अध्यायः 094

घटोत्कचयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
अभ्यधावत्सुसंक्रुद्धो भीमसेनमरिन्दमम् ॥
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।
महता शरवर्षेण पाण्डवं समवाकिरत् ॥
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवापिनम् ।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥
तदन्तरं च संप्रेक्ष्य त्वरमामो महारथः ।
प्रसंदधे शितं बाणं गिरीणामपि दारणम् ॥
तेनोरसि महाराज भीमसेनमताडयत् ।
स गाढविद्धो व्यथितः सृक्विणी परिसंलिहन् ॥
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ।
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ॥
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ।
अभिमन्युमुखाश्चापि पाण्डवानां महारथाः ॥
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ।
संप्रेक्ष्य तान्संपततः संक्रुद्धाञ्जातसंभ्रमान् ॥
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ।
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ॥
संशयं परमं प्राप्तं मञ्जन्तं व्यसनार्णवे ।
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ॥
भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन् ।
नानाविधानि शस्त्राणि विसृजन्तो महारथाः ॥
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् ।
तदाऽऽचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः ॥
तावकाः समवर्तन्त पाम्डवानामनीकिनीम् ।
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ॥
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।
पाण़्डवा धार्तराष्ट्राश्च परस्परजिघांसवःक ॥
एवमुक्त्वा महाबाहुर्महद्विष्फार्य कार्मुकम् ।
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव वलाहकः ॥
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत ।
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ ।
भीमसेनो महाबाहुर्गदामादाय सत्वरम् ॥
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः । समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे ।
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ ।
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ।
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ॥
अभिमन्युप्रभृतयः पाण़्डवानां महारथाःक । अभ्यदावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्
अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्यात् ॥
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः ।
स विष्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ॥
यथा शक्रो महाराज पुरा विव्याध दानवम् ।
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम् ॥
येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसाक । 6-94-32b`स रुद्रेण जितः पूर्वं निहतो मातरिश्वना'
तथा नीलेन निर्भिन्नः सम्यङ्भुक्तेन पत्रिणा ॥
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ।
स विष्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ॥
दध्रे नीलविनाशाय मतिं मतिमतां वरः ।
ततः संधाय विमलान्भल्लान्कर्मारमार्जितान् ॥
जघान चतुरो वाहान्पातयामास च ध्वजम् । `सूतं चैकेन भल्लेन रथनीडादपाहरत्'
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
मोहितं वीक्ष्य राजानं नीलमश्मचयोपमम् ॥
घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः । अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ।
तथेतरे चाभ्यधावन्राक्षसा युद्धदुर्मदाः ॥ 6-94-38a` भीमसेनो महाबाहुर्नीलं नीलाञ्जनप्रभम् ।' आरोप्य स्वरथं वीरो दुर्योधनमपाद्रवत् ॥
घटोत्कचं च संप्रेक्ष्य राक्षसं घोरदर्शनम् ॥
अभ्यधावत तेजस्वी भारज्वाजात्मजस्त्वरन् ॥
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान् । योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ।
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः ॥
अक्रुद्ध्यत महाकायो भैमसेनिर्घटोत्कचः ।
प्रादुश्चक्रे ततो मायां घोररूपां सुदारुणाम् ॥
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ।
ततस्ते तावकाः सर्वे मायया विमुखीकृताःक ॥
अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले ।
विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः ॥
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च ।
प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः ॥
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः ।
हयाश्चैव हयारोहाः सन्निकृत्ताः सहस्रशः ॥
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति ।
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे ।
घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः ॥
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ।
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ॥
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे ।
शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम् ॥
एवं तव बलं सर्वं हैडिम्बेन महात्मना ।
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे चतुर्नवतितमोऽध्यायः ॥

6-94-44 द्रोणाद्रींश्चापश्यन्तेति संबन्धः ॥