अध्यायः 103

संकुलयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
मध्यंदिनो महाराज संग्रामः समपद्यत ।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् ।
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥
संममर्द च तत्सैन्यं पिता देवव्रतस्तव ।
मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम् ॥
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा ।
भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥
धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः ।
द्रुपदस्य च नाराचं प्रेषयामास भारत ॥
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना ।
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥
शिखण्डी तं च विव्याध भरतानां पितामहम् ।
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥
धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् ।
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥
द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः ।
शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥
सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः ।
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः ।
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥
तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः ॥
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया ।
प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे ॥
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् ।
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥
रथी रथिनमासाद्य प्राहिणोद्यमसादनम् ।
तथेतरान्समासाद्य नरनागाश्वसादिनः ॥
अनयन्परलोकाय शरैः सन्नतपर्वभिः ।
शरैश्च विविधैर्घोरैस्तत्रतत्र विशांपते ॥
रथास्तु रथिभिर्हीना हतसारथयस्तथा ।
विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः ॥
मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे ।
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः ।
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ॥
देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि ।
ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम् ॥
सर्वलोकेश्वराः शूरास्तत्रतत्र विशांपते ।
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥
दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः ।
मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ॥
चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष ।
छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ॥
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश ।
नवमेघप्रतीकाशा जलदोपमनिःस्वनाः ॥
तथैव दन्तिभिर्हीना गजारोहा विशांपते ।
प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले ॥
नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् ।
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥
अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः ।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥
गजो गजं समासाद्य द्रवमाणं महाहवे । ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा ।
तथैव च रथान्राजन्प्रममर्द रणे गजः ॥
रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि ।
व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे ॥
एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम् । `दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः ॥'
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये ।
प्रावर्तत नदी घोरा शोमितान्त्रतरङ्गिणी ॥
अस्थिसङ्घातसंबाधा केशशैवलाद्वला ।
रथह्रदा शरावर्ता हयमीना दुरासदा ॥
शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला ।
कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा ॥
` शङ्खनक्रौघसंकीर्णा छत्रकूर्मरथोडुपा ।' पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी ।
क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी ॥
तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः ।
प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः ॥
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान् ।
यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति ॥
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् ।
दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ॥
गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः ।
कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥
एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् ।
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥
ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः ।
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत ।
युध्यध्वमनहंकराः किं चिरं कुरुथेति च ॥
`इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः' ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।
अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा ॥
यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः ।
वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ॥
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।
रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे ॥
एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः । दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥ ॥ इति श्रामन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे त्र्यधिकशततमोऽध्यायः ॥

6-103-7 स्त्रीमयं अयं भीष्मः स्त्रीं ध्यात्वा चिन्तयित्वा । यद्वा स्त्रीमयं स्वार्थे मयट् ॥ 6-103-22 वैश्रवणं कुबेरं चाति अतिक्रान्ता ॥ 6-103-28 अद्राक्षमहं सञ्जयः ॥ 6-103-42 आगस्कृदपराधी ॥