अध्यायः 087

द्रोणेन शकटव्यूहनिर्माणम् ॥ 1 ॥

सञ्जय उवाच ।
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः ।
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् ।
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥
विष्फार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च ।
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः ॥
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् ।
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ॥
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षिताः ।
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः । समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ।
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः ।
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः ।
सङ्ग्राममनसः शूरास्तत्रतत्र व्यवस्थिताः ॥
क्वार्जुनः क्व स गोविन्दः क्व च मानी वृकोदरः ।
क्व च ते सुहृदस्तेषामाह्वयन्ते रणे तदा ॥
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् ।
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ॥
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु ।
भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः ।
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥
शतं चाश्वसहस्राणां रथानामयुतानि षट् ।
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥
पदातीनां सहस्राणि दंशितान्येकविंशतिः ।
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत ॥
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः ।
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥
सञ्जय उवाच ।
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः । सम्प्रायात्सहगान्धारैर्वृतस्तैश्च महारथैः ।
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिहयस्थितैः ॥
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः ।
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ॥
ते चैकसप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः ॥
मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः ।
हस्तिनां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव ।
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ॥
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ ।
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्चविस्तृतः ।
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः ॥
नानानृपतिभिर्वीरैस्तत्रतत्र व्यवस्थितैः ।
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः पुनः कृतः ।
सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः ॥
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः ।
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥
अनन्तरं च काम्भोजो जलसन्धश्च मारिष ।
दुर्योधनश्च कर्णश्च तदनन्तरमेव च ॥
ततः शतसहस्राणि योदानानमनिवर्तिनाम् ।
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम् ॥
तेषां च पृष्ठतो राजा बलेन महता वृतः ।
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः ॥
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः ।
नात्र तस्याभवद्भोदो जुगोपैनं ततः स्वयम् ॥
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः । धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ।
`तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान्' ॥
ताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् ।
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत् ।
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥
सशैलसागरवनां नानाजनपदाकुलाम् ।
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥
बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिःस्वनमद्भुतानुरूपम् ।
अहितहृदयभेदनं महद्वै शकटमवेक्ष्य कृतं ननन्द राजा ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिसयुद्धे सप्ताशीतितमोऽध्यायः ॥ 87 ॥

5-87-4 पीतान् पायितोदकान् ॥ 5-87-9 क्वचेति चकार इत्यर्थे । इत्याह्वयन्त इत्यन्वयः ॥ 5-87-14 त्रिमात्रासु त्रिसख्यासु तिसृष्वित्यर्थः ॥ 5-87-22 पश्चार्धे पश्चाद्भागे पञ्चगव्यूतिः । चक्रशकटः चक्रगर्भः शकटः ॥ 5-87-34 अद्भुतानुरूपमाश्चर्यरूपं एतत्समययोग्यं च ॥ 5-87-87 सप्ताशीतितमोऽध्यायः ॥ 87 ॥

श्रीः