अध्यायः 070

सृञ्जयम्प्रति नारदेन परशुरामप्रभाववर्णनम् ॥ 1 ॥

नारद उवाच ।
रामो महातपाः शूरो वीरो लोकनमस्कृतः ।
जामदग्न्योऽप्यतियशा अवितृप्तो मरिष्यति ॥
यश्चास्त्रमनुपर्येति भूमिं कुर्वन्विपांसुलाम् ।
नचासीद्विक्रिया यस्य प्राप्य श्रियमनुत्तमाम् ॥
`जामदग्न्यो न ते राजन्कच्चिच्छ्रोत्रमुपागतः ।
येनैकेन पुरा राजन्क्रुद्धेन हतबन्धुना ॥
भृगुभिस्ताम्भमानेन त्राहि रामेति विस्वरम् ।
त्रिःसप्तकृत्वो भूमिर्यत्कृता निःक्षत्रिया पुरा' ॥
यः क्षत्रियैः परामृष्टे वत्से पितरि चाब्रुवन् ।
ततोऽवधीत्कार्तवीर्यमजितं समरे परैः ॥
क्षत्रियाणां चतुःषष्टिमयुतानि सहस्रशः ।
तदा मृत्योः समेतानि एकेन धनुषाऽजयत् ॥
ब्रह्मद्विषां चाथ तस्मिन्हस्राणि चतुर्दश ।
पुनरन्यान्निजग्राह दन्तकूरे जघान ह ॥
सहस्रं मुसलेनाहन्सहस्रमसिनाऽवधीत् ।
उद्बन्धनात्सहस्रं च सहस्रमुदके कृतम् ॥
दन्तान्भङ्क्त्वा सहस्रस्य भिन्नकर्णांस्तथाऽकरोत् ।
ततः सप्तसहस्राणां कुटुधृपमपाययत् ॥
शिष्टान्वध्वा च हत्वा वै तेषां मृर्ध्नि विभिद्य च । गुणावतीमुत्तरेण खाण्डवाद्दक्षिणेन च ।
गिर्यन्ते शतसाहस्रा हैहयाः समरे हताः ॥
सरथाश्वगजा वीरा निहतास्तत्र शेरते ।
पितुर्वधामर्षितेन जामदग्न्येन धीमता ॥
निजघ्ने दशसाहस्रान्रामः परशुना तदा ।
न ह्यमृष्यत ता वाचो यास्तैर्भृशमुदीरिताः ॥
भृगौ रामाभिधावेति यदाक्रन्दन्द्विजोत्तमाः ।
ततः काश्मीरदरदान्कुन्तिक्षुद्रकमालवान् ॥
अङ्गवङ्गकलिङ्गांश्च विदेहांस्ताम्रलिप्तकान् ।
रक्षोवाहान्वीतिहोत्रांस्त्रिगर्तान्मार्तिकावतान् ॥
शिबीनन्यांश्च राजन्यान्देशान्देशान्सहस्रशः ।
निजघान शितैर्बाणैर्जामदग्न्यः प्रतापवान् ॥
कोटीशतसहस्राणि क्षत्रियाणां सहस्रशः ।
इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च ॥
रुधिरस्य परीवाहैः पूरयित्वा सरांसि च ।
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः ॥
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
वेदीमष्टनलोत्सेधां सौवर्णां विधिनिर्मिताम् ॥
सर्वरत्नशतैः पूर्णां पताकाशतमालिनीम् ।
ग्राम्यारण्यैः पशुगणैः सम्पूर्णां च महीमिमाम् ॥
रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः ।
ततः शतसहस्राणि द्विपेन्द्रान्हेमभूषणान् ॥
निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसङ्कुलाम् ।
कश्यपाय ददौ रामो हयमेधे महामखे ॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।
इष्ट्वा क्रतुशतैर्वीरो ब्राह्मणेभ्यो ह्यमन्यत ॥
सप्तद्वीपां वसुमतीं मारीचोऽगृह्णत द्विजः ।
रामं प्रोवाच निर्गच्छ वसुधातो ममाज्ञया ॥
स कश्यपस्य वचनात्प्रोत्सार्य सरिताम्पतिम् ।
इषुपाते युधां श्रेष्ठः कुर्वन्ब्राह्मणशासनम् ॥
अध्यावसद्गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम् ।
एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः ॥
जामदग्न्यो ह्यतियशा मरिष्यति महाद्युतिः ।
त्वया चतुर्भद्रतरः पुण्यात्पुण्यतरस्तव ॥
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः । एते चतुर्भद्रतरास्त्वया भद्रशताधिकाः ।
मृता नरवरश्रेष्ठ मरिष्यन्ति च सृञ्जय ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्ततितमोऽध्यायः ॥ 70 ॥

5-70-1 ये मृतास्तेऽतीता ये वर्तमानास्तेऽपि । मरिष्यन्त्येवेत्याह राम इति ॥ 5-70-5 क्षत्रियैः कार्तवीर्यपुत्रैः । अब्रुवन्नविकत्थयन् ॥ 5-70-6 मृत्योर्मृत्युमवधीकृत्य ॥ 5-70-7 तस्मिंस्तन्मध्ये एव । दन्तक्रूरमिति पाठे तद्देशाधिपतिम् ॥ 5-70-8 उद्बन्धनाद्वृक्षशाखावलम्बनात् ॥ 5-70-9 कणधूममपाययत् इति क.ङ.पाठः ॥ 5-70-12 तैराश्रमवासिभिः ॥ 5-70-18 अष्टनलेत्यत्र नलशब्दश्चतुर्हस्तवचनः ॥ 5-70-70 सप्ततितमोऽध्यायः ॥

श्रीः