अध्यायः 052

युधिष्ठिराश्वासनाय व्यासेन तम्प्रति अकम्पनोपाख्यानकथनोपक्रमः ॥ 1 ॥

सञ्जय उवाच ।
एवं विलपमाने तु कुन्तीपुत्रे युधिष्ठिरे ।
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः ॥
अथ दृष्ट्वा महात्मानं पाण्डुपुत्रो युधिष्ठिरः ।
युक्तासनो दीनमनाः पूजां चक्रे महात्मनः ॥
अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः ।
अब्रवीच्छोकसन्तप्तो भ्रातुः पुत्रवधेन च ॥
अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः ।
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे ॥
बालश्च बालबुद्धिश्च वीरश्च परवीरहा ।
अनुपायेन सङ्ग्रामे युध्यमानो विनाशितः ॥
मया प्रोक्तः स सङ्ग्रामे द्वारं सञ्जनयस्व नः ।
प्रविष्टेऽभ्यन्तरे तस्मिन्सैन्धवेन निवारिताः ॥
ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः ।
इदं चैवासमं युद्धमीदृशं यत्कृतं परैः ॥
तेनास्मि भृशसन्तप्तः शोकबाष्पसमाकुलः ।
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः ॥
सञ्जय उवाच ।
तं तथा विलपन्तं वै शोकव्याकुलमानसम् ।
उवाच सान्त्वयन्व्यासो युधिष्ठिरमिदं वचः ॥
व्यास उवाच ।
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ ॥
स्वर्गमेष गतः शूरः शत्रून्हत्वा बहून्रणे ।
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः ॥
अनतिक्रमणीयो वै विधिरेष युधिष्ठिर ।
देवदानवगन्धर्वान्मूत्युर्हरति भारत ॥
युधिष्ठिर उवाच ।
इमे वै पृथिवीपालाः शेरते पृथिवीतले ।
निहताः पृतनामध्ये मृतसंज्ञा महाबलाः ॥
नागायुतबलाश्चान्ये वायुवेगबलास्तथा ।
त एते निहताः सङ्ख्ये तुल्यरूपा नरैर्नराः ॥
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित् ।
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः ॥
जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम् ।
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः ॥
मृता इति च शब्दोयं वर्तते च ततोऽर्थवत् ।
इमे मृता महीपालाः प्रायशो भीमविक्रमाः ॥
निश्चेष्टा निरभीमानाः शूराः शत्रुवशंगताः ।
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः ॥
अत्र मे संशयः प्राप्तः कुतः संज्ञा मृता इति । कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः ।
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह ॥
सञ्जय उवाच ।
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम् ।
आश्वासनमिदं वाक्यमुवाच भगवानृषिः ॥
व्यास उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अकम्पनस्य कथितं नारदेन पुरा नृप ॥
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम् ।
अप्रसह्यतमं लोके प्राप्तवानिति नः श्रुतम् ॥
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम् ।
ततस्त्वं मोक्ष्यसे दुःखात्स्नेहबन्धनसंश्रयात् ॥
समस्तपापराशिघ्नं शृणु कीर्तयतो मम ।
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम् ॥
पवित्रमरिसङ्घघ्नं पङ्गलानां च मङ्गलम् ।
यथैव वेदाध्ययनमुपाख्यानमिदं तथा ॥
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः ।
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा ॥
पुरा कृतयुगे तात आसीद्राजा ह्यकम्पनः । स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि ।
`योधयामास बलवान्बद्धश्चासीदकम्पनः' ॥
तस्य पुत्रो हरिर्नाम नारायणसमो बले ।
श्रीमान्कृतास्त्रो मेधावी युधि शक्रोपमो बली ॥
`स दृष्ट्वा पितरं युद्धे तदवस्थं महाद्युतिः ।
अचिन्तयित्वा मरणं शत्रुमध्यं ततोऽविशत् ॥
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि ।
योधयामास तान्सर्वान्सर्वास्त्रकुशलो बली ॥
वर्षन्बाणसहस्राणि शत्रुष्वमितविक्रमः ।
पदातिरथनागाश्वान्प्रममाथ महाबलः ॥
स शरैराचितश्चक्रैर्गदाभिर्मुसलैरपि ।
मृद्गन्रथसहस्राणि पदातीन्वाजिवारणान् ॥
परानीकं विभिद्याजौ मोक्षयित्वा च तं नृपम् ।
पुनरेवाकरोद्युद्धं शत्रुमध्यगतो बली ॥
ततस्ते रथिनः सर्वे समेत्य पुनराहवे ।
जघ्नुस्तं परिवार्यैकं तोमरैरिव कुञ्जरम्' ॥
स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः ।
शत्रुभिर्निहतः सङ्ख्ये पृतानायां युधिष्ठिर ॥
द्विषद्भिर्निहतं दृष्ट्वा प्रियं पुत्रमकम्पनः ।
अमर्षजनितक्रोध आहवात्सहसाऽऽगतः ॥
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः ।
शोचन्नहनि रात्रौ च नालभत्सुखमात्मनः ॥
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम् ।
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः ॥
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम् ।
पूजयित्वा यथान्यायं कथामकथयत्तदा ॥
तस्य सर्वं समाचष्ट यथावृत्तं युधिष्ठिर ।
शत्रुभिर्विजयं सङ्ख्ये पुत्रस्य च वधं तथा ॥
अकम्पन उवाच ।
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः ।
शत्रुभिर्बहुभिः सङ्ख्ये पराक्रम्य हतो बली ॥
शृणु मे प्राणिनां चापि मृत्युः प्रभवते किल । क एष मृत्युर्भगवन्किंवीर्यबलपौरुषः ।
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर ॥
व्यास उवाच ।
तस्य तद्वचनं श्रुत्वा नारदो वरदः प्रभुः ।
आख्यानमिदमाचष्ट पुत्रशोकापहं महत् ॥
नारद उवाच ।
शृणु राजन्महाबाहो आख्यानं बहुविस्तरम् ।
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥
प्रजाः सृष्टा तदा ब्रह्मा आदिसर्गे पितामहः ।
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः ॥
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव ।
चिन्तयन्न ह्यसौ देव संहारं वसुधाधिप ॥
तस्य रोषान्महाराज मुखेभ्योऽग्निरजायत ।
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता ॥
ततो दिवं भुवं चैव ज्वालामालासमाकुलम् ।
चारचरं जगत्सर्वं ददाह भगवान्प्रभुः ॥
ततो हतानि भूतानि चराणि स्थावराणि च । महता क्रोधवेगेन त्रासयन्निव वीर्यवान् ।
ततो रुद्रो जटी स्याणुर्निशाचरपतिर्हरः ।
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम् ॥
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया ।
अब्रवीत्परमो देवो ज्वलन्निव महामुनिः ॥
किं कर्म कामं कामार्ह कामाज्जातोऽसि पुत्रक ।
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥

5-52-6 द्वारं सञ्जनयस्वेति मया उक्त इति सम्बन्धः । निवारितः तमनुप्रविशन्त इति शेषः ॥ 5-52-19 कस्य मृत्युः क इति शेषः ॥ 5-52-47 खेभ्य इति पाठे श्रोत्रादिच्छिद्रेभ्यः ॥ 5-52-52 द्विपञ्चाशत्तमोऽध्यायः ॥

श्रीः