अध्यायः 053

ब्रह्मरुद्रसंवादः ॥ 1 ॥ ब्रह्मणा प्रजासंहाराय मृत्युदेवीसर्जनम् ॥ 2 ॥

स्थाणुरुवाच ।
प्रजासर्गनिमित्तं हि कृतो यत्नस्त्वया विभो ।
त्वया सृष्टाश्च वृद्धाश्च भूतग्रामाः पृथग्विधाः ॥
तास्तवेह पुनः क्रोधात्प्रजा नश्यन्ति सर्वशः ।
ता दृष्ट्वा मम कारुण्यं प्रसीद भगवन्प्रभो ॥
ब्रह्मोवाच ।
संहर्तुं न च मे काम एतदेवं भवेदिति ।
पृथिव्या हितकामं तु ततो मां मन्युराविशत् ॥
इयं सन्ना तदा देवी भारार्ता समचूचुदत् ।
संहारार्थं महादेव भारेणाभिहता सती ॥
ततोऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन् ।
संहारमप्रमेयस्य ततो मां मन्युराविशत् ॥
रुद्र उवाच ।
संहारार्थं प्रसीदस्व मारुषो वसुधाधिप ।
मा प्रजाः स्थावराश्चैव जङ्गमाश्च व्यनीनशः ॥
तव प्रसादाद्भगवन्निदं वर्तेत्त्रिधा जगत् ।
अनागतमतीतं च यच्च सम्प्रति वर्तते ॥
भगवन्क्रोधसन्दीप्तः क्रोधादग्निमवासृजत् ।
स दहत्यश्मकूटानि द्रुमांश्च सरितस्तथा ॥
पल्वलानि च सर्वाणि सर्वै चैव तृणोलपाः ।
स्थावरं जङ्गमं चैव निःशेषं कुरुते जगत् ॥
तदेतद्भस्मसाद्भूतं जगत्स्थावरजङ्गमम् ।
प्रसीद भगवन्स त्वं रोषो न स्याद्वरो मम ॥
सर्वे हि सृष्टा नश्यन्ति तव देव कथंचन ।
तस्मान्निवर्ततां तेजस्त्वय्येवेदं प्रलीयताम् ॥
उपायमन्यं सम्पश्य प्रजानां हितकाम्यया ।
यथेमे प्राणिनः सर्वे निर्वर्तेरंस्तथा कुरु ॥
अभावं नेह गच्छेयुरुत्सन्नजननाः प्रजाः । भवता हि नियुक्तोऽहं प्रानां पालने विभा ।
दया ते न समुत्पन्ना प्रजासु विबुधेश्वर ॥
मा विनश्येज्जगन्नाथ जगत्स्थावरजङ्गमम् ।
प्रसादाभिमुखं देवं तस्मादेवं ब्रवीम्यहम् ॥
नारद उवाच ।
श्रुत्वा हि वचनं देवः प्रजानां हितकारणे ।
तेजः सन्धारयामास पुनरेवान्तरात्मनि ॥
ततोऽग्निमुपसंहृत्य भगवाँल्लोकसत्कृतः ।
प्रवृत्तं च निवृत्तं च कल्पयामास वै प्रभुः ॥
उपसंहरतस्तस्य तमग्निं रोषजं तथा ।
प्रादुर्बभूव विश्वेभ्यो गोभ्योनारी महात्मनः ॥
कृष्णरक्ता तथा पिङ्गा रक्तजिह्वास्यलोचना ।
कुण्डलाभ्यां च राजेन्द्र तप्ताभ्यां तप्तभूषणा ॥
सा निःसृत्य तथा खेभ्यो दक्षिणां दिशमाश्रिता ।
स्मयमाना च साऽवेक्ष्य देवौ विश्वेश्वरावुभौ ॥
`तां तु तत्र तदा देवीं ब्रह्मा लोकपितामहः । उक्तवान्मधुरं वाक्यं सान्त्वयित्वा पुनः पुनः' ।
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥
त्वं हि संहारबुद्ध्याऽथ प्रादुर्भूता रुषो मम ।
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥
अविशेषेण चैव त्वं प्रजाः संहर भामिनि ।
मम त्वं हि नियोगेन ततः श्रेयो ह्यवाप्स्यासि ॥
नारद उवाच ।
एवमुक्ता तु सा तेन मृत्युः कमललोचना ।
प्रारुदद्भृशसंविग्ना प्रापतन्नश्रुबिन्दवः ॥
पाणिभ्यां प्रतिजग्राह तान्यश्रूणि पितामहः ।
सर्वभूतहितार्थाय तां चाप्यनुनयत्तदा ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रिपञ्चाशत्तमोऽध्यायः ॥ 53 ॥

5-53-2 कारुण्यं जातमिति शेषः ॥ 5-53-5 अप्रमेयस्यानन्तस्य जगत इति शेषः । अहिंस्यस्येतिवार्थः ॥ 5-53-6 संहारार्थं मारुषः रोषं माकार्षीः किन्तु प्रसीदस्व ॥ 5-53-10 तव रोषो न स्यादिति मम मह्यं वरोऽस्त्विति योजना ॥ 5-53-13 उत्सन्नजननाः प्रक्षीणसन्तानाः ॥ 5-53-16 प्रवृत्तं कर्म सृष्टिहेतुम् । निवृत्तं कर्म मोक्षहेतुम् ॥ 5-53-17 गोभ्य इन्द्रियच्छिद्रेभ्यः ॥ 5-53-19 देवौ ब्रह्मरुद्रौ ॥ 5-53-20 मरुणं मृत्प्राणवियोगस्तमन्यस्येच्छतीति मृत्युरित्मर्थः । इति आहेति शेषः ॥ 5-53-21 रुषो रोषात् ॥ 5-53-53 त्रिपञ्चाशत्तमोऽध्यायः ॥

श्रीः