अध्यायः 055

व्यासेन युधिष्ठिरं प्रति षोडशराजकीयाख्यानकथनप्रारम्भः ॥ 1 ॥ नारदेन सृञ्जयम्प्रति मरुत्तराजचरितकथनम् ॥ 2 ॥

सञ्जय उवाच ।
श्रुत्वा मृत्युसमुत्पत्तिं कर्माण्यनुपमानि च ।
धर्मराजः पुनर्वाक्यं प्रसाद्यैनमथाब्रवीत् ॥
युधिष्ठिर उवाच ।
गुरवः पुण्यकर्माणः शक्रप्रतिमविक्रमाः ।
पूर्वं राजर्षयो ब्रह्मन्कियन्तो मृत्युना हताः ॥
भूय एव तु मां तथ्यैर्वचोभिरभिबृंहय ।
राजर्षीणां पुराणानां समाश्वासय कर्मभिः ॥
कियन्त्यो दक्षिणा दत्ताः काश्च दत्ता महात्मभिः ।
राजर्षिभिः पुण्यकृद्भिस्तद्भवान्प्रब्रवीतु मे ॥
`व्यास उवाच ।
अन्येपि यज्वनां लोका अन्ये चापि तपस्विनाम् ।
क्षमावतां च त्रींल्लोकाञ्शूरा गच्छन्ति भारत ॥
क्षत्रियस्य तुं सङ्ग्रामे शत्रून्हत्वा हतस्य वा ।
फलमत्यन्तमित्याहुर्धर्मशास्त्रविदो जनाः ॥
वेदविद्याव्रतस्नाता यज्वानः पुत्रिणश्च ये ।
तेभ्यः परार्थ्या यज्वानो यज्वभ्यश्च तनुत्यजः ॥
स वीरो यज्वनो नित्यं क्षत्रियानार्जुनिर्गतः ।
लोकान्पुण्यतमानिष्टानिति विद्धि विशाम्पते ॥
सर्वेषां नृपसिंहानां शृणु यज्ञान्नृपोत्तम ।
तानतिक्रम्य गच्छन्ति स्वर्गकामास्तनुत्यजः ॥
युधिष्ठिर उवाच ।
सर्वेषां यज्वनां यज्ञं श्रोतुमिच्छामि सुव्रत ।
दक्षिणाश्चानुरूपेभ्यो दत्ता राजर्षिसत्तमैः' ॥
व्यास उवाच ।
शैब्यस्य नृपतेः पुनः सृञ्जयो नाम नामतः ।
सखायौ तस्य चेवोभौ ऋषी पर्वतनारदौ ॥
तौ कदाचिद्गृहं तस्य प्रविष्टौ तद्दिदृक्षया ।
विधिवच्चार्चितौ तेन प्रीतौ तत्रोषतुः सुखम् ॥
तं कदाचित्सुखासीनं ताभ्यां सह शुचिस्मिता ।
दुहिताऽभ्यागमत्कन्या सृञ्जयं वरवर्णिनी ॥
तयाऽभिवादितः कन्यामभ्यनन्दद्यथाविधि ।
तत्सलिङ्गाभिराशीर्भिरिष्टाभिरभितः स्थिताम् ॥
तां निरीक्ष्याब्रवीद्वाक्यं पर्वतः प्रहसन्निव ।
कस्येयं चञ्चलापाङ्गी सर्वलक्षणसम्मता ॥
उषा स्विद्भाः स्विदर्कस्य ज्वलनस्य शिखापि वा ।
श्रीर्द्द्रिः कीर्तिंर्धृतिः षुष्टिः सिद्धिश्चन्द्रमसः प्रभा ॥
सञ्जय उवाच ।
एवं ब्रुवाणं देवर्षिं नृपतिः सृञ्जयोऽब्रवीत् ।
ममेयं भगवन्कन्या वर्या वरमभीप्सति ॥
नारदस्त्वब्रवीदेनं देहि मह्यमिमां नृप ।
भार्यार्थं सुमहच्छ्रेयः प्राप्तुं चेदिच्छसे नृप ॥
ददानीत्येवं संहृष्टः सृञ्जयः प्राह नारदम् ।
व्यास उवाच ।
`एवमुक्ते नृपतिना क्रोधपर्याकुलेक्षणः' ।
पर्वतस्तु सुसङ्क्रुद्धो नारदं वाक्यमब्रवीत् ॥
पूर्वं ममैव मनसा विद्धि भार्यां वृतामृषे ।
यस्मादपाचरस्तस्मात्स्वर्गं न गच्छसि ॥
एवमुक्तो नारदस्तं प्रत्युवाचोत्तरं वचः ।
मनोवाग्बुद्धिसम्भाषा सत्यं तोयमथाग्नयः ॥
पाणिग्रहममन्त्राश्च प्रथितं दारलक्षणम् ।
न त्वेषां निश्चिता निष्ठा त्वया सा मनसा स्मृता ॥
`एवं विद्वांस्तु मां यस्मादनुव्याहृतवानसि' । तस्मात्त्वमपि न स्वर्गं गमिष्यसि मया विना ।
अन्योन्यमेवं शप्त्वा वै तस्थतुस्तत्र तौ तदा ॥
अथ सोऽपि नृपो विप्रान्पानाच्छादनभोजनैः ।
पुत्रकामः परं शक्त्या यत्नाच्चोपाचरच्छुचिः ॥
तस्य प्रसन्ना विप्रेन्द्राः कदाचित्पुत्रदर्शिनः ।
तपःस्वाध्यायनिरता वेदवेदाङ्गपारगाः ॥
सहिता नारदं प्राहुर्देह्यस्मै पुत्रमीप्सितम् ।
तथेत्युक्त्वा द्विजैरुक्तः सृञ्जयं नारदोऽब्रवीत् ॥
तुभ्यं प्रसन्ना राजर्षे पुत्रमीप्सन्ति ब्राह्मणाः ।
वरं वृणीष्व भद्रं ते यादृशं पुत्रमीप्सितम् ॥
तथोक्तः प्राञ्जली राजा पुत्रं वव्रे गुणान्वितम् ।
यशस्विनं कीर्तिमन्तं तेजस्विनमरिन्दमम् ॥
यस्य मूत्रं पुरीषं च क्लेदः स्वेदश्च काञ्चनम् ।
`सर्वं भवेत्प्रसादाद्वै तादृशं तनयं वृणे ॥
व्यास उवाच ।
तथा भविष्यतीत्युक्ते जज्ञे तस्योप्सितः सुतः ।
काञ्चनस्याकरः श्रीमान्प्रसादाद्वै सुकाङ्क्षितः ॥
रुदितस्य च नेत्राभ्यामपतत्तस्य नेत्रजम् । मूत्रं पुरीषं स्वेदश्च सर्वं भवति काञ्चनम्' ।
सुवर्णष्ठीविरित्येव तस्य नामाभवत्कृतम् ॥
तस्मिन्वरप्रदानेन वर्धयत्यमितं धनम् ।
कारयामास नृपतिः सौवर्णं सर्वमीप्सितम् ॥
गृहप्राकारदुर्गाणि ब्राह्मणावसथान्यपि ।
शय्यासनानि यानानि स्थालीपिठरभाजनम् ॥
तस्य राज्ञोऽपि यद्वेश्म बाह्याश्चोपस्कराश्च ये ।
सर्वं तत्काञ्चनमयं कालेन परिवर्धितम् ॥
अथ दस्युगणाः श्रुत्वा दृष्ट्वा चैनं तथाविधम् ।
सम्भूय तस्य नृपतेः समारब्धाश्चिकीर्षितुम् ॥
केचित्तत्राब्रुवन्राज्ञः पुत्रं गृह्णीम वै स्वयम् ।
सोऽस्याकरः काञ्चनस्य तस्य यत्नं चरामहे ॥
ततस्ते दस्यवो लुब्धाः प्रविश्य नृपतेर्गृहम् ।
राजपुत्रं तथाऽऽजह्रुः सुवर्णष्ठीविनं बलात् ॥
गृह्यैनमनुपायज्ञा नीत्वाऽरण्यमचेतसः ।
हत्वा विशस्य चापश्यँ ल्लुब्धा वसु न किञ्चन ॥
तस्य प्राणैर्विमुक्तस्य नष्टं तत्काञ्चनं वरम् ।
दस्यवश्च तदाऽन्योन्यं जघ्नुर्मूर्खा विचेतसः ॥
हत्वा परस्परं नष्टाः कुमारं चाद्भुतं भुवि ।
असम्भाव्यं गता घोरं नरकं दुष्टकारिणः ॥
तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः ।
विललाप सुदुःखार्तो बहुधा करुणं नृपः ॥
विलपन्तं निशम्याथ पुत्रशोकहतं नृपम् ।
प्रत्यदृश्यत देवर्षिर्नारदस्तस्य सन्निधौ ॥
उवाच चैनं दुःखार्तं विलपन्तमचेतसम् ।
सृञ्जयं नारदो यद्यत्तन्निबोध युधिष्ठिर ॥
नारद उवाच ।
`त्यज शोकं महाराज वैक्लब्यं त्यज बुद्धिमन् ।
न मृतः शोचतो जीवेन्मुह्यतो वा नराधिप ॥
त्यज शोकं नृपश्रेष्ठ न शोचन्ति भवद्विधाः । वीरो भवान्महाराज ज्ञानवृद्धोऽपि मे मतः' ।
कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि ॥
यस्य चैते वयं गेहे उषिता ब्रह्मवादिनः ।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम ॥
संवर्तो याजयामास स्पर्धया वै बृहस्पतेः । यस्मै राजर्षये प्रादाद्धनं स भगवान्प्रभुः ।
हैमं हिमवतः पादं यियक्षोर्विविधैः सवैः ॥
यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः । देवा विश्वसृजः सर्वे यजनान्ते समासते ।
यज्ञवाटस्य सौवर्णाः सर्वे चासन्परिच्छदाः ॥
यस्य सर्वं तदा ह्यन्नं मनोभिप्रायगं शुचि । कामतो बुभुजुर्विप्राः सर्वे चान्नार्थिनो द्विजाः ।
पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम् ॥
यस्य यज्ञेषु सर्वेषु वासांस्याभरणानि च ।
ईप्सितान्युपतिष्ठन्ते प्रहृष्टान्वेदपारगान् ॥
मरुतः परिवेष्टारो मरुत्तस्याभवन्गृहे ।
आविक्षितस्य राजर्षेर्विश्वेदेवाः सभासदः ॥
यस्य वीर्यवतो राज्ञः सुवृष्ट्या सस्यसम्पदः ।
हविर्भिस्तर्पिता येन सम्यक्क्लृप्तैर्दिवौकसः ॥
ऋषीणां च पितॄणां च देवानां सुखजीविनम् ।
ब्रह्मचर्यश्रुतिमुखैः सर्वैर्दानैश्च सर्वदा ॥
शयनासनपानानि स्वर्णराशीश्च दुस्त्यजाः ।
तत्सर्वममितं वित्तं दत्तं विप्रेभ्य इच्छया ॥
सोनुध्यातस्तु शक्रेण प्रजाः कृत्वा निरामयाः ।
श्रद्दधानो जिताँल्लोकान्गतः पुण्यदुहोऽक्षयान् ॥
सप्रजः सनृपामात्यः सदारापत्यबान्धवः ।
यौवनेन सहस्राब्दं मरुत्तो राज्यमन्वशात् ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55 ॥

5-55-14 तत्सलिङ्गाभिस्तस्यानुरूपाभिः । अभितः पार्श्वतः ॥ 5-55-22 नत्वेषा निश्चिता निष्ठा मैत्री सप्तपदी सतां इति ङ. पाठः । निष्ठा सप्तमदी सतां इति घ. पाठः । सप्तपदी स्मृता इति झ. पाठः ॥ 5-55-23 शप्त्वावै तत्र वत्सरमूषतुः इति क.पाठः ॥ 5-55-25 पुत्रमीप्सवः इति घ.ङ.झ.पाठः ॥ 5-55-26 द्विजैरुक्ततो नारदस्तथेत्युक्त्वा सृञ्जयमब्रवीदित्यन्वयः ॥ 5-55-29 क्लेदः श्लेष्मादिः ॥ 5-55-31 सुवर्णष्ठीविरित्यनेन गण्डूषादिकमपि काञ्चनं भवतीति सूचितम् ॥ 5-55-35 चिकीर्षितुमपकारं कर्तुम् । कॄहिंसायामित्यस्य रूपम् ॥ 5-55-47 सवैः यज्ञैः ॥ 5-55-57 चतुर्भद्रतरः धर्मज्ञानवैराग्यैश्वर्याणि चत्वारि भद्राणि । धर्मार्थकामबलानीत्यन्ये तुभ्यं तव । अयज्वानमदक्षिण्यं पुत्रं अभिलक्ष्य मानुतप्यथाः हे श्वैत्य श्वित्यपुत्र इति उदाहरन्नारदः सृञ्जयं प्रतीति व्यासवाक्यम् । अदाक्षिण्यं इति झ.पाठः ॥ 5-55-55 पञ्चपञ्चाशत्तमोऽध्यायः ॥

श्रीः