अध्यायः 090

अर्जुनात्मजेन इरावता शकुनेरनुजानां वधः ॥ 1 ॥ आर्श्चशृङ्गिनाम्ना राक्षसेन इरावतो वधः ॥ 2 ॥

सञ्जय उवाच ।
वर्तमाने तथा रौद्रे राजन्वीरवरक्षये ।
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा ।
अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम् ॥
ततः काम्भोजमुख्यानां नदीजानां च वाजिनाम् ।
आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ।
वाजिनां बहुभिः सङ्ख्ये समन्तात्परिवारयन् ॥
ये चापरे तित्तिरिजा जवना वातरंहसः ।
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ॥
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ।
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपाः ॥
अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् ।
सुतायां नागराजस्य जातः पार्थेन धीमता ॥
ऐरावतेन सा दत्ता अनपत्या महात्मना ।
पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥
कार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् ।
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥
स नागलोके संवृद्धो मात्रा च परिरक्षितः ।
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥
खमुत्पत्य महाराज नागराट् सत्यविक्रमः ।
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥
सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः ।
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥
न्यवेदयत चात्मानमर्जुनस्य महात्मनः ।
इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ॥
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् ।
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥
परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः ।
प्रीतिमाननयत्पार्थो देवराजनिवेशनम् ॥
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ।
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥
`स चापि नरशार्दूलः शार्दूलसमविक्रमः ।' अब्रवीच्च तदा पार्थमयमस्मि तवानघ ॥
स्थितः प्रेष्यश्च पुत्रश्च सर्वथा त्वं प्रशाधि माम् ।
कं करोमि च ते कामं कं च कामं त्वमिच्छसि ॥
परिष्वज्य सुतं प्रेम्णा वासविः प्रत्युवाच तम् । प्रीतिपूर्वं च कार्यं च कार्या प्रीतिश्च मानदः ॥'
युद्धकाले तु साहाय्यं दातव्यं नो भवेदिति ।
बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ॥
कामवर्णजवैरश्वैः सर्वतः शुशुभे वृतः ।
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ॥
उत्पेतुः सहसा राजन्हंसा इव महोदधौ ।
ते त्वदीयान्समासाद्य हयसंघान्मनोजवान् ॥
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ।
निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥
निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् ।
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥
तथैव तावका राजन्समेत्यान्योन्यमाहवे ।
परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् ।
उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः ।
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥
ततः क्षीणे हयानिके किंचिच्छेषे च भारत ।
सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ॥
वायुवेगसमस्पर्शाञ्जवे वायुसमांश्च ते ।
आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ॥
गजो गवाक्षो वृषकश्चर्मवानार्जयः शुकः ।
षडेते बलसंपन्ना निर्ययुर्महतो बलात् ॥
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः ।
सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥
तदनीकं महाबहो भित्त्वा परमदुर्जयम् ।
बलेन महता युक्ताः स्वर्गाय विजयैषिणः ॥
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ।
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ॥
अब्रवीत्समरे योधान्स्वान्विचित्रहयस्थितान् ।
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ॥
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ।
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ॥
जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः ।
तदनीकमनीकेन समरे वीक्ष्य पातितम् ॥
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ।
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् ।
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः ।
स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ॥
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः ।
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥
इरावानपि संक्रुद्धः सर्वास्तान्निशितैः शरैः ।
मोहयामास समरे विद्ध्वा परपुरंजयः ॥
प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः ।
तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥
विकृष्य च शितं खङ्गं गृहीत्वा च शरावरम् ।
पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान्युधि ॥
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः ।
भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः ॥
इरावानपि खङ्गेन दर्शयन्पाणिलाघवम् ।
अभ्यवर्तत देवांश्च मानुषांश्चैव संयुगे ॥
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः ।
अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ॥
भूमिष्ठमथ तं सह्ख्ये ह्यन्तरिक्षादवप्लुतम् ।
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥
अथाभ्याशगतानां तेषां गात्राण्यकृन्तत ।
असिहस्तोऽस्त्रहस्तानां तेषां गात्राण्यकृन्तत ॥
आयुधानि च सर्वेषां बाहूनपि विभूषितान् ।
अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ॥
वृषकस्तु महाराज बहुधा विपरिक्षतः ।
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः ।
अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम् ॥
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम् ।
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली ।
मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ॥
त्वं च कामगमस्तात मायास्त्रे च विशारदः ।
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः ।
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥
स योधैर्युद्धकुशलैर्विमलप्रासयोधिभिः ।
वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ॥
[हतशेषैर्महाराज द्विसाहस्त्रैर्हयोत्तमैः] निहन्तुकामः समरे इरावन्तं महाबलम् ॥
इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी हन्तुकाममयित्रघ्नो राक्षसं प्रत्यवारयत् ॥
तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः ।
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥
तेन मायामयाः सृष्टा हयास्तावन्त एव हि ।
स्वारूढा राक्षसैर्घोरैः शूलपट्टसधारिभिः ॥
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः ।
अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ ।
संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ॥
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् ।
इरावाथ संरब्धः प्रत्यधावन्महाबलः ॥
समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः ।
चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम् ॥
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् ।
इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् ।
विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः ॥
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ।
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ॥
संबभूव महाराज समवाप च यौवनम् ।
माया हि सहराज समवाप च यौवनम् ॥
एवं तद्राक्षसस्याङ्गं छिन्नंछिन्नं व्यरोहत ।
इरावानपि संक्रुद्धो राक्षसं त महाबलम् ॥
परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः । स तेन बलिना वीरश्छिद्यमान इव द्रुमः ॥ 6-90-71aराक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत् । परश्वथक्षतं रक्षः सुस्राव बहुशोणितम् ॥
ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे ।
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम् ॥
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ।
अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ॥
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ।
तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ॥
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे ।
तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ॥
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ।
स नागैर्बहुभी राजन्निरावान्संवृतो रणे ॥
दधार सुमहद्रूपमनन्त इव भोगवान् ।
ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः ।
सौपर्णं रूपमास्थाय भक्षयामास पन्नगम् ॥
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके ।
विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ॥
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् ।
इरावतः शिरो रक्षः पातयामास भूतले ॥
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे ।
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः ।
महान्व्यतिकरो घोरः सेनयोः समपद्यत ॥
गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः ।
रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे ।
रथिभिर्निहता राजंस्तव तेषां च संकुले ॥
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् ।
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः ॥
तथैव तावका राजन्सृञ्जयाश्च सहस्रशः ।
जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम् ॥
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥
तथा मर्मातिगैर्भीष्मो निजघान महारथान् ।
कम्पयन्समरे सेनां पाण्डवानां परंतपः ॥
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः ।
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् ।
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥
तथैव भीमसेनस्य पार्षतस्य च भारत ।
रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ॥
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् ।
एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ॥
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः ।
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ ।
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥
आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः ।
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥
न स्म पश्यामहे कंचित्प्राणान्यः परिरक्षति ।
दैवासुराभे समरे तस्मिन्योधा नराधिप ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे नवतितमोऽध्यायः ॥

6-90-3 वाजिनां वेगवतां वाजिनामश्वानां बहुभिर्गणैः परिवारयन्निति गणशब्दाध्याहारेण द्वयोः संबन्धः ॥ 6-90-6 पाण्डवस्यार्जुनस्य सुत इरावान् ॥ 6-90-7 नागराजस्य ऐरावतस्य ॥ 6-90-10 पितृव्येण अश्वसेनेन ॥ 6-90-57 अयमर्धः श्लोको दाक्षिणात्यकोशेषु नास्ति खo झo पुस्तकयोरस्ति ॥ 6-90-95 आविष्टाः ग्रहाद्याविष्टाः ॥