अध्यायः 108

भीष्मयुद्धम् ॥ 1 । शिखण्डिनो भीष्मेण सह संवादो युद्धसन्नाहश्च ॥ 2 ॥

धृतराष्ट्र उवाच ।
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे ।
पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
ततः प्रभाते विमले सूर्यस्योदयनं प्रति ।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥
ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः ।
शिखण्डिनं पुरस्कृत्य निर्याप्ताः पाण्डवा युधि ॥
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।
शिखण्डी सर्वसैन्यानामग्र आसीद्विशांपते ॥
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः ।
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः ।
प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृत्तः ।
द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत् ॥
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।
जघनं पालयामासुः पाण्डवेयश्च राक्षसः ॥
एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् ।
अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ॥
तथैव कुरवो राजन्भीष्मं कृत्वा महारथम् ।
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥
पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः ।
ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः ॥
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥
काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥
तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः ।
जघनं पालयामासुस्तव सैन्यस्य भारत ॥
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवो युधि ।
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥
ततः प्रववृते युद्धं तव तेषां च भारत ।
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ॥
तत्र भारत भीमेन ताडितास्तावकाः शरैः ।
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
तव सैनयं समासाद्य पीडयामासुरोजसा ॥
ते वध्यामानाः समरे तावका भरतर्षभ ।
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः ।
संप्राद्रवद्दशः दिशः काल्यमानं महारथैः ॥
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ ।
वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः ॥
धृतराष्ट्र उवाच ।
पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी ।
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ॥
कथं वा पाण्डवा युद्धे प्रत्युद्याताः परंतपाः ।
निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
आचक्षे ते महाराज यदकार्षीत्पिता तव ।
पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः ॥
प्रंहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥
स पाणडवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् ।
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥
अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ।
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ॥
आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः ।
नानाशस्त्रास्त्रवर्षैस्तान्वीर्यामर्षप्रवेरितैः ॥
निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु ।
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभ ॥
सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान् ॥
गजारोहान्गजेभ्यश्च परेषां जयकारिणः ।
तमेकं समरे भीष्मं त्वरमाणं महारथम् ॥
पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः ।
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान् ॥
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः ।
मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत ॥
संग्रामे युध्यमानस्य शक्रचापोपमं महत् ॥
तदृष्ट्वा समरे कर्म पुत्रास्तव विशांपते ॥
विस्मायं परमं गत्वा पितामहमपूजयन् ।
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ॥
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्सनान्तरे ।
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।
पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत् ॥
कामं प्रहर वा मा वा न त्वां योत्स्ये कथंचन ।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः ।
उवाच भीष्मं समरे सृक्विणी परिलेलिहन् ॥
जानामि त्वां महाबाहो क्षत्रियाणां भयंकरम् ।
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥
दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः ।
जनन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ॥
अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम ॥
ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः ।
एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत्समाचर ॥
कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे ।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ॥
सञ्जय उवाच ।
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः ।
अविध्यत रणे भीष्मं प्रतुदन्वाक्यसायकैः ॥
तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः ।
कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ॥
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः ।
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥
न हि ते संयुगे पीडां शक्ताः कर्तुं महाबलाः ।
तस्मादद्य महाबाहो यत्नाद्भीष्यमभिद्रव ॥
अहत्वा समरे भीष्म यदि यास्यसि मारिष ।
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥
नावहास्या यथा वीर भवेम परमाहवे ।
तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥
कुरूंश्च सहितान्सर्वान्यतमानान्महारथान् ।
अहमावारयिष्यामि सावयस्व पितामहम् ॥
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।
चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम् ॥
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् ।
भगदत्तं तथा शूरं मागदं च महाबलम् ॥
सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम् ।
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ॥
अहमावारयिष्यामि वेलेव मकरालयम् । कुरूंश्च सहितान्सर्वान्युध्यमानान्महाबलान् ।
निवारयिष्यामि रणे साधयस्व पितामहम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे अष्टाधिकशततमोऽध्यायः ॥

6-108-43 कामं स्वच्छन्दम् । अभ्यस इति पाठे प्रक्षिप ॥ 6-108-49 सुदृष्टः क्रियतां न पुनर्द्रक्ष्यसि लोकमिममिति भावः ॥ 6-108-55 साधयस्वस्वीकुरु जहि वा ॥