अध्यायः 088

अर्जुनस्य रणाङ्गणप्रवेशः ॥ 1 ॥

सञ्जय उवाच ।
व्यूढेषु तव सैन्येषु समुत्क्रुष्टेषु मारिष ।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥
अनीकानां च संह्रादे वादित्राणां च निःस्वने ।
प्रध्मापितेषु शङ्खेषु सन्नादे रोमहर्षणे ॥
प्रगृहीतेषु शस्त्रेषु भारतेषु युयुत्सुषु ।
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ॥
बलानां वायसानां च पुरस्तात्सव्यसाचिनः ।
पिशितासृग्भुजां सङ्घाः प्रलीयन्ते सहस्रशः ॥
मृगाश्च घोरसन्नादः शिवाश्चाशिवदर्शनाः ॥
दक्षिणेन प्रयातानामस्माकं नेदुरध्वनि ॥
`लोकक्षये महाराज यादृशास्तादृशा हि ते ।
अशिवा धार्तराष्ट्राणां शिवाः पार्थस्य संयुगे' ॥
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः ।
चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥
विष्वग्वाताः सनीहारा रूक्षाः शर्करकर्षिणः ।
ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते ॥
नाकुलिश्च शतानीको धृष्टद्युम्नश्च पार्षतः ।
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥
ततो रथसहस्रेण द्विरदानां शतेन च ।
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव ।
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् ।
विषक्तं मयि दुर्धर्षं भिन्नं कुम्भमिवाश्मनि ॥
तिष्ठध्वं रथिनो यूयं सङ्ग्राममभिकाङ्क्षिणः ।
युध्यामि संहतानेतान्यशो मानं च वर्धयन् ॥
एवं ब्रुवन्महाराज महात्मा स महीपतिः ।
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ॥
ततोऽर्जुनो महाराज महात्मा महतां पतिः ।
महारथसमाख्यातो महेष्वासो व्यवस्थितः ॥
कक्षाग्निरिव दुःस्पर्शः सवज्र इव वासवः ।
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव ।
युगान्ताग्निरिवार्चिष्मान्दिधक्षुः स्थास्नुजङ्गमम् ॥
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः ।
युद्धे जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥
आमुक्तकवचः खङ्गी जाम्बूनदकिरीटभृत् ।
शुभ्रमाल्याम्बरधरः स्वङ्गदश्चारुकुण़्डलः ॥
रथप्रवरमास्थाय नरो नारायणानुगः ।
विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ॥
अग्रानीकस्य सोऽध्यर्ध इषुपाते धनञ्जयः ।
व्यवस्थाप्य रथं राजञ्शङ्खं दध्मौ प्रतापवान् ॥
अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष ।
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥
तयोः शङ्खप्रणादेन तव सैन्ये विशाम्पते ।
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥
यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात् ।
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः ।
एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥
सीदन्ति स्म नरा राजञ्शङ्खशब्देन मारिष ।
विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥
ततः कपिर्महानादं सहभूतैर्ध्वजालयैः ।
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥
नानावादित्रसंहादैः क्ष्वेडितास्फोटिताकुलैः ।
सिंहनादैः समुत्क्रुष्टैः समाधूतैर्महारथैः ॥
तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने ।
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टांशीतितमोऽध्यायः ॥ 88 ॥

5-88-10 शतैः शतैर्दशसहस्रैः ॥ 5-88-30 समाधूतैः सञ्चालितैः ॥ 5-88-88 अष्टाशीतितमोऽध्यायः ॥

श्रीः