अध्यायः 071

युधिष्ठिरं समाश्वास्य स्वाश्रमगमनम् ॥ 1 ॥

व्यास उवाच ।
पुण्यमाख्यानमायुष्यं श्रुत्वा षोडशराजकम् ।
अव्याहरन्नरपतिस्तूष्णीमासीत्स सृञ्जयः ॥
तमब्रवीत्तदा दीनं नारदो भगवानृषिः ।
कच्चिन्मया व्याहृतं यद्धृदये तत्स्थितं तव ॥
आहोस्विदन्ततो नष्टं श्राद्धं शूद्रीपताविव ।
स एवमुक्तः प्रत्याह प्राञ्जलिः सृञ्जयस्तदा ॥
पुत्रशोकापहं श्रुत्वा धन्यमाख्यानमुत्तमम् ।
राजर्षीणां पुराणानां यज्वनां दक्षिणावताम् ॥
विस्मयेन हृते शोके तमसीवार्कतेजसा ।
विपाप्माऽस्म्यव्यथोपेतो ब्रूहि किं करवाण्यहम् ॥
नारद उवाच ।
दिष्ट्यापहतशोकस्त्वं वृणीष्वेह यदिच्छसि ।
तत्ते सम्पत्स्यते सर्वं न मृषावादिनो वयम् ॥
सृञ्जय उवाच ।
पावितोऽहमनेनैव प्रसन्नो यद्भवान्मम् ।
प्रसन्नो यस्य भगवान्न तस्यास्तीह दुर्लभम् ॥
नारद उवाच ।
पुनर्ददामि ते पुत्रं दस्युभिर्निहतं वृथा ।
उद्धृत्य नरकात्कष्टात्पशुवत्प्रोक्षितं यथा ॥
व्यास उवाच ।
प्रादुरासीत्ततः पुत्रः सृञ्जयस्याद्भुतप्रभः ।
प्रसन्नेनर्षिणा दत्तः कुबेरतनयोपमः ॥
ततः सङ्गम्य पुत्रेण प्रीतिमानभवन्नृपः ।
ईजे च क्रतुभिः पुण्यैः समाप्तवरदक्षिणैः ॥
अकृतार्थश्च भीतश्च न च सन्नाहकोविदः ।
अयज्वाचानपत्यश्च ततोऽसौ जीवितः पुनः ॥
शूरो वीरः कृतार्थश्च प्रमथ्यारीन्सहस्रशः ।
अभिमन्युर्गतः स्वर्गं सङ्ग्रामेऽभिमुखाहतः ॥
ब्रह्मचर्येण याँल्लोकान्प्रजया च श्रुतेन च ।
इष्टैश्च क्रतुभिर्यान्ति तांस्ते पुत्रोऽक्षयान्गतः ॥
विद्वांसः कर्मभिः पुण्यैः स्वर्गमीहन्ति नित्यशः ।
न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः ॥
तस्मात्स्वर्गगतं पुत्रमर्जुनस्य हतं रणे ।
न चेहानयितुं शक्यं किञ्चिदप्राप्यमीहितम् ॥
यां योगिनो ध्यानविविक्तदर्शनाः प्रयान्ति यां चोत्तमयज्विनो जनाः ।
तपोभिरिद्धैरनुयान्ति यां तथा तामक्षयां ते तनयो गतो गतिम् ॥
अन्तात्पुनर्भावगतो विराजते राजेव वीरो ह्यमृतात्मरश्मिभिः ।
तामैन्दवीमात्मतनुं द्विजोचितां गतोऽभिमन्युर्न स शोकमर्हति ॥
एवं ज्ञात्वा स्थिरो भूत्वा मा शुचो धैर्यमाप्नुहि ।
जीवन्हि पुरुषः शोच्यो न तु स्वर्गगतोऽनघ ॥
शोचतो हि महाराज अघमेवाभिवर्धते ।
तस्माच्छोकं परित्यज्य श्रेयसे प्रयतेद्बुधः ॥
प्रहर्षं प्रीतिमानन्दं प्रियमुत्सिक्तचित्तताम् ।
एतदाहुर्बुधाः शौचमशौचं शोक उच्यते ॥
एवं विद्वन्समुत्तिष्ठ प्रयतो भव मा शुचः ।
श्रुतस्ते सम्भवो मृत्योस्तपांस्यनुपमानि च ॥
सर्वभूतसमत्वं च ब्रह्मणा चापि चोदितम् ।
सृञ्जयस्य तु पुत्रोऽसौ मृतः सञ्जीवितः श्रुतः ॥
एवं विद्वन्महाराज मा शुचः साधयाम्यहम् ।
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ॥
वागीशाने भगवति व्यासे व्यभ्रनभःप्रभे ।
गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम् ॥
पूर्वेषां पार्थिवेन्द्राणआं महेन्द्रप्रतिमौजसाम् ।
न्यायाधिगतवित्तानां तां श्रुत्वा यज्ञसम्पदम् ॥
सम्पूज्य मनसा विद्वान्विशोकोऽभूद्युधिष्ठिरः ।
पुनश्चाचिन्तयद्दीनः किंस्विद्वक्ष्ये धनञ्जयम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥

5-71-5 विस्मयेन पुण्याख्यानश्रवणजनितचित्तविस्तारेण ॥ 5-71-15 नेहानियतिना ह्यस्य किं चिदव्याप्तमीहते इति क.पाठः । न चेहानयितुं शक्यं किं चिरं प्राप्यमीहता इति ङ. पाठः । नेहानेयतिना ह्यस्य किञ्चिदप्राप्यमीशितुः इति ड.पाठः ॥ 5-71-17 अन्तान्मरणात् । भावगतः सम्पत्प्राप्तः । द्विजोचितां द्विजैरभिमताम् ॥ 5-71-19 अधं दुःखम् ॥ 5-71-71 एकसप्ततितमोऽध्यायः ॥

श्रीः