अध्यायः 072

अभिमन्युमनुशोच्यार्जुनस्य विलापः ॥ 1 ॥

धृतराष्ट्र उवाच ।
अथ संशप्तकैः सार्धं युध्यमाने धनञ्जये ।
अभिमन्यौ हते चापि बाले बलवतां वरे ॥
महर्षिसत्तमे याते व्यासे स तु युधिष्ठिरः ।
पाण्डवाः किमथाऽकार्षुः शोकोपहतचेतसः ॥
कथं संशप्तकेभ्यो वा निवृत्तो वानरध्वजः । केन वा कथितस्तस्य प्रशान्तः सुतपावकः ।
एतन्मे शंस तत्त्वेन सर्वमेवेह सञ्जय ॥
सञ्जय उवाच ।
शृणु राजन्यथा तेभ्यो निवृत्तः कृष्णसारथिः ।
ततः सर्वाणि सैन्यानि दहन्कृष्णगतिर्यथा ॥
सम्प्रयातेऽस्तमादित्ये संध्याकाल उपस्थिते ।
अयातस्यात्मशिबिरं निमित्तैरघशंसिभिः ॥
यच्चासीन्मानसं तस्य यच्च कृष्णेन भाषितम् । यथा च कथितस्तस्य निहतः सुतपावकः ।
विस्तरेणैव मे सर्वं ब्रुवतः शृणु मारिष' ॥
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये ।
आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ॥
व्यपयातेषु वासाय सर्वेषु भरतर्षभ ।
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ॥
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् ।
गच्छन्नेव च गोविन्दं साश्रुकण्ठोऽभ्यभाषत ॥
किं तु मे हृदयं त्रस्तं वाक्व सज्जति केशव ।
स्यन्दने नावतिष्ठामि गात्रैः सीदामि चाच्युत ॥
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति ।
भुविये दिक्षु चात्युग्रा उत्पातास्त्रासयन्ति माम् ॥
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः ।
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥
वासुदेव उवाच ।
व्यक्तं शिवं सहभ्रातुर्धर्मराजस्य पाण्डव ।
मा शुचःकिञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ॥
सञ्जय उवाच ।
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने ।
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥
ततः स्वशिबिरं प्राप्तौ हतामित्रौ हतद्विषौ ।
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥
ध्वस्ताकारमिवालेख्यं संवीक्ष्य शिबिरं स्वकम् ।
बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ॥
नदन्ति नाद्य तूर्याणि मङ्गल्यानि जनार्दन ।
मिश्रा दुन्दुभिनिर्धोषैः शङ्खाश्चाडम्बरैः सह ॥
वीणा नैवाद्य वाद्यन्ते शम्यातालस्वनैः सह ।
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च ॥
स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ।
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः ॥
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ।
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव ॥
न हि शुद्ध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ।
अपि पाञ्चालराजस्य विराटस्य च मानद ॥
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत । न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह ।
रणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥
सञ्जय उवाच ।
एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् ।
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ॥
दृष्ट्वा भ्रातृंश्च पुत्रांश्च विमना वानरध्वजः ।
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते ।
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥
मया श्रुतश्च द्रोणेन पद्मव्यूहो विनिर्मितः ।
न च वस्तस्य भेत्ताऽस्ति विना सौभद्रमर्भकम् ॥
न चोपदिष्टस्तस्यासीन्मयानीकाद्विनिर्गमः ।
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥
भित्त्वाऽनीकं महेष्वासः परेषां बहुभिर्युधि ।
कच्चिन्न निहतः सङ्ख्ये सौभद्रः परवीरहा ॥
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु ।
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् ।
सदा मम प्रियं ब्रूत कथमायोधने हतः ॥
सुभद्रायाः प्रियं पुत्रं द्रौपद्याः केशवस्य च ।
अम्बायाश्च प्रियं नित्यं कोवधीत्कालमोहितः ॥
सदृशो वृष्णिवीरस्य केशवस्य महात्मनः ।
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥
वार्ष्णेयीदयितं शूरं मया सततलालितम् ।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् ।
मत्तद्विरदविक्रान्तं सिंहपोतमिवोद्गतम् ॥
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा ।
बाल्येऽप्यतुलकर्माणं प्रियवाक्यममत्सरम् ॥
महोत्साहं महाबाहुं दीर्घराजीवलोचनम् ।
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रभनिवर्तिनम् ।
युद्धाभिनन्दिनं नित्यं द्विषतां भयवर्धनम् ॥
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् । न च पूर्वं प्रहर्तारं सम्प्रमे नष्टसम्भ्रमम् ।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥
रथेषु गण्यमानेषु गणितं तं महारथम् ।
मयाऽध्यर्धगुणं सङ्ख्ये तरुणं बाहुशालिनम् ॥
प्रद्युम्नस्य प्रियं नित्यं केशवस्य ममैव च ।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥
सुनसं सुललाटान्तं स्वक्षिभ्रूदशनच्छदम् ।
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ॥
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् ।
अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ॥
रूपं चाप्रतिमं तस्य त्रिदशैश्चापि दुर्लभम् ।
अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे ॥
अभिवादनदक्षं तं पितॄणां वचने रतम् ।
नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ॥
सुकुमारः सदा वीरो महार्हशयनोचितः ।
भूमावनाथवच्छेते नूनं नाथवतां वरः ॥
शयानं समुपासन्ति यं पुरा परमस्त्रियः ।
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ॥
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः ।
बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः ॥
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् ।
नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति ॥
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने ।
भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ॥
सा च संयमनी नूनं सदा सुकृतिनां गतिः ।
स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते ॥
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम् ।
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ॥
सञ्जय उवाच ।
एवं विलप्य बहुधा भिन्नपोतो वगिग्यथा ।
दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत ॥
`कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति ।
सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः' ॥
कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन ।
स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभैः ॥
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः ।
असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ॥
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् ।
इति विप्रलपन्मन्ये नृशंसैर्भुवि पातितः ॥
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च ।
सुभद्रायां च सम्भूतो न चैवं वक्तुमर्हति ॥
वज्रसारमयं नूनं हृदयं सुदृढं मम ।
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ॥
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः ।
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ॥
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति ।
उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ॥
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः ।
शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ॥
सुभद्रामनुशोचामि या पुत्रमपलायिनम् ।
रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्षति ॥
सुभद्रा वक्ष्यते किं मामबिमन्युमपश्यती ।
द्रौपदीं चैव दुःखार्तां किं वा वक्ष्यामि तामहम् ॥
वज्रसारमयं नूनं हृदयं यन्न यास्यति ।
सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ॥
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः ।
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ॥
अशक्नुवन्तः पार्थस्य बालं हत्वा महाबलम् ।
किं न लज्जन्त्यधर्मज्ञाः पार्थिवा दृश्यतां बलम् ॥
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे ।
सिंहवन्नदथ प्रीताः शोककाल उपस्थिते ॥
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः ।
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ॥
इति तान्परिभाषन्वै वैश्यापुत्रो महामतिः ।
अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ॥
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम ।
अधक्ष्यं तानहं क्रूरांस्तदा सर्वान्महारथान् ॥
सञ्जय उवाच ।
पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम् । निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् ।
मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ॥
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् ।
क्षत्रियाणां विशेषेण येषां नः शस्त्रजीविका ॥
एषा वै युध्यमानानां शूराणामनिवर्तिनाम् ।
विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर ॥
ध्रुवं हि युद्धे मरणं शूरामामनिवर्तिनाम् ।
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ ।
सङ्ग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद ॥
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् ।
वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखं रणे ॥
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः ।
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥
इमे ते भ्रातरः सर्वे दीना भरतसत्तम ।
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥
एतांश्च वचसा साम्ना समाश्वासय मानद ।
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥
सञ्जय उवाच ।
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा ।
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदम् ॥
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः ।
अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥
सनागस्यन्दनहयान्सङ्ग्रामे निहतान्मया ।
क्षिप्रं द्रक्ष्यन्ति ते नूनं मम पुत्रं निहत्य वै ॥
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् ।
सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ॥
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम ।
सूनोः पाण्डवपाञ्चालानगोप्स्यं तं महारणे ॥
कथं च वो रथस्यानां शरवर्षाणि मुञ्चताम् ।
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः ।
यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥
आत्मानमेव गर्हेयं यदहं वै सुदुर्बलान् ।
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्चयान् ॥
आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः ।
वाचस्तु वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥
सञ्जय उवाच ।
एवमुक्त्वा ततो वाक्यमतिष्ठद्वै वरासिमान् ।
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः । `महेन्द्रमिव तिष्ठन्तं वज्रोद्यतमहाभुजम्' ।
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ॥
न भाषितुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् ।
अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात् ॥
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ ।
बहुमानात्प्रियत्वाच्च तावेनं वक्तमर्हतः ॥
ततस्तं पुत्रशोकेन भृशं पीडितमानसम् ।
राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

5-72-11 श्लिष्टमनुबद्धम् ॥ 5-72-17 आडम्बरैस्तूर्यरवैः ॥ 5-72-49 यथेति कथमर्थे ॥ 5-72-70 वासुदेव उवाच । किमर्थमेतन्नाख्यातं त्वया पार्थ रणे मम इति ट.पाठः ॥ 5-72-72 द्विसप्ततितमोऽध्यायः ॥

श्रीः