अध्यायः 082

श्रीकृष्णस्य कृताह्निकं युधिष्ठिरं प्रत्यागमनम् ॥ 1 ॥

सञ्जय उवाच ।
तयोः संवदतोरेव कृष्णदारुकयोस्तथा ।
साऽत्यगाद्रजनी राजन्नथ राजा स्म बोध्यते ॥
पठन्ति पाणिध्वनिका मागधाः स्तवगायकाः ।
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ॥
नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः ।
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥
मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः ।
आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ॥
एवमेतानि सर्वाणि तथान्यान्यपि भारत ।
वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ॥
स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् ।
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥
प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे ।
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः ॥
ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च ।
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥
भद्रासने सूपविष्टः परिधायाम्बरं लघु ।
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः ।
आप्लुतः साधिवासेन जलेन ससुगन्धिना ॥
राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् ।
जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि ॥
हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः ।
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥
`कृत्वेन्द्रियाणामैकाग्र्यं मनसश्च महामनाः' । जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः ।
तत्राग्निशरणं दीप्तं प्रविवेश विनीतवत् ॥
समिद्भिः स पवित्राभिरग्निमाहुतिभिस्तथा ।
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ॥
द्वितीयां पुरुषव्याघ्रः कक्ष्यां निर्गम्य पार्थिवः ।
ततो वेदविदो वृद्धानपश्यद्ब्राह्मणर्षभान् ॥
दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च ।
सहस्रानुचरान्सौरान्सहस्रं चाष्ट चापरान् ॥
अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः ।
तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ॥
प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः ।
अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥
तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डुनन्दनः ।
हेमशृङ्गा रौप्यखुरा दत्त्वा तेभ्यः प्रदक्षिणम् ॥
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् ।
माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ॥
पूर्णान्यक्षतपात्राणि रुचकं रोचनास्तथा ।
स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥
मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् ।
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यां ततोऽगमत् ॥
ततस्तस्यां नहाबाहोस्तिष्ठतः परिचारकाः ।
सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम् ॥
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् ।
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥
तत्र तस्योपविष्टस्य भूषणानि महात्मनः ।
उपाजह्रुर्महार्हाणि प्रेप्याः शुभ्राणि सर्वशः ॥
युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः ।
रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥
चामरैश्चन्द्ररश्म्याभैर्हेमदण्डैः सुशोभनैः ।
दोधूयमानैः शुशुभे विद्युद्भिरिव तोयदः ॥
संस्तूयमानः सूत्रैश्च वन्द्यमानश्च वन्दिभिः ।
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥
ततो मुहूर्तमासीच्च वन्दिनां निनदो महान् ।
रथानां नेमिघोषश्च खुरघोषश्च वाजिनाम् ॥
हादेन गजघण्टानां शङ्खानां निनदेन च ।
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ॥
ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः ।
शिरसा वन्दनीयं तमभिवाद्य जनेश्वरम् ॥
कुण्डली बद्धनिस्त्रिंशः सन्नद्धकवचो युवा ।
अभिप्रणम्य शिरसा द्वास्थो धर्मात्मजाय वै ॥
न्यवेदयद्धृषीकेशमुपयान्तं महात्मने ।
सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवः ॥
`प्रवेश्यतां समीपं मे किमर्थं प्रविलम्बसे' । आसनं च मधुघ्नाय दीयतां परमार्चितम् ।
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने ॥
सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

5-82-2 पाणिध्वनिका हस्तेन तालस्वनं कुर्वते ॥ 5-82-3 रक्तकण्ठिनो रञ्जकस्वराः ॥ 5-82-4 झर्झरा झिल्लिकाः । भेर्यो बृहढ्ढक्काः । पणवा मुरजाः । आनकाः पटहाः । गोमुखाः त्रागडाः । आडम्बराश्च क्षुद्रपटहाः । दुन्दुभ्यो ढक्काः ॥ 5-82-9 भद्रासने चतुःसमासने ॥ 5-82-10 कषायेण सर्वौषध्यादिकल्केन ॥ 5-82-12 अक्लिष्टमनुपहतं वसनं यस्य ॥ 5-82-13 दीप्तं ज्वलदग्निम् ॥ 5-82-16 सौरान्सूर्योपासकान् ॥ 5-82-19 प्रदक्षिणं कृत्वेति शेषः ॥ 5-82-20 स्वस्तिकानालिङ्गनानि । वर्धमानान् शरावान् । नन्द्यावर्तान्सम्पुटिताद्यर्घपात्राणि ॥ 5-82-21 रुचकं मातुलुङ्गकम् ॥ 5-82-24 विश्वकर्मकृतं विश्वकर्मप्रणीतेन विधिना निर्मितम् ॥ 5-82-28 वन्द्यमानः स्तूयमानः । स्तुत्यर्थस्य वदे रूपम् ॥ 5-82-31 शुद्धान्तं कक्ष्याभ्यन्तरम् ॥ 5-82-82 द्व्यशीतिततमोऽध्यायः ॥

श्रीः