अध्यायः 008

मेरोरुत्तरभागस्थखण्डत्रयवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
वर्षाणां चैव नामानि पर्वतानां च संजय ।
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥
संजय उवाच ।
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु ।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥
शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः ।
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥
दशवर्षसहस्राणि शतानि दश पञ्च च ।
जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु ।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥
यत्र चायं महाराज पक्षिराट् पतगोत्तमः ।
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ॥
महाबलास्तत्र जना राजन्मुदितमानसाः ।
एकादशसहस्राणि वर्षाणां ते जनाधिप ॥
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च ।
श्रृङ्गाणि वै श्रृङ्गवतस्त्रीण्येव मनुजाधिप ॥
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।
तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ॥
उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप ।
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः ।
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ।
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः ।
देवलोकच्युताः सर्वे तथा विरजसो नृप ॥
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप ।
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ॥
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ।
हरिर्वसति वैकुण्ठः शकटे कनकोञ्ज्वले ॥
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ।
अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ॥
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ ।
संक्षेपो विस्तरश्चैव कर्ता कारयिता तथा ॥
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव ।
स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ॥
वैशंपायन उवाच ।
एवमुक्तः संजयेन धृतराष्ट्रो महामनाः ।
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः ।
असंशयं सूतपुत्र कालः संक्षिपते जगत् ॥
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ।
नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ॥
देवा वैकुण्ठ इत्याद्दुर्वेदा विष्णुरिति प्रभुम् ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण़्डविनिर्माणपर्वणि अष्टमोऽध्यायः ॥

6-8-2 यत्पूर्वं श्वेतवर्षमित्युक्तं तस्यैव रमणकमिति संज्ञान्तरम् ॥ 6-8-8 शृङ्गवतः षष्ठस्य वर्षपर्वतस्य ॥ 6-8-10 शृङ्गस्य शृङ्गवतः ॥ 6-8-13 अनिष्पन्दा अश्वेदाः । देवतुल्या इत्यर्थः ॥