अध्यायः 107

युधिष्ठिरेण कृष्णेनसह संमन्त्र्य रात्रौ भीष्ममेत्य तद्वधोपायकथनप्रार्थना ॥ 1 ॥ तंप्रति भीष्मेण तत्कथनम् ॥ 2 ॥

सञ्जय उवाच ।
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते ।
सन्ध्या समभवद्धोरा नापश्याम ततो रणम् ॥
ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत ।
वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम् ॥
स्वसैन्यं च परावृत्तं पलायनपरायणम् ।
भीष्मं च युधि संरब्धं पीडयन्तं महारथम् ॥
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् । ` निशामुखं च संप्रेक्ष्य घोररूपं भयानकम् ।'
चिन्तयित्वा ततो राज्ञामपहारमकारयत् ॥
ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः ।
तथैव तव सैन्यानामपहारे ह्यभूत्तदा ॥
ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः ।
न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः ॥
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः ।
नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः ॥
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयान् ।
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः ।
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह ।
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः ।
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप ।
वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे ॥
कृष्ण पश्य माहात्मानं भीष्मं भीमपराक्रमम् ।
गजं नलवनानीव विमृद्गन्तं बलं मम ॥
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् ।
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥
यथा घोरो महानागस्तक्षको वै विषोल्बणः ।
तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान् ॥
गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान् ।
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥
वरुणः पाशभृच्चापि सगदो वा धनेश्वरः ।
न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ॥
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे ।
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥
वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् ।
न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा ॥
यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् ।
एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान् ॥
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातरश्चैव मे शुराः सायकैर्भृशपीडिताः ॥
मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः ।
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ।
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥
यदि तेऽहमनुग्राह्यो भ्रातृभिः स केशव ।
स्वधर्मस्याविरोधेन हितं व्याहर केशव ॥
सञ्जय उवाच ।
एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् ।
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥
श्रीभगवानुवाच ।
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर ।
यस्य ते भ्रातरः शूरा दुर्जयाः सत्रुसूदनाः ॥
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ ।
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वरौ ॥
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव ।
त्वप्रयुक्तो महाराज किं न कुर्यां महाहवे ॥
हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् ।
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥
यदि भीष्मे हते वीरे जयं पश्यसि पण्डव ।
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे ।
विमुञ्चन्तं महास्त्रामि पातयिष्यामि तं रथात् ॥
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः ।
मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥
तव भ्राता मम सखा संबन्धी शिष्य एव च ।
मांसान्युत्कृत्य दास्यामि फल्गुनार्थे महीपते ॥
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् ।
एष नः समयस्तात तारयेम परस्परम् ॥
स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम् ।
प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन पूर्वतः ॥
पातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ ।
परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः ॥
अनुज्ञातेन पार्थेन मया कार्यं न संशयः ।
अथवा फल्गुनस्यैष भारः परिमितो रणे ॥
स हनिष्यति संग्रामे भीष्मं परपुरंजयम् ।
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ॥
त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ।
निहन्त्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ॥
विपरीतो महावीर्यो गतसत्वोऽल्पजीवनः ।
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ॥
युधिष्ठिर उवाच ।
एवमेतन्महाबाहो यथा वदसि माधव ।
सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे ॥
नियतं समावाप्स्यामि सर्वमेतद्यथेप्सितम् ।
यस्य मे पुरुषव्याघ्र भवान्पक्षे व्यवस्थितः ॥
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर ।
त्वया नाथेन गोविन्द किमु भीष्मं महारथम् ॥
न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात् ।
अयुध्यमानाः सहाय्यं यथोक्तं कुरु माधव ॥
समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे ।
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन ॥
दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो ।
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ॥
तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ।
भवता सहिताः सर्वे प्रयाम मधुसूदन ॥
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् ।
रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय माचिरम् ॥
स वक्ष्यति हितं वाक्यं सत्यमस्माज्जनार्दन ।
यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥
स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः ।
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव ।
पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम् ॥
सञ्जय उवाच ।
ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् ।
रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम् ॥
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् ।
गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम् ॥
वक्तमर्हति सत्यं स त्वया पृष्टो विशेषतः ।
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ॥
गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत ।
स नो दास्यति मन्त्रं यं तेन योत्स्यामहे परान् ॥
सञ्जय उवाच ।
एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज ।
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ॥
विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ।
प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे ॥
पूजयन्तो महाराज पाण्डवा भरतर्षभम् ।
प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः ॥
तानुवाच महाबाहुर्भीष्मः कुरुपितामहः ।
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ॥
स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ।
किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनं ॥
`युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ ।' सर्वात्मनापि कर्तास्मि यदपि स्यात्सदुष्करम् ।
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः ॥
उवाच राजा दीनात्मा प्रीतियुक्तमिदं वचः ।
कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि ॥
प्रजानां संशयो न स्यात्कथं तन्मे बद प्रभो ।
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ॥
भवन्तं समरे वीर विषहेम कथं वयम् ।
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ॥
मण्डलेनैव धनुषा दृश्यसे संयुगे सदा ।
आददानं संदधानं विकर्षन्तं धनुर्न च ॥
पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् ।
रथाश्वनरनागानां हन्तारं परवीरहन् ॥
कोऽथवोत्सहते जेतुं वां पुमान्भरतर्षभ ।
वर्षता शरवर्षाणि महान्ति पुरुषर्षभ ॥
क्षयं निता हि पृतना संयुगे महती मम ।
यथा युधि जयेम त्वां यथा राज्यं भृशं मम ॥
मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह । 6-107-69xसञ्जय उवाच । ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज ॥
न कथंचन कौन्तेय मयि जीवति संयुगे ।
जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते ॥
निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः ।
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ॥
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् । एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् ।
हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥
युधिष्ठिर उवाच ।
ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि ।
भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम् ॥
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा ।
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥
भीष्म उवाच ।
सत्यमेतन्महाबाहो यथा वदसि पाण्डव ॥
नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः । आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः ॥
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे ।
द्रवमाणे च भीते च तवास्मीति च वादिनि ॥
`स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज' स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि ।
अप्रसूते च षण्डे च न युद्धं रोचते मम ॥
इमं मे शृणु राजेन्द्र संकल्पं पूर्वचिन्तितम् ।
असंकल्पध्वजं दृष्ट्वा न युध्येयं कदाचन ॥
य एष द्रौपदो राजंस्तव सैन्ये महारथः ।
शिखण्डी समरामर्षी शूरश्च समितिंजयः ॥
यथाऽभवच्च स्त्रीपूर्वं पश्चात्पुंस्त्वं समागतः ।
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डीनम् ।
मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः ॥
असंकल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः ।
न प्रहर्तुमभीप्सामि गृहीतेषु कथंचन ॥
तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः ।
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥
न तं पश्यामि लोकेष मां हन्याद्यः समुद्यतम् ।
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ॥
पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः । आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम् ॥
एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत ।
ततो जेष्वसि संग्रामे धार्तराष्ट्रान्समागतान् ॥
सञ्जय उवाच ।
तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति ।
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥
तथोक्तवति गाङ्गेये परलोकाय दीक्षिते ।
अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत् ॥
गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता ।
पितामहेन संग्रामे कथं योद्धास्मि माधव ॥
क्रीडता हि मया बाल्ये वासुदेव महामनाः ।
पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥
यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज ।
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत ।
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥
कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना ।
जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥
` कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम् । न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे ॥'
श्रीवासुदेव उवाच ।
प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे ।
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥
पातयैनं रथात्पार्थ क्षत्रियं युद्धदुर्मदम् ।
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥
दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते ।
यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा ॥
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् ।
त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम् ॥
जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम ।
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥
ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् ।
आततायिनमायान्तं हन्याद्धातकमात्मनः ॥
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय ।
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥
अर्जुन उवाच ।
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् ।
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥
ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम् ।
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः ।
शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत् ॥
श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् ।
कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत ॥
`अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम् । जहृषुर्हृष्टरोमाणः सकृष्णाः पाण्डवास्तदा ॥'
इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः । अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः ।
शयनानि यथा स्वानि भेजिरे पुरुषर्षभाः ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्ताधिकशततमोऽध्यायः ॥

6-107-20 एकत इति द्वितीयान्तात्तसिः । एकं केवलं मृत्युमेवाभ्येतीत्यर्थः ॥ 6-107-40 विपरीतः क्षुद्रेषु पराक्रमी । गतसत्वो गतबुद्धिः ॥ 6-107-61 युद्धादन्यत्रेत्यर्धं कः पुस्तक एव दृश्यते ॥ 6-107-91 परुषीकृतः रूक्षीकृतः ॥ 6-107-97 युद्धदुर्मदं युद्धोत्सुकम् ॥ 6-107-98 गमिष्याति यमक्षयं इति पाठे भीष्म इति शेषः ॥ 6-107-101 आततायिनमित्यस्य घातकमिति विशेषणमन्येभ्य आततायिभ्यो व्यवच्छेदायोक्तम् ॥ 6-107-103 निधनं निधनहेतुः ॥