसंक्रुद्ध इति झo पाठः ॥ 6-83-16 इरावांस्तु ततं इति झo पाठः ॥ 6-83-19 इरावति महात्मनीति झo पाठः ॥ 6-83-21 इरावांस्तु रणे इति झo पाठः ॥ 6-83-23 नागराजसुतासुत इति झo पाठः । तत्र नागराजः कौरव्यस्तस्य सुता उलूपी तस्याः सुत इरावानित्यर्थः ॥ 6-83-31 निष्ठानकः सव्यथः कशब्दः ॥