अध्यायः 085

संकुलयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
स ताड्यमानस्तु शरैर्धनंजयः पदाहतो नाग इव श्वसन्बली ।
बाणांश्च बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य ॥
संछिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन ।
विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः ॥
निपेतुराजौ रुधिरप्रदिग्धा- स्ते ताडिताः शक्रसुतेन राजन् ।
विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुक्रकायाः ॥
महीं गताः पर्थबलाभिभूता विचित्ररूपा युगपद्विनेशुः ।
दृष्ट्वा हतांस्तान्युधि राजपुत्रां- स्त्रिगर्तराजः प्रययौ रथेन ॥
तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽभ्यपतन्त पार्थम् ।
तथैव ते तं परिवार्य पार्थं विकृष्य चापानि महारवाणि ॥
अवीवृषन्बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः ।
संपीड्यमानस्तु शरौघवृष्ट्या धनंजयस्तान्युधि जातरोषः ॥
षष्ट्या शरैः संयति तैलधौतै- र्जघान तानप्यथ पृष्ठगोपान् ।
रथांश्च तांस्तनवजित्य सङ्ख्ये धनञ्जयः प्रीतमना यशस्वी ॥
अथात्वरद्भीष्मवधाय जिष्णु- र्बलानि राजन्समरे निहत्य ।
त्रिगर्तराजो निहतान्समीक्ष्य महात्मना तानथ बन्धुवर्गान् ॥
रणे पुरस्कृत्य नराधिपांस्तान् जगाम पार्थं त्वरितो वधाय
अभिद्रुतं चास्त्रभृतां वरिष्ठं धनंजयं वीक्ष्य शिखण्डिमुख्याः ॥
अभ्यद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य ।
पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान ॥
विध्वंसयित्वा समरे धनुष्मान् गाण्डीवमुक्तैर्निशितैः पृषत्कैः ।
भीष्मं यियासुर्युधि संददर्श दुर्योधनं सैन्धवादींश्च राज्ञः ॥
संवारयिष्णूनभिवारयित्वा मुहूर्तमायोध्य बलेन वीरः ।
उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान्महौजाः । ययौ ततो भीमबलो मनस्वी गाङ्गेयमाजौ शरचापपाणिः ॥
भीष्मोऽपि दृष्ट्वा समरे कृतास्त्रान् स पाण्डवानां रथिनोऽभ्युदारान् ।
विहाय संग्राममुखे धनंजयं जवेन पार्थं पुनराजगाम ॥
युधिष्ठिरश्च प्रबलो महात्मा समाययौ त्वरितो जातकोपः ।
मद्राधिपं समभित्यज्य सङ्ख्ये स्वभागमाप्तं तमनन्तकीर्तिः । सार्धं स माद्रीसुतभीमसेनै- र्भीष्मं ययौ शान्तनवं रणाय ॥
तैः संप्रयुक्तैः स महारथाग्र्यै- र्गङ्गासुतः समरे चित्रयोधी ।
न विव्यधे शान्तनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः ॥
अथैत्य राजा युधि सत्यसन्धो जयद्रथोऽत्युग्रबलो मनस्वी ।
चिच्छेद चापानि महारथानां प्रसह्य तेषां धनुषा वरेण ॥
युधिष्ठिरं भीमसेनं यमौ च पार्थं कृष्णं युधि संजातकोपः ।
दुर्योदनः क्रोधविषो महात्मा जघान बाणैरनलप्रकाशैः ॥
कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चौजौ ।
विद्धाः शरैस्तेऽतिविवृद्धकोपै- र्देवा यथा दैत्यगणैः समेतैः ॥
छिन्नायुधं शान्तनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः ।
अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥
उक्त्वा तथा त्वं पितुरग्रतो मा- महं हनिष्यामि महाव्रतं तम् ।
भीष्मं शरौघैर्विमलार्कवर्णैः सत्यं वदामीति कृता प्रतिज्ञा ॥
त्वया च नैनां सफलां करोषि देवव्रतं यन्न निहंसि युद्धे ।
मिथ्याप्रतिज्ञो भव मात्र वीर रक्षस्व धर्मं स्वकुलं यशश्च ॥
प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसङ्घान् ।
शरौघजालैरतितिग्मवेगैः कालं यथा कालकृतं क्षणेन ॥
निकृत्तचापः समरेऽनपेक्षः पराजितः शान्तनवेन चाजौ ।
विहाय बन्धूनथ सदरांश्च क्व यास्यसे नानुरूपं तवेदम् ॥
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम् ।
भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः ॥
अज्ञायमाने च धनंजये तु महाहावे संप्रसक्ते नृवीरे ।
कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर ॥
स धर्मराजस्य वचो निशम्य 6-85-26bरूक्षाक्षरं विप्रलापानुबद्धम् ।
प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन् ॥
तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम् ।
निवारयामास हि शल्य एन- मस्त्रेण घोरेण सुदुर्जयेन ॥
स चापि दृष्ट्वा समुदीर्यमाण- मस्त्रं युगान्ताग्निसमप्रकाशम् ।
न संमुमोह द्रुपदस्य पुत्रो राजन्महेन्द्रप्रतिमप्रभावः । तस्थौ च तत्रैव महाधनुष्मान् शरैस्तदस्त्रं प्रतिबाधमानः ॥
अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोऽग्रं प्रतिघातमस्य ।
तदस्त्रमस्त्रेण विदार्यमाणं खस्थाः सुरा ददृशुः पार्थिवाश्च ॥
भीष्मस्तु राजन्समरे महात्मा धनुश्च चित्रं ध्वजमेव चापि ।
छित्त्वाऽनदत्पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः ॥
ततः समुत्सृज्य धनुः सबाणं युधिष्ठिरं वीक्ष्य भयाभिभूतम् ।
गदां प्रगृह्याभिपपात सङ्ख्ये जयद्रथं भीमसेनः पदातिः ॥
तमापतन्तं सहसा जवेन जयद्रथः सगदं भीमसेनम् ।
विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशरैः समन्तात् ॥
अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीतचेताः ।
जघान वाहान्समरे समन्तात् सुसंमतान्सिन्धुराजस्य सङ्ख्ये ॥
ततोऽभिवीक्ष्याप्रतिमप्रभाव- स्तवात्मजस्त्वरमाणो रथेन
अभ्यायौ भीमसेनं निहन्तुं समुद्यतास्त्रः सुरराजकल्पः ॥
जयद्रथो भग्रवाहं रथं त त्यक्त्वा ययौ यत्र राजा कुरूणाम् ।
भयेन भीमस्य समूढचेताः ससौबलस्तत्र युद्धस्य भीतः ॥
भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया तर्जयानः ।
समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात् ॥
विहाय सर्वे तव पुत्रमुग्रं पातं गदायाः परिहर्तुकामाः ।
अपक्रान्तास्तुमुले संप्रमर्दे सुदूरुणे भारत मोहनीये ॥
अमूढचेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य ।
रथं समुत्सृज्य पदातिराजौ प्रगृह्य खङ्गं विपुलं च चर्म । अवप्लुतः सिंह उवाचलाग्रा- ज्जगामान्यं भ्रमप भूमिदेशम् ॥
गदापि सा प्राप्य रथं सुचित्रं साश्व ससूतं विनिहत्य सङ्ख्ये ।
जगाम भूमिं ज्वलिता महोल्क भ्रष्टाऽम्बराद्गामिव संपतन्ती ॥
आश्चर्यभूतं सुमहत्त्वदीया दृष्ट्वैव तद्भारत संप्रहृष्टाः ।
सर्वे विनेदुः सहिताः समन्ता- त्पुपूजिरे तव पुत्रस्य शौर्यम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे पञ्चाशीतितमोऽध्यायः ॥

6-85-25 अज्ञायमाने पश्चात्स्थिते ॥ 6-85-26 प्रत्यादेशं भर्त्सनं ॥