अध्यायः 020

कुरुसेनागमनप्रकारवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।

सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् ।
मामका वा भीष्मनेत्राः समीपे पाण्डवा वा भीमनेत्रास्तदानीम् ॥
केषां जघन्यौ समसूर्यौ सवायू केषां सेनां श्वापदाश्चाभषन्त ।
केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥
सञ्जय उवाच ।
उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र ।
उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे ॥
उभे सेने बृहत्यौ भीमरूपे तथैवोभे भारत दुर्विषह्ये ।
तथैवोभे स्वर्गजयाय सृष्टे तथैवोभे सत्पुरुषोपजुष्टे ॥
पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः ।
दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् ॥
शीतो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याहरन्त ।
गजेन्द्राणां मदगन्धांश्च तीव्रा- न्न सेहिरे तव पुत्रस्य नागाः ॥
दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्षं जालवन्तं प्रभिन्नम् ।
समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च ॥
चन्द्रप्रभं श्वेतमथातपत्रं सौवर्णस्रग्भ्राजति चोत्तमाङ्गे ।
तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैर्याति गान्धारराजः ॥
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सखङ्गः ।
श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशैः ॥
तस्य सैन्ये धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च ।
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धो- स्तथा सौवीराः पञ्चनदाश्च शूराः ॥
शोणैर्हयै रुक्मरथो महात्मा द्रोणो धनुष्पाणिरदीनसत्वः ।
आप्तो गुरुः प्रथितः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभियाति ॥
वार्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च ।
साल्वा मत्स्याः केकयाश्चेति सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः ॥
शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी ।
शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभियाति ॥
महारथैर्वष्णिभोजैः सुगुप्तं सुराष्ट्रकैर्विदितैरात्तशस्त्रैः ।
बृहद्बलं कृतवर्माभिगुप्तं बलं त्वदीयं दक्षिणेनाभियाति ॥
संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः ।
येनार्जुनस्तेन राजन्कृतास्त्राः प्रयातारस्ते त्रिगर्ताश्च शूराः ॥
साग्रं शतसहस्रं तु नागानां तव भारत ।
नागेनागे रथशतं शतमश्वा रथेरथे ॥
अश्वेऽश्वे दश धानुष्का धानुष्के शत चर्मिणः ।
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥
संव्यूह्य मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ॥
महारथौघविपुलः समुद्र इव घोषवान् ।
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥
अनन्तरूपा ध्वजिनी नरेन्द्र भीमा त्वदीया न तु पाण्डवानाम् ।
तां चैव मन्ये बृहतीं दुष्प्रघर्षां यस्या नेता केशवश्चार्जुनश्च ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि विंशोऽध्यायः ॥

6-20-1 भीष्मो नेत्रः नेता येषां ते भीष्मनेत्राः ॥ 6-20-15 येन यत्र । तेन तत्र ॥ 6-20-20 अनन्तरूपा वह्वी त्वदीया नतु पाण्डवानां सेना वह्वी । तथापि तां बृहतीमेव मन्ये इति संबन्धः ॥