अध्यायः 080
					 अर्जुनस्य स्वप्ने कृष्णेन सह कैलासगमनम् ॥ 1 ॥ तथा स्तुत्या
						रुद्रप्रसादनम् ॥ 2 ॥ 
					
					
						धार्तराष्ट्रस्य तं मन्त्रं स्मरन्नेव धनञ्जयः ।
						प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥
					 
					
						तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम् ।
						आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥
					 
					
						प्रत्युत्थानं च कृष्णस्य सर्वावस्थासु फल्गुनः ।
						न लोपयति धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥
					 
					
						प्रत्युत्थाय च गोविन्दं स्वं तस्मै चासनं ददौ ।
						न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ॥
					 
					
						ततः कृष्णो महातेजा जानँल्लोकस्य निश्चयम् ।
						कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥
					 
					
						मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः ।
						कालः सर्वाणि भूतानि नियच्छति भवाभवे ॥
					 
					
						किमर्थं च विषादस्ते तद्ब्रूहि द्विपदां वर ।
						न शोच्यं विदुषां श्रेष्ठ शोकः कार्यविनाशनः ॥
					 
					
						यत्तु कार्यं भवेत्कार्यं कर्मणा तत्समाचर ।
						हीनचेष्टस्य यः शोकः स हि शत्रुर्धनञ्जय ॥
					 
					
						शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् ।
						क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥
						सञ्जय उवाच । 
					 
					
						इत्युक्तो वासुदेवेन बीभत्सुरपराजितः ।
						आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥
					 
					
						मया प्रतिज्ञा महती जयद्रथवधे कृता ।
						श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥
					 
					
						मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत ।
						पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥
					 
					
						दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः ।
						हतावशेषास्तत्रेमा हन्त माधव सङ्ख्यया ॥
					 
					
						ताभिः परिवृतः सङ्ख्ये सर्वैश्चैव महारथैः ।
						कथं शक्येत सन्द्रष्टुं दुरात्मा कृष्ण सैन्धवः ॥
					 
					
						प्रतिज्ञापारणं चापि न भविष्यति केशव ।
						प्रतिज्ञायां च हीनायां कथं जीवति मद्विधः ॥
					 
					
						दुःखापायस्य मे वीर विकाङ्क्षा परिवर्तते ।
						द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥
						सञ्जय उवाच । 
					 
					
						शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः ।
						संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥
					 
					
						इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः ।
						हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे कृती ॥
						श्रीभगवानुवाच । 
					 
					
						पार्थ पाशुपतं नाम परमास्त्रं सनातनम् ।
						येन सर्वान्मृधे देत्याञ्जघ्ने देवो महेश्वरः ॥
					 
					
						यदि तद्विदितं तेऽद्य श्वो हन्ताऽसि जयद्रथम् ।
						अथ ज्ञातं प्रपद्यस्य मनसा वृषभध्वजम् ॥
					 
					
						तं देवं मनसा ध्यात्वा जोषमास्स्व धनञ्जय ।
						ततस्तस्य प्रसादात्त्वं भक्त्या प्राप्स्यसि तन्महत् ॥
						सञ्जय उवाच । 
					 
					
						ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः ।
						भूमावासीन एकाग्रो जगाम मनसा भवम् ॥
					 
					
						ततः प्रणिहितो ब्राह्मे मुहूर्ते शुभलक्षणे ।
						आत्मानमर्जुनोऽपश्यद्गने सहकेशवम् ॥
					 
					
						पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ।
						ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् ॥
					 
					
						वायुवेगगतिः पार्थः खं भेजे सहकेशवः ।
						केशवेन गृहीतः स दक्षिणे विभुना भुजे ॥
					 
					
						प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् ।
						उदीच्यां दिशि धर्मात्मा सोपश्यच्छ्वेतपर्वतम् ॥
					 
					
						कुबेरस्य विराहे च नलिनीं पद्मभूषिताम् ।
						सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् ॥
					 
					
						सदा पुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ।
						सिंहव्याघ्रसमाकीर्णां नानामृगसमाकुलाम् ॥
					 
					
						पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ।
						मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान् ॥
					 
					
						हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ।
							तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ।
						
					 
					
						स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम् ।
						ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ॥
					 
					
						स तुङ्गं शतशृङ्गं च शर्यातिवनमेव च ।
						पुण्यमश्वशिरस्थानं स्थानमाथर्वणस्य च ॥
					 
					
						वृषदंशं च शैलेन्द्रं महामन्दरमेव च ।
						अप्सरोभिः समाकीर्णं किन्नरैश्चोपशोभितम् ॥
					 
					
						तस्मिञ्शैले व्रजन्पार्थः सकृष्णः समवैक्षत ।
						शुभैः प्रस्रवणैर्जुष्टां हेमधातुविभूषिताम् ॥
					 
					
						चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् ।
						समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥
					 
					
						वियद्द्यां पृथिवीं चैव तथा विष्णुपदं व्रजन् ।
						विस्मितः सह कृष्णेन क्षिप्तो बाण इवाभ्यगात् ॥
					 
					
						ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् ।
						अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥
					 
					
						समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् ।
							तपोनित्यं महात्मानमपश्यद्वॄषभध्वजम् ।
						
					 
					
						सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा ।
						शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥
					 
					
						नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् ।
						पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ॥
					 
					
						गीतवादित्रसन्नादैर्हास्यलास्यसमन्वितम् ।
						वग्लितास्फोटितोत्क्रुष्टैः पुण्यैर्गन्धैश्च सेवितम् ॥
					 
					
						स्तूयमानं स्तवैर्दिव्यैर्ऋषिभिर्ब्रह्मवादिभिः ।
						गोप्तारं सर्वभूतानामीशानं वरदं शिवम् ॥
					 
					
						वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् ।
						पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ॥
					 
					
						लोकादिं विश्वकर्माणमजमीशानमव्ययम् ।
						मनसः परमं योनिं खं वायुं ज्योतिषां निधिम् ॥
					 
					
						स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् ।
						देवदानवयक्षाणां मानवानां च शासकम् ॥
					 
					
						योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम् ।
						चारचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥
					 
					
						कालकोपं महात्मानं शक्रसूर्यगुणोदयम् ।
						ववन्दतुस्तदा कृष्णौ वाङ्मनोबुद्धिकर्मभिः ॥
					 
					
						यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः ।
						तमजं कारमात्मानं जग्मतुः शरणं भवम् ॥
					 
					
						अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दत ।
						ज्ञात्वा तं सर्वभूतादिं भूतभव्यभवोद्भवम् ॥
					 
					
						`शरण्यं शरणं देवमीशानं परमेश्वरम् ।
						जगाम जगतां नाथमर्जुनः सजनार्दनः' ॥
					 
					
						ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ ।
						सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव ॥
					 
					
						स्वागतं वां नरश्चेष्ठावुत्तिष्ठेतां गतक्लमौ ।
						किञ्च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥
					 
					
						येन कार्येण सम्प्राप्तौ युवां तत्साधयामि किम् ।
						व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ॥
						सञ्जय उवाच । 
					 
					
						ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली ।
							वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ।
						
						भक्त्यास्तवेन दिव्येन महात्मानावनिन्दितौ ॥
						
						कृष्णार्जुनावूचतुः । 
					 
					
						नमो भवाय शर्वाय रुद्राय वरदाय च ।
						पशूनां पतये नित्यमुग्राय च कपर्दिने ॥
					 
					
						महादेवाय भीमाय त्र्यम्बकाय च शान्तये ।
						ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥
					 
					
						कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे ।
						पिनाकिने हविष्याय सत्याय विभवे सदा ॥
					 
					
						विलोहिताय ध्रूम्राय व्याधायानपराजिते ।
						नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥
					 
					
						होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे ।
						अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥
					 
					
						वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ।
						तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥
					 
					
						विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
						नमोनमस्ते सेव्याय भूतानां प्रभवे सदा ॥
					 
					
						ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च ।
						नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥
					 
					
						`अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा ।
							नमोऽस्तु देवदेवाय महाभूतधराय च ।
						
						नमो विश्वस्य पतये पत्तीनां पतये नमः' ॥
						
					 
					
						नमो विश्वस्य पतये महतां पतये नमः ।
						नमः सहस्रशिरसे सहस्रभुजमृत्यवे ॥
						सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ।
						
					 
					
						नमो हिरण्यवर्णाय हिरण्यकवचाय च ।
						भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥
						सञ्जय उवाच । 
					 
					
						एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः ।
						प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥ ॥
					 
					 इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अशीतितमोऽध्यायः ॥ 80 ॥ 
					 5-80-7 न शोच्यं शोको नाचरणीयः ॥ 5-80-8 कार्ये कृत्यं कार्यं
						करणीयं भवेदित्यन्वयः ॥ 5-80-23 प्रणिहितः समातिxxxx ॥ 5-80-32 अथर्वणस्य
						मुनेः ॥ 5-80-36 तथा च व्रजन्विष्णुपदमाकाशमभ्यगादित्यन्वयः ॥ 5-80-41 लास्यं
						नृत्तम् । वल्गितमितस्ततः प्रचारः । आस्फोटितं भुजाडम्बरः । उक्त्रुष्टमुच्चैः
						स्वनितम् ॥ 5-80-44 विश्वं जगत्कर्म प्राप्यं यस्य । ईशानमप्रतिहतेच्छम् ।
						अव्ययमविकारम् । मनसः परमं प्रवृत्तिनिवृत्तिकारणम् । योनिमुत्पत्तिस्थानं च ।
						ज्योतिषां तेजसां निधिमधिष्ठानम् ॥ 5-80-46 योगानां योगदर्शिनां परं धाम
						परमाश्रयम् । दृष्टं साक्षाद्भूतं ब्रह्मतत्त्वं तद्विदां निर्धि रहस्यम् ॥ 5-80-47 कालइव कोपो यस्य । शक्रस्य गुणा ऐश्वर्यादयः सूर्यस्य गुणाः प्रतापादयः
						तेषामुदयो यस्मात् । कालकेशं इति क. पाठः ॥ 5-80-48 कारणात्मानं
						कारणैकस्वभावम् ॥ 5-80-55 भावः सर्वप्रभुत्वात् । शर्वः संहरणात् ॥ 5-80-56
						शान्तिः शमप्रधानत्वात् ॥ 5-80-57 हविष्यः हविष्ययोग्यत्वात् ।
						विभुर्व्यापकत्वात् ॥ 5-80-58 व्याधाय मृगहननात् । द्विरुक्तिर्द्विस्तथाकरणात् ।
						अनात्प्राणिनः पराजयतीति अनपराजित्सर्वभूतोत्तमत्वात् । नीलशिखण्डो
						नीलकेशत्वात् ॥ 5-80-59 होता दीक्षितः भावेन हवनशीलत्वात् । वसुरेता अग्नौ रेतः
						क्षेपणात् ॥ 5-80-60 मुण्डो दीक्षितत्वात् । ब्रह्मचारी रेतोविधारणात् ॥ 5-80-61
						भूतानां प्राणिनां प्रमथादीनाम् ॥ 5-80-62 ब्रह्मवक्रो वेदपूर्णमुखत्वात् । शिवो
						मोक्षहेतुत्वात् । वाचस्पतिर्वाङ्ययप्रवर्तनात् ॥ 5-80-80 अशीतितमोऽध्यायः ॥ 
					
					
					
					
					श्रीः