अध्यायः 069

नारदेन सृञ्जयम्प्रति पृथुचरिब्रकथनम् ॥ 1 ॥

नारद उवाच ।
पुथुं वैन्यं च राजानं मृतं सृञ्जय शुश्रुम ।
यमब्यषिञ्चत्सम्मन्त्र्य राजसूये महर्षयः ॥
अयं नः प्रथयिष्येत सर्वानित्यभवत्पृथुः ।
क्षतान्नस्त्रास्यते सर्वानत्येवं क्षत्रियोऽभवत् ॥
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् ।
ततो राजेति नामास्य अनुरागादजायत ॥
अकृष्टपच्या पृथिवी आसीद्वैन्यस्य कामधुक् ।
सर्वाः समादुघा गावः पुटकेपुटके मधु ॥
आसन्हिरण्मया वृक्षाः सुखस्पर्शाः सुखावहाः ।
तेषां चीरxx संवीताः प्रजास्तेष्वेव शेरते ॥
फलान्यमृतकल्पानि स्वादूनि च मधूनि च ।
तेषामासीत्तदाऽऽहारो निराहाराश्च नाभवन् ॥
अरोगाः सर्वसिद्धार्था मनुष्या ह्यकुतोभयाः ।
न्यवसन्त यथाकामं वृक्षेषु च गुहासु च ॥
प्रविभागो न राष्ट्राणां पुराणां चाभवत्तदा ।
यथासुखं यथाकामं तथैता मुदिताः प्रजाः ॥
तस्य संस्तम्भिता ह्यापः समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥
तं वनस्पतयः शैला देवासुरनरोरगाः । सप्तर्षयः पुण्यजना गन्धर्वाप्सरसोऽपि च ।
पितरश्च सुखासीनमभिगम्येदमब्रुवन् ॥
सम्राडसि क्षत्रियोऽसि राजा गोप्ता पिताऽसि नः । देह्यस्मभ्यं महाराज प्रभुः सन्नीप्सितान्वरान् ।
यैर्वयं शाश्वतं तृप्ता वर्तयिष्यामहे सुखम् ॥
`विज्ञापितः प्रजाभिस्तु प्रजानां हितकाम्यया ।
धनुर्गृह्य पृषत्कांश्च वसुधामाद्रवद्बली ॥
ततो वैन्यभयाद्राजन्गौर्भूत्वा प्राद्रवन्मही ।
तां पृथुर्धनुरादाय द्रवन्तीमन्वसारयत् ॥
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयार्दिता ।
सा ददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम् ॥
ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजःसमद्युतिम् ।
महायोगं महात्मानं दुर्धर्षममरैरपि ॥
अलभन्ती परित्राणं वैन्यमेवाभ्यपद्यत ।
कृताञ्जलिपुटा राजन्पूज्यं लोकैस्त्रिभिस्तदा ॥
उवाच चैनं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि ।
कथं धारयिता चासि प्रजा राजन्मया विना ॥
पृथुरुवाच ।
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।
एकं प्राणान्बहून्वापि प्राणिनां नास्ति पातकं ॥
यस्मिंस्तु निहते भद्रे बहवः सुखमेधते ।
तस्मिन्हते त्वधं नास्ति पातकं नोपभुज्यते ॥
सोऽहं पालनिमित्तं त्वां बधिष्यामि वसुंधरे ।
यदि चेद्वचनादद्य न करिष्यसि मे प्रियम् ॥
त्वां निहत्य तु बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाऽहं प्रजा धारयिता स्वयं ॥
सुखं वचनमास्थाय मम धर्मभृतां वरे ।
स़ञ्जीवय प्रजा नित्यं शक्ता ह्यसि वसुन्धरे ॥
दुहितृत्वं च मे गच्छ एवमेतन्महाशरम् ।
नियच्छेयं त्वदर्थाय उद्यतं घोरदर्शनम् ॥
भूमिरुवाच ।
सर्वमेतन्महाराज विधास्यासि परन्तप ।
वत्सं त्वं पश्य राजन्वै क्षरेयं येन वत्सला ॥
समां तु कुरु सर्वज्ञ मां तु धर्मभृतां वर ।
यथा विष्यन्दमानं वै क्षीरं सर्वत्र भावये ॥
नारद उवाच ।
तत उत्सारयामास शिलाजालानि सर्वशः ।
पृथुर्वैन्यस्तदा राजा तेन शैला विवर्धिताः ॥
न हि पूर्वनिसर्गे वै विषमे वसुधातले ।
प्रविभागः पुराणां वा ग्रामाणां वा महीपते ॥
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः ।
वैन्यात्प्रभृति राजेन्दर सर्वस्यैतस्य सम्भवः ॥
यत्रयत्र च साम्यं तु भूमावासीत्किलानघ । तत्रतत्र प्रजास्तात निवासमभिरोचयन् ।
कृच्छ्रेण च महाराज इत्येवमनुशुश्रुम ॥
तथेत्युक्त्वा पुनर्वैन्यो गृहीत्वाऽऽजगवं धनुः ।
शरांश्चाप्रतिमान्घोरांश्चिन्तयित्वाऽब्रवीन्महीम् ॥
पृथुरुवाच ।
एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः ।
मच्छसनातिगां वै त्वां प्रमथिष्याम्यहं शरैः ॥
नारद उवाच ।
तथोक्ता साऽत्मनः श्रेयश्चिन्तयित्वाऽब्रवीत्पृथुम् ।
भूमिरुवाच ।
वत्सं पात्राणि दोग्धॄंश्च क्षीराणि च समादिश ॥
ततो दास्याम्यहं भद्र सर्वं यस्य यथेप्सितम् ।
दुहितृत्वे च मां वीर सङ्कल्पयितुमर्हसि ॥
नारद उवाच ।'
तथेत्युक्त्वा पृथुः सर्वं विधानमकरोद्वशी ।
ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा ॥
तां वनस्पतयः पूर्वं समुत्तस्थुर्दुधुक्षवः ।
साऽतिष्ठद्वत्सला वत्सं दोग्धृपात्राणि चेच्छती ॥
वत्सोऽभूत्पुष्पितः सालः प्लक्षो दोग्धाऽभवत्तदा ।
छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम् ॥
उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः ।
रत्नान्योषधयो दुग्धं पात्रमस्तमयं तथा ॥
`देवानां वत्स इन्द्रोऽभूत्पात्रं दारुमयं तथा' ।
दोग्धा च सविता देवो दुग्धमूर्जस्करं प्रियम् ॥
असुरा दुदुहुर्मायामयःपात्रे तु तां तदा ।
दोग्धा द्विमूर्धा तत्रासीद्वत्सश्चासीद्विरोचनः ॥
कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले ।
स्वायंभुवो मनुर्वत्सस्तेषां दोग्धाऽभवत्पृथुः ॥
अलाबुपात्रे च तथा विषं दुग्धा वसुन्धरा ।
धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः ॥
सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः ।
दोग्धा बृहस्पतिः पात्रं छन्दो वत्सश्च सोमराट् ॥
अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर्विराट् ।
दोग्धा वैश्रवणस्तेषां वत्सश्चासीद्वृषध्वजः ॥
पुण्यगन्धान्पद्मपात्रे गन्धर्वाप्सरसोऽदुहन् ।
वत्सश्चित्ररथस्तेषां दोग्धा विश्वरुचिः प्रभुः ॥
स्वधां रजतपात्रेषु दुदुहुः पितरश्च ताम् ।
वत्सो वैवस्वतस्तेषां यमो दोग्धान्तकस्तदा ॥
एवं निकायैस्तैर्दुग्धा पयोऽभीष्टं हि सा विराट् ।
यैर्वर्तयन्ति ते ह्यद्य पात्रैर्वत्सैश्च नित्यशः ॥
यज्ञैश्च विविधैरिष्ट्वा पृथुर्वैन्यः प्रतापवान् ।
सन्तर्पयित्वा भूतानि सर्वैः कामैर्मनःप्रियैः ॥
हैरण्यानकरोद्राजा ये केचित्पार्थिवा भुवि ।
तान्ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे ॥
स षष्टिं गोसहस्राणि षष्टिं नागशतानि च ।
सौवर्णानकरोद्राजा ब्राह्मणेभ्यश्च तान्ददौ ॥
इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम् ।
सौवर्णीमकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः । अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

5-69-1 ध्वजभङ्गस्तोरणादिना ॥ 5-69-39 द्विमूर्धा शुक्रोऽभूत् इति क.ङ.ड.पाठः ॥ 5-69-43 विराट् पृथिवी । वत्सश्चासीत्कुवेरकः इति.पाठः ॥ 5-69-44 दोग्धा वसुरपि प्रभुः इति क.ङ.ड.पाठः ॥ 5-69-45 वत्सोऽत्र वत्सरस्तेषां क.ङ.पाठः ॥ 5-69-46 निवर्तयन्ति ते रुद्रादिष्टे वैन्येन सर्वशः इति क. पाठः । यैर्वर्तयन्ति ते तृप्तादिष्टे वैन्येन सर्वशः इति ङ. पाठः । ये वर्षयन्ति ते पात्रैः वत्सैर्दोग्धैश्च नित्यशः इति ङ. पाठः ॥ 5-69-48 पार्थिवाः पृथ्वीसंवन्धिपदार्थाः ॥ 5-69-69 एकोनसप्ततितमोऽध्यायः ॥

श्रीः