अध्यायः 064

नारदेन सृञ्जयम्प्रत्यम्बरीषविभवाभिधानम् ॥ 1 ॥

नारद उवाच ।
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम ।
यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत् ॥
जिगीषमाणाः सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः ।
अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः ॥
बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च ।
छत्रायुधध्वजरथांश्छित्त्वा प्रासान्गतव्यथः ॥
त एनं मुक्तसन्नाहाः प्रार्थयञ्जीवितैषिणः ।
शरण्यमीयुः शरणं तव स्म इति वादिनः ॥
स तु तान्वशगान्कृत्वा जित्वा चेमां वसुन्धराम् ।
ईजे यज्ञशतैरिष्टैर्यथा शक्रस्तथाऽनघः ॥
बुभुजुः सर्वसम्पन्नमन्नमन्ये जनाः सदा ।
तस्मिन्यज्ञे तु विप्रेन्द्राः सन्तृप्ताः परमार्चिताः ॥
मोदकान्पूरिकापूपान्स्वादुपूर्णाश्च शष्कुलीः ।
करम्भान्पृथुमृद्वीका अन्नानि सुकृतानि च ॥
सूपान्मैरेयकापूपान्रागषाडवपानकान् ।
मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च ॥
घृतं मधु पयस्तोयं दधीनि रसवन्ति च ।
फलं मूलं सुस्वादु द्विजास्तत्रोपभुञ्जते ॥
मदनीयानि पापानि विदित्वा चात्मनः सुखम् ।
अपिबन्त यथाकामं पानपा गीतवादितैः ॥
तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च ।
नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः ॥
तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत् ।
राज्ञां शतसहस्राणि दशप्रयुतयाजिनाम् ॥
हिरण्यकवचान्सर्वाञ्श्वेतच्छत्रप्रकीर्णकान् ।
हिरण्यस्यन्दनारूढान्सानुयात्रपरिच्छादान् ॥
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ।
मूर्धाभिषिक्तांश्च नृपान्राजपुत्रशतानि च ॥
स दण्डकोशनिचयान्ब्राह्मणेभ्यो ह्यमन्यत ।
नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ॥
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः ।
इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये चतुःषष्टितमोऽध्यायः ॥ 64 ॥

5-64-8 सूपाद्योरण्डकान्यूषान् इति क.ङ.पाठः ॥ 5-64-10 मादनीयानि मदकराणि सुरादीनि । पापानि पापहेतूनीति ज्ञात्वापि सुखलिप्सवः पिबन्तीत्यर्थः । मदनीयानि पानानि विदंशानात्मनः प्रियान् । पपुस्तत्र यथाकामं पानपा(का) गीतकाः परम् इति क.पाठः)॥ 5-64-12 अत्यकालयद्दातुं निष्कासितवान् । जिता राजान् एव सोपस्करदक्षिणात्वेन दत्ताः । तेषां राज्यानि ते राजानश्च ब्राह्मणसात्कृता इत्यर्थः ॥ 5-64-64 चतुःषष्ठितमोऽध्यायः ॥

श्रीः