अध्यायः 106

भीष्मपराक्रमममृष्यता कृष्णेन रथादवरुह्य तद्वधायाभियानम् ॥ 1 ॥ अर्जुनेन पश्चादनुधाव्य निवर्तितस्य कृष्णस्य तेन सह पुना रथारोहणम् ॥ 2 ॥

सञ्जय उवाच ।
ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः ।
आजघान रणे पार्थान्सहसेनान्समन्ततः ॥
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः ।
नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् ।
धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः ॥
तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः । धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः ।
युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत ।
एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः ।
तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ॥
सौवीरा कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।
संग्रमे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥
तथैवान्ये महीपाला नानादेशसमागताः । पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ।
तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥
स समन्तात्परिवृतो रथौघैरपराजितः ।
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥
रथाग्न्यगारश्चापार्चिरसिशक्तिगजेन्धनः ।
शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥
` यथा हि सुमहानग्निः कक्षे चरसि सानिलः ।' तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ॥
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः ।
कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः ।
मुण्डतालवनानीव चकार स रथव्रजान् ॥
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।
अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वभूतानि समकम्पन्त भारत ॥
अमोघा ह्यपत्नबाणाः पितुस्ते भरतर्षभ ।
नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः ।
अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश । महारथाः समाख्याताः कलपुत्रास्तनुत्यजः ।
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् ।
निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत ।
अपश्याम महाराज शतशोऽथ सहस्रशः ॥
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः ।
शरैः सुकवचैश्छिन्नैः पट्टसैश्च विशांपते ॥
गदाभिर्भिण्डिपालैश्च निशितैश्च शिलीमुखैः ।
अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥
बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः । तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः ।
चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी ॥
गजारोहा गजान्राजन्हयांश्च हयसादिनः ।
अभिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥
यतमानाश्च ते वीरा द्रवमाणान्महारथान् ।
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।
अभज्यत महाराज न च द्वौ समधावताम् ॥
आविद्धरथनागाश्वं पतितध्वजसंकुलम् ।
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथ ।
प्रियं सखाय चाक्रन्दे सखा दैवबलात्कृतः ॥
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः ।
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त सर्वशः ॥
तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकूबरम् ।
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥
श्रीभगवानुवाच ।
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव ।
प्रहरास्मै नरव्याघ्र भीष्मायाहवशोभिने ॥
यत्पुरा कथितं वीर त्वया राज्ञां समागमे ।
विराटनगरे तात सञ्जयस्य समीपतः ॥
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति सङ्गरे ॥
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम ।
क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः ॥
सञ्जय उवाच ।
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः ।
अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् ।
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव ।
पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम् ॥
सञ्जय उवाच ।
स चाश्वान्रजतप्रख्यांश्चोदयामास माधवः । यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ।
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः ।
धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् ॥
क्षणेन स रथस्तस्य सहयः सहसारथिः ।
शरवर्षेण महता न प्राज्ञायत भारत ॥
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्वरः ।
चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः ॥
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥
चकर्ष च ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ।
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ॥
गाङ्गेयस्त्वब्रवीत्पार्थं धन्विश्रेष्ठमरिंदम ।
साधुसाधु महाबाहो साधु कुन्तीसुतेति च ॥
समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः ।
मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥
अदर्शयद्वसुदेवो हययाने परं बलम् ।
मोघान्कुर्वञ्शरांस्तस्य मण्डलानि निदर्शयन् ॥
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥
वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् ।
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।
नामृष्यत महाबाहुर्माधवः परवीरहा ॥
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष ।
वासुदेवस्ततो योगी प्रचस्कन्द महारथात् ॥
अभिदुद्राव भीष्मं स भुजप्रहरणो बली ।
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ॥
दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः ।
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ॥
ग्रसन्निव च तेजांसि तावकानां महाहवे ।
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके ॥
हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः ।
क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयातुराः ॥
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः ।
शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥
स सिंह इव मातङ्गं यथर्षभ इवर्षभम् ।
अभिदुद्राव वेगेन विनदन्यादवर्षभः ॥
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे । असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः ।
उवाच चैव गोविन्दमसंभ्रान्तेन चेतसा ॥
एह्येहि पुण्डरीकाक्ष देवदेव नमोस्तु ते ।
मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे ॥
त्वया हि देव संग्रामे हतस्यापि ममानघ ।
श्रेय एव परं कृष्ण लोके भवति सर्वतः ॥
संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ।
प्रहरस्व यथेष्टं वै दासोऽस्मि तव चानघ ॥
सञ्जय उवाच ।
अन्वगेव ततः पार्थः समभिद्रुत्य केशवम् ।
निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः ।
जगामैवैनमादाय वेगेन पुरुषोत्तमः ॥
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा ।
निजग्राह हृषीकेशं कथंचिद्दशमे पदे ॥
तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम् ।
निःश्वसन्तं यथा नागमर्जुनः प्रणयात्सखा ॥
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि ।
यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥
मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव ।
ममैष भारः सर्वो हि हनिष्यामि पितामहम् ॥
शपे केशव शस्त्रेण सत्येन सुकृतेन च ।
अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन ॥
अद्यैव पश्य दुर्धर्षं पात्यमानं महारथम् ।
तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः । `अभवत्परमप्रीतो दृष्ट्वा पार्थस्य विक्रमम्' ।
न किंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः ।
ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ ॥
प्राणानादत्त योधानां पिता देवव्रतस्तव ।
गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥
यथा कुरूणां सैन्यानि बभञ्जुर्युधि पाण्डवाः ।
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः ।
निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ॥
मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ।
ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः ॥
कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम् ।
वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः ॥
तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत । त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव ।
पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥
तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना ।
समरे मृदिताः सर्वे पाण्डवाः सह सृञ्जयैः ॥
महारथं भारत दुष्प्रकम्पं शरौघिणं प्रतपन्तं नरेन्द्रान् ।
भीष्मं न शेकुः प्रतिवीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम् ॥
विमृद्गतस्तस्य तु पाण्डुसेना- मस्तं जगामाथ सहस्ररश्मिः ।
ततो हि भीष्मः सबलान्ससैन्या- न्न्यवारयत्पाण्डुसुताञ्शरौघैः ॥
जघान चैतान्सुभृशं महाबलो महाव्रतः पाण्डुसुतान्महास्त्रैः ।
रणे करूणाधिपचेदिपैर्बलै- र्वृतान्सदा चक्रधरस्य पश्यतः । ततो बलानां श्रमकर्शितानां
मनोऽवहारं प्रति संबभूव ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे षडधिकशततमोऽध्यायः ॥