अध्यायः 119

भीष्मनिपातः ॥ 1 ॥

सञ्जय उवाच ।
एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् ।
विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥
शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः ।
मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः ॥
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः ।
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः ॥
अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ।
स विशीर्णतनुत्रामाः पीडितो बहुभिस्तदा ॥
न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु ।
संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः ॥
नेमिनिर्ह्रादसंतापो महास्त्रोदयपावकः ।
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ॥
युगान्तागनिसमप्रख्यः परेषां समपद्यत ।
निवृत्य रथसङ्घानामन्तरेण विनिःसृतः ॥
दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन् ।
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ॥
पाण्डवानीकिनीमध्यमाससाद विशांपते ।
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् ॥
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ।
भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः ॥
षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तकैः शरैः ।
तस्य ते निशितान्बाणात्सन्निवार्य महारथाः ॥
दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ।
शिखण्डी तु महाबाणान्यान्मुमोच महारथः ॥
न चक्रुस्ते रुजं तस्य स्वर्मपुङ्खाः शिलाशिताः ।
ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत ॥
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ॥
द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ॥
सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ।
तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः ॥
अभिपेतुर्भृशं क्रुद्धाश्चादयन्तश्च पाण्डवम् ।
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति ॥
उद्धूतानां यथा शब्दः समुद्राणां युगक्षये ।
घ्नत त्वरत गृह्णीत विद्ध्यध्वमवकर्तत ॥
इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ।
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ॥
अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥
विराटद्रुषदौ चोभौ राक्षसश्च घटोत्कचः ।
अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्च्छिताः ॥
समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ।
तेषां समभवद्युद्धं तुमुलं रोमहर्षणम् ॥
संग्रमे भरतश्रेष्ठ देवानां दानवैरिव ।
शिखण्डी तु रणे श्रेष्ठो रक्ष्ममाणः किरीटिना ॥
अविध्यद्दशभिर्भीषअमं छिन्नधन्वानमाहवे ।
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् ।
तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फल्गुनः ॥
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः ।
धनुश्चिच्छेद भीष्मस्य सव्यसाची परंतपः ॥
स च्छिन्नधन्वा संक्रुद्धाः सृक्किणी परिसंलिहन् ।
शक्तिं जग्राह तरसा गिरीणामपि दारणीम् ॥
तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति ।
तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव ॥
समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ।
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ॥
संक्रुद्धो भरतश्रेष्ठ भीष्मवाहुप्रवेरिताम् ।
सा पपात तथा च्छिन्ना संक्रुद्धेन किरीटिना ॥
मेघबृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा । छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः ।
अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः ।
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ॥
यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः । `अजय्यश्चैव सर्वेषां लोकानामिति मे मतिः ।'
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान् ॥
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ।
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदवहम् ॥
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ।
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः ।
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥
यत्ते व्यवसितं तात तदस्माकमपि प्रियम् ।
तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय ॥
अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः ।
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥
देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः ।
पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष ॥
न च ताः शुश्रुवे कश्चित्तेषां संवदतां गिरः ।
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥
संभ्रमश्च महानासीत्रिदशानां विशांपते ।
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥
इति देवगणानां च वाक्यं श्रुत्वा महातपाः ।
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥
भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ।
शिखण्डी तु महाराज भरतानां पितामहम् ॥
आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ।
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः ॥
नाकम्पत महाराज क्षितिकम्पे यथाऽचलः ।
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः ॥
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः ॥
सर्वगात्रेषु संक्रुद्धस्तथा मर्मस्वताडयत् ।
एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः ॥
तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः ।
तैश्च मुक्ताञ्छरान्भीष्मो युधि सत्यपराक्रमः ॥
निवारयामास शरैः समं सन्नतपर्वभिः ।
शिखण्डी तु रणे बाणान्यान्मुमोच महारथः ॥
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलासिताः ।
ततः किरीटी संक्रुद्धो भीष्ममेवाभ्यवर्तत ॥
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।
अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥
सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ।
सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम् ॥
तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् ।
निमेषार्धेन कौन्तेय आत्तमात्तं महारणे ॥
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ ।
ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ॥
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः ।
शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे ॥
न चैष समरे शक्यो जेतुं वज्रभृता अपि ।
न चापि सहिता वीरा देवदानवराक्षसाः ॥
मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः । 6-119-58b`ऋतेऽर्जुनं सुसंक्रुद्धमेतत्सत्यं ब्रवीमि ते ॥'
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः ।
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥
ततो दुःशासनं भीष्मः स्मयमान इवाब्रवीत् ।
अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना ॥
वज्राशनिसमस्पर्शाः सुपुङ्खाः सुप्रतेजनाः ।
सुमुक्ता अव्यवच्छिन्ना नेमे बाणाःशिखण्डिनः ॥
निकृन्तमाना मर्माणि दृढावरणभेदिनः ।
सुसला इव मे ध्नन्ति नेमे बाणः शिखण्डिनः ॥
वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः ।
मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥
नाशयन्तीव मे प्राणान्यमदूता इवागताः ।
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥
भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः ।
समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
कृन्तन्ति मम गात्राणि माघमां सेगवा इव ॥
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाःक ।
वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥
इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम् ।
शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत ॥
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् ।
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् ।
खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा ॥
तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥
ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत् ।
अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ॥
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः ।
पट्टसैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः ॥
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः ।
सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा ॥
तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः ।
तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे ॥
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह ।
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥
आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव ।
सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥
असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा ।
समं च विषमं चैव न प्राज्ञायत किंचन ॥
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि ।
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनुर्धरः ।
मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥
`तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम् । द्रावयामासुरिषुभिः सर्वान्भीष्मपदानुगान् ॥'
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् ।
पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा ॥
`पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना ।
धृष्टद्युम्नसुखैः सर्वैः पाञ्चालैश्च समन्ततःक ॥
भिद्यमानाः शरैस्तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः । द्रोणद्रौणिकृतैः सार्धं सर्वे शल्यशलादयः ।
तावकाः समरे राजञ्जहुर्भीष्मं महामृधे ॥'
सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥
साल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह । द्वादशैते जनपदाः शरार्ता व्रणपीडिताः ।
संग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना ॥
ततस्तमेकं बहवः परिवार्य समन्ततः ।
परिकाल्य कुरून्सर्वाञ्शरर्षैरवाकिरन् ॥
निपातयत गृह्णीत युध्यध्वमवकृन्तत ।
इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥
निहत्य समरे राजञ्शतशोऽथ सहस्रशः ।
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ॥
एवंभूतस्तव पिता शरैर्विशकलीकृतः ।
शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ॥
किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ।
हाहेति दिवि देवानां पार्थिवानां च भारत ॥
पतमाने रथाद्भीष्मे बभूव सुमहास्वनः ।
संपतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ॥
सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ।
स पपात महाबाहुर्वसुधामनुनादयन् ॥
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ।
धरणीं न स पस्पर्श शरसङ्घैः समावृतः ॥
शलतल्पे महेष्वासं शयानं पुरुषर्षभम् ।
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥
अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी ।
पतन्स ददृशे चापि दक्षिणेन दिवाकरम् ॥
संज्ञां चोपालभद्वीरः कालं संचिन्त्य भारत ।
अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः ॥
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः ।
कालकर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ॥
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् ।
धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले ॥
उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया ।
तस्य तन्मतमाज्ञाय गह्गा हिमवतः सुताः ॥
महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ।
ततस्तं प्रति ते हंसास्त्वरिता मानसौकसः ॥
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ।
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥
ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः ।
अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम् ॥
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् ।
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः ।
भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने ॥
इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम् ।
संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥
तानब्रवीच्छान्तनवो नाहं गन्ता कथंचन ।
दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ॥
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् ।
उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः ॥
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया ।
प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम ॥
तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ।
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ॥
छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे ।
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ॥
इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः ।
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ॥
पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ।
तस्मिन्हते महासत्वे भरतानां पितामहे ॥
न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ।
संमोहश्चैव तुमुलः करूणामभवत्तदा ॥
कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः ।
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥
दध्युश्चैव महाराज न युद्धे दधिरे मनः ।
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि । `दुःखार्तास्ते ततो राजन्कुरूणां पतयोऽभवन् ।'
अभाव सहसा राजन्कुरुराजस्य तर्कितः ॥
हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः ।
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥
पाणडवाश्च जयं लब्ध्वा परत्र च परां गतिम् ।
सर्वे दध्युर्महाशङ्खञ्शूराः परिघवाहवः ॥
सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर ।
ततस्तूर्यसहस्रेषु नदत्सु स महाबलः ॥
आस्फोटयामास भृशं भीमसेनो ननाद च ।
सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ ॥
संन्यस्य विराः शस्त्राणि प्राध्यायन्त समन्ततः ।
प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्मोहं तथाऽपरे ॥
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन् ।
ऋषयः पितरश्चैव प्रशशसुर्महाव्रतम् ॥
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ।
महोपनिषदं चैव योगमास्थाय विर्यवान् ॥
जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः ॥

6-119-26 आत्तमात्तं गृहीतं गृहीतम् ॥ 6-119-37 व्यवसितं निश्चितम् ॥ 6-119-38 निधने समाप्तौ ॥ 6-119-40 मुनितेजसा व्यासप्रभावेन ॥ 6-119-61 अव्यवच्छिन्नाः संतताःच ॥ 6-119-66 माघमा कर्कटी प्रोक्ता तदपत्यं तु सेगवा । यथा माघमां कर्कटी मातरं सेगवास्तदपत्यानि कृन्तन्ति उदरस्थान्यपत्यानि पृष्ठं विदार्य वहिर्नर्गच्छन्ति तद्वदित्यर्थः । तेन प्राणापहारिवेदनाजनकत्वं बामानां नेदं शिखण्डिबाणेषु संभवति । तेषां मदङ्गे पुष्पतुल्यत्वात् ॥ 6-119-70 अग्रे तेषाम् । मृत्योरिति चतुर्थ्यर्थे षष्ठी । मृत्यवे इत्यर्थः ॥ 6-119-86 प्राणपीडिता इति कo घo पाठः ॥ 6-119-97 कालं मृत्युम् ॥ 6-119-104 दक्षिणेन दक्षिणमार्गस्थं भास्करं च दृष्ट्वेत्यन्वयः ॥ 6-119-105 संस्थाता मरिष्यति ॥ 6-119-109 ऐश्वर्यं स्वसामर्थ्यं स्वच्छन्दमृत्युत्वात् ॥