अध्यायः 079

श्रीकृष्णेन रात्रावर्जुनेन त्र्यम्बकाय बलिप्रदापनम् ॥ 1 ॥ कृष्णदारुकसम्भाषणम् ॥ 2 ॥

सञ्जय उवाच ।
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः । स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ।
सन्तस्तार शुभां शय्यां दर्भैर्वैदूर्यसन्निभैः ॥
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः ।
अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ॥
ततः स्पृष्टोदकं पार्थं विनीतपरिचारकम् ।
नैत्यकं दर्शयाञ्चक्रे नैशं त्रैयम्बकं बलिम् ॥
ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम् ।
अलङ्कृत्योपहारं तं नैशं तस्मै न्यवेदयत् ॥
साधुसाध्विति गोविन्दः फल्गुनं प्रत्यभाषत ॥
सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ।
स्थापयित्वा ततो द्वास्थान्गोप्तॄंश्चात्तायुधान्नरान् ॥
दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ।
शिश्ये च शयने शुभ्रे बहुकृत्य विचिन्तयन् ॥
पार्थाय सर्वं भगवाञ्शोकदुःखापहं विधिम् ।
व्यदधात्पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम् ॥
योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः ।
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियङ्करः ॥
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् ।
प्रजागरः सर्वजनं ह्याविवेश विशाम्पते ॥
पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना ।
श्वः सिन्धुराजस्य वधः कार्यो गाण्डीवधन्वना ॥
तत्कथं नु महाबाहुर्वासविः परवीरहा ।
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना ।
पुत्रशोकाभिभूतेन प्रतिज्ञा महती कृता ॥
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च ।
धृतराष्ट्रस्य पुत्रेण सर्वतः सन्निवेशिताः ॥
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु जयी सुखी ।
`हत्वा रिपुगणं सर्वं पारयित्वा महाव्रतम् ॥
यद्यस्ति सुकृतं किञ्चिदस्माकं हन्तु सैन्धवम् ।
जित्वा सर्वान्रिपून्पार्थस्त्रातु नोऽस्मान्महाभयात् ॥
एवमाशंसमानास्ते केचित्तस्थुरुपश्रुतिम् ।
श्रुत्वा चेष्टं सुमनसो व्यक्तमाशंसिरे जयम् ॥
भविता नु कथं कृत्यमिदमित्यब्रुवञ्जनाः' ।
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति ॥
न शक्यमनृतां कर्तुं प्रतिज्ञां विजयेन हि ।
`महद्धि साहसं पार्थः कृतवाच्छोकमोहितः' ॥
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने ।
तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥
यदि नोऽस्ति कृतं किञ्चिद्यदि दत्तं हुतं यदि ।
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥
सञ्जय उवाच ।
एवं कथयतां तेषां जयमाशंसतां प्रभो ।
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥
तस्या रजन्या मध्ये तु प्रतिबुद्धो जनार्दनः ।
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना ।
जयद्रथं वधिष्यामि श्वोभूत इति दारुक ॥
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति ।
यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् ।
द्रोणश्च सहपुत्रेण सर्वास्त्रविधिपारगः ॥
एको वीरः सहस्राक्षो दैत्यदानवदर्पहा ।
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः ।
कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक ।
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ॥
अहं विजित्य तान्सर्वान्सहसा सहयद्विपान् ।
अर्जुनार्थे हनिष्यामि सकर्णान्ससुयोधनान् ॥
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे ।
धनञ्जयार्थे समरे पराक्रान्तस्य दारुक ॥
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च ।
साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक ॥
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् ।
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् ॥
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ।
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु ।
इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥
यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम् ।
कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः ॥
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् ।
आरोप्य वै रथे सूत सर्वोपकरणानि च ॥
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे ।
वैनतेयस्य वीरस्य समरे रथशोभिनः ॥
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः ॥
विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषय ॥
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च ।
युक्त्वा वाजिवरांस्तत्र कवची तिष्ठ दारुक ॥
पाञ्चजन्यस्य निर्घोषं पर्जन्यनिनदोपमम् ।
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम् ॥
एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह ।
भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक ॥
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे ।
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥
यस्ययस्य च बीभत्सुर्वधे यत्नं करिष्यति ।
आशंसेऽहं रणे तन्तं तत्रतत्र हनिष्यति ॥
दारुक उवाच ।
जय एव ध्रुवस्तस्य कुत एव पराजयः ।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥
एवं चैतत्करिष्यामि यथा मामनुभाषसे ।
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥

5-79-3 लाजैरक्षतैः ॥ 5-79-4 तस्मै त्र्यम्बकाय ॥ 5-79-8 पार्थाय तादर्थ्ये चतुर्थी । तेजः प्रतापः ॥ 5-79-13 महात्मना इत्यस्यानन्तरं स च राजा महावीर्यः पारयत्वर्जुनः स ताम् इत्येकमर्ध ङ. च.झ.ञ. पुस्तकेषु अधिकं वर्तते ॥ 5-79-31 सहसा बलेन ॥ 5-79-36 अनु अनुगतः ॥ 5-79-79 एकोनाशीतितमोऽध्यायः ॥

श्रीः