अध्यायः 054

नारदेन मृत्युब्रह्मसंवादकथनेन अकम्पनस्य शोकपरिहरणम् ॥ 1 ॥ व्यासेनाकम्पनोपाख्यानकथनात् युधिष्ठिरस्य शोकापनोदनम् ॥ 2 ॥

नारद उवाच ।
विनीय दुःकमबला आत्मन्येव प्रजापतिम् ।
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता पुनः ॥
मृत्युरुवाच ।
त्वया सृष्टा कथं नारी ईदृशी वदतां वर ।
क्रूरं कर्माहितं कुर्यां मूढेव परिजानती ॥
बिभेम्यहमधर्माद्धि प्रसीद भगवन्प्रभो ।
प्रियान्पुत्रान्वयस्यांश्च भातृन्मातॄः पितॄन्पतीन् ॥
अपध्यास्यन्ति ये देव मृतांस्तेभ्यो बिभेम्यहम् ।
कृपणानां हि रुदतां ये पतन्त्यश्रुबिन्दवः ॥
तेभ्योऽहं भगवन्भीता शरणं त्वाऽहमागता ।
यमस्य भवनं देव गच्छेयं न सुरोत्तम ॥
कायेन विनयोपेता मूर्ध्नोदग्रनखेन च ।
एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह ॥
इच्छेयं त्वत्प्रसादाद्धि तपस्तप्तुं प्रजेश्वर ।
प्रदिशेमं वरं देव त्वं मह्यं भगवन्प्रभो ॥
त्वया ह्युक्ता गमिष्यामि धेनुकाश्रममुत्तमम् ।
तत्र तप्स्ये तपस्तीत्रं तवैवाराधने रता ॥
न हि शक्ष्यामि देवेश प्राणान्प्राणभृतां प्रियान् ।
हर्तुं विलपमानानामधर्मादभिरक्ष माम् ॥
ब्रह्मोवाच ।
मृत्यो सङ्कल्पिताऽसि त्वं प्रजासंहारहेतुना ।
गच्छ संहर सर्वास्त्वं प्रजा मा ते विचारणा ॥
भविता त्वेतदेवं हि नैतज्जात्वन्यथा भवेत् ।
भव त्वनिन्दिता लोके कुरुष्व वचनं मम ॥
नारद उवाच ।
एवमुक्ता भगवता प्राञ्जलिश्चाप्यवाङ्मुखी ।
संहारे नाकरोद्बुद्धिं प्रजानां हितकाम्यया ॥
तूष्णीमासीत्तदा देवः प्रजानामीश्वरेश्वरः ।
प्रसादं चागमत्क्षिप्रमात्मनैव प्रजापतिः ॥
स्मयमानश्च देवेशो लोकान्सर्वानवेक्ष्य च ।
लोकास्त्वासन्यथापूर्वं दृष्टास्तेनापमन्युना ॥
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।
सा कन्याऽपि जगामाऽथ समीपात्तस्य धीमतः ॥
अपमृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।
त्वरमाणा च राजेन्द्र मृत्युर्धेनुकमभ्यगात् ॥
सा तत्र परमं तीव्रं चचार व्रतमुत्तमम् ।
सा तद ह्येकपादेन तस्थौ पद्मानि षोडश ॥
पञ्च चाब्दानि कारुण्यात्प्रजानां तु हितैषिणी ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सा ॥
ततस्त्वेकेन पादेन पुनरन्यानि सप्त वै ।
तस्थौ पद्मानि षट् चैव सप्त चैकं च पार्थिवा ॥
ततः पद्मायुतं तात मृगैः सह चचार सा ।
पुनर्गत्वा ततो नन्दां पुण्यां शीतामलोदकाम् ॥
अप्सु वर्षसहस्राणि सप्त चैकं च साऽनयत् ।
धारयित्वा तु नियमं नन्दायां वीतकल्मषा ॥
सा पूर्वं कौशिकीं पुण्यां जगाम नियमैधिता ।
तत्र वायुजलाहारा चचार नियमं पुनः ॥
सप्तगङ्गासु सा पुण्या कन्या वेतसकेषु च ।
तपोविशेषैर्बहुभिः कर्षयद्देहमात्मनः ॥
ततो गत्वा तु सा गङ्गां महामेरुं च केवलम् ।
तस्थौ चाश्मेव निश्चेष्टा प्राणायामपरायणा ॥
पुनर्हिमवतो मूर्ध्नि यत्र देवाः पुराऽयजन् ।
तत्राङ्गुष्ठेन सा तस्थौ निखर्वंल परमा शुभा ॥
पुष्करेष्वथ गोकर्णे नैमिषे मलये तथा ।
अकर्शयत्स्वकं देहं नियमैर्मानसप्रियैः ॥
अनन्यदेवता नित्यं दृढभक्ता पितामहे ।
तस्थौ पितामहं चैव तोषयामास धर्मतः ॥
ततस्तामब्रवीत्प्रीतो लोकानां प्रभवोऽव्ययः ।
सौम्येन मनसा राजन्प्रीतः प्रीतमनास्तदा ॥
मृत्यो किमिदमत्यन्तं तपांसि चरसीति ह ।
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ॥
नाऽहं हन्यां प्रजा देव स्वस्थाश्चाक्रोशतीस्तथा ।
एतदिच्छामि सर्वेश त्वत्तो वरमहं प्रभो ॥
अधर्मभयभीताऽस्मि ततोऽहं तप आस्थिता ।
भीतायास्तु महाभाग प्रयच्छाभयमव्यय ॥
आर्ता चानागसी नारी याचामि भव मे गतिः ।
तामब्रवीत्ततो देवो भूतभव्यभविष्यवित् ॥
अधर्मो नास्ति ते मृत्यो संहरन्त्या इमाः प्रजाः ।
मया चोक्तं मृषा भद्रे भविता न कथञ्चन ॥
तस्मात्संहर कल्याणि प्रजाः सर्वाश्चतुर्विधाः ।
धर्मः सनातनश्च त्वां सर्वथा पावयिष्यति ॥
लोकपालो यमश्चैव सहाया व्याधयश्च ते ।
अहं च विबुधाश्चैव पुनर्दास्याम ते वरम् ॥
यथा त्वमेनसा मुक्ता विरजाः ख्यातिमेष्यसि ।
नारद उवाच ।
सैवमुक्ता महाराज कृताञ्जलिरिदं विभुम् ।
पुनरेवाब्रवीद्वाक्यं प्रसाद्य शिरसा तदा ।
यद्येवमेतत्कर्तव्यं धर्मतो नास्त्यतो भयम् ॥
तवाज्ञा मूर्ध्नि मे न्यस्ता यत्ते वक्ष्यामि तच्छृणु ।
लोभः क्रोधोऽभ्यसूयेर्ष्या द्रोहो मोहश्च देहिनां ॥
अहूश्चान्योन्यपरुषा देहं भिन्द्युः पृथिग्वधाः ।
ब्रह्मोवाच ।
तथा भविष्यते मृत्यो साधु संहर भोः प्रजाः ।
अधर्मस्ते न भविता नापध्यास्याम्यहं शुभे ॥
यान्यश्रुबिन्दूनि करे ममासं-- स्ते व्याधयः प्राणिनामात्मजाताः ।
ते मारयिष्यन्ति नरान्गतासू-- न्नाधर्मस्ते भविता मा स्म भैषीः ॥
नाधर्मस्ते भविता प्राणिनां वै त्वं वै धर्मस्त्वं हि धर्मस्य चेशा ।
धर्म्या भूत्वा धर्मनित्या धरित्री तस्मात्प्राणान्सर्वथेमान्नियच्छ ॥
`प्राप्ता तथा नो भविता कदाचि-- देवं मयाद्यैव नियोज्यसे त्वम्' ।
सर्वेषां वै प्राणिनां कामरोषौ सन्त्यज्य त्वं संहरस्वेह जीवान् । येषां धर्मास्ते भविष्यन्त्यनन्ता मिथ्यावृत्तं मारयिष्यत्यधर्मः ॥
तेनात्मानं पावयस्वात्मना त्वं पापेऽऽत्मानं मज्जयिष्यन्त्यसत्यात् ।
तस्मात्कामं रोषमप्यागतं त्वं सन्त्यज्यान्तः संहरस्वेति जीवान् ॥
नारद उवाच ।
सा वै भीमा मृत्युसंज्ञोपदेशा-- च्छापाद्भीता बाढमित्यब्रवीत्तम् ।
सा च प्राणं प्राणिनामन्तकाले कामक्रोधौ त्यज्य हरत्यसक्ता ॥
मृत्युस्त्वेषां व्याधयस्तत्प्रसूता व्याधी रोगो रुज्यते येन जन्तुः ।
सर्वेषां च प्राणिनां प्रायणान्ते तस्माच्छोकं माकृथा निष्फलं त्वम् ॥
सर्वे देवाः प्राणिभिः प्रायणान्ते गत्वा वृत्ताः सन्निवृत्तास्तथैव ।
एवं सर्वे प्राणिनस्तत्र गत्वा वृत्ता देवा मर्त्यवद्राजसिंह ॥
वायुर्भीमो भीमनादो महौजा भेत्ता देहान्प्राणिनां सर्वगोऽसौ ।
नो वा वृत्तिं कदाचि-- त्प्राप्नोत्युग्रोऽनन्ततेजोविशिष्टः ॥
सर्वे देवा मर्त्यसंज्ञाविशिष्टा-- स्तस्मात्पुत्रं माशुचो राजसिंह ।
स्वर्गं प्राप्तो मोदते ते तनूजो नित्यं रम्यान्वीरलोकानवाप्य ॥
त्यक्त्वा दुःखं सङ्गतः पुण्यकृद्भि-- रेषा मृत्युर्देवदिष्टा प्रजानाम् ।
प्राप्ते काले संहरन्ती यथाव-- त्स्वयं कृता प्राणहरा प्रजानाम् ॥
आत्मानं वै प्राणिनो घ्नन्ति सर्वे नैतान्मृत्युर्दण्डपाणिर्हिनस्ति ।
तस्मान्मृतान्नानुशोचन्ति धीरा मृत्युं ज्ञात्वा निश्चयं ब्रह्मसृष्टम् । इत्थं सृष्टिं देवक्लृप्तां विदित्वा पुत्रान्नष्टाच्छोकमाशु त्यजस्व ॥
द्वैपायन उवाच ।
एतच्छ्रुत्वार्थवद्वाक्यं नारदेन प्रकाशितम् ।
उवाचाकम्पनो राजा सखायं नारदं तथा ॥
व्यपेतशोकः प्रीतोऽस्मि भगवन्नृषिसत्तम ।
श्रुत्वेतिहासं त्वत्तस्तु कृतार्थोऽस्म्यभिवादये ॥
तथोक्तो नारदस्तेन राज्ञा देवर्षिसत्तमः ।
जगाम नन्दनं शीघ्रमशोकवनमात्मनः ॥
पुण्यं यशस्यं स्वर्ग्यं च धन्यमायुष्यमेव च ।
अस्येतिहासस्य सदा श्रवणं श्रावणं तथा ॥
एतदर्थपदं श्रुत्वा तदा राजा युधिष्ठिर । क्षत्रधर्मं च विज्ञाय शूराणां च परां गतिम् ।
सम्प्राप्तोऽसौ महावीर्यः स्वर्गलोकं महारथः ॥
अभिमन्युः परान्हत्वा प्रमुखे सर्वधन्विनाम् ।
युध्यमानो महेष्वासो हतः सोऽभिमुखो रणे ॥
असिना गदया शक्त्या धनुषा च महारथः ।
विरजाः सोमसूनुः स पुनस्तत्र प्रलीयते ॥
तस्मात्परां धृतिं कृत्वा भ्रातृभिः सह पाण्डव ।
अप्रमत्तः सुसन्नद्धः शीघ्रं योद्धुमुपाक्रम ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥

5-54-6 उदग्रनखेन अञ्जलिना । विनयोपेता शरणागतास्मीत्यर्थः ॥ 5-54-14 अपमन्युना गतामर्षेणेत्यर्थः ॥ 5-54-16 अप्रतिश्रुत्यानङ्गीकृत्य ॥ 5-54-17 पद्मं शतं कोठ्यो वर्षाणि तानि षोडश पञ्च च ॥ 5-54-39 अन्योन्यपरुषा वागिति शेषः ॥ 5-54-45 प्रायणान्ते आयुष्यकर्मणोऽवसाने ॥ 5-54-46 सर्वे इति । देवा इन्द्रियाणि । प्राणिभिः जीवैः) सह । गत्वा तत्रैव परलोके । वृत्ता वृत्तवन्तः । पुनर्भूत्वा सन्निवृत्ता भवन्ति । मर्त्यभावार्था एव देवा इन्द्रादयः मर्त्यवदेव गत्वा वृत्ता भवन्ति नतु निवृत्ता भवन्ति मर्त्यभावाय । कर्मदेवा एव निवर्तन्ते नत्वाजानदेवास्तेषां क्रममुक्तियोग्यत्वादिति भावः ॥ 5-54-48 सर्वेदेवा इति । मर्त्यत्वं मरणधर्मत्वं ब्रह्मादीनामपि स्वाभाविकमस्त्यतोऽनर्थकः शोक इत्यर्थः ॥ 5-54-49 स्वयमेव स्वस्य मृत्युः अथापि जनानां प्राणहरा मृत्युर्जनादन्येति कल्पना कृता अनभिज्ञैरिति शेषः ॥ 5-54-50 नष्टात जातमिति शेषः ॥ 5-54-53 चतुःपञ्चाशत्तमोऽध्यायः ॥ 54 ॥

श्रीः