अध्यायः 100

अलम्बुसस्य द्रौपदेयैः सह युद्धमभिमन्युना समागमश्च ॥ 1 ॥

सञ्जय उवाच ।
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः ।
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ॥
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ।
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ॥
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ।
निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ॥
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः ।
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् ।
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः ।
गजारोहांश्च सगजान्दारयामास फाल्गुनिः ॥
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः ।
पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥
तान्यनीकानि सौभद्रो द्रावयामास भारत ।
तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ॥
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः ॥
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम ।
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥
न चैनं तावका राजन्विषेहुररिघातिनम् ।
प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः ॥
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।
अदृश्यत महेष्वासः सवज्र इव वासवः ॥
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः ।
तोयदेषु यथा राजन्राजमाना शतह्रदा ॥
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ॥
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम् ।
सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ॥
मण्डलीकृतमेवास्य धनुः पश्याम भारत ।
सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम् ॥
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् ।
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥
तेनार्दिता महाराज भारती सा महाचमूः ।
व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव ॥
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् ।
नन्दयामास सुहृदो मयं जित्वेव वासवः ॥
तेन निद्राव्यमाणानि तव सैन्यानि संयुगे ।
चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम् ॥
तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥
दुर्योधनस्तदा राजन्नार्श्यशृङ्गिमभाषत ।
एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः ॥
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ।
तस्य चान्यत्र पश्यामि संयुगे भेषजं महत् ॥
ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् ।
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ॥
वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः ।
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ॥
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ।
नर्दमानो महानादं प्रावृषीव बलाहकः ॥
तस्य शब्देन महता पाण्डवानां बलं महत् ।
प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः ॥
बहवश्च महाराज तस्य नादेन भीषिताः ।
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः ।
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे ।
नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ॥
तां वध्यमानां च तथा पाण्डवानां महाचमूम् ।
प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः ॥
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष ।
रक्षसा घोररूपेण वध्यमानस्य संयुगे ॥
ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम् ।
व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम् ॥
सा वध्यमाना च तथा पाण्डवानामनीकिनी ।
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥
प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा ।
ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान् ॥
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः ।
राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा ॥
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः ।
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः ।
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः ।
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥
विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः ।
आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे । विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ।
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव ।
अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष ।
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः ।
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥
एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव ।
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥
त्वरमाणः सुसंबद्धो हयांस्तेषां महात्मनाम् ।
जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः ॥
बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः ।
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः ।
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।
दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत् ॥
तयोः समभवद्युद्धं वृत्रवासवयोरिव ।
ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम् ॥
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् ।
महाबलौ महाराज क्रोधसंरक्तलोचनौ ॥
परस्परमवेक्षेतां कालानलसमौ युधि । `आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।'
तयोः समागमो घोरो बभूव कटुकोदयः ॥
यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे शततमोऽध्यायः ॥

6-100-16 लघु सुष्ठु च शीघ्रं शोभनं च यथा स्तात्तथा ॥ 6-100-23 आर्ष्यशृङ्गिमलम्बुसम् ॥ 6-100-39 सर्वपारशवैः सर्वलोहमयैः ॥ 6-100-40 संस्यूतो ग्रथितः ॥