अध्यायः 090

अर्जुनेन दुःशासनपराजयः ॥ 1 ॥

धृतराष्ट्र उवाच ।
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना ।
केतु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ॥
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः ॥
द्रोणमाश्रित्य तिष्ठन्ति प्राकारमकुतोभयाः ॥
सञ्जय उवाच ।
तथाऽर्जुनेन सम्भग्ने तस्मिंस्तव बलेऽनघ ।
हतवीरे हतोत्साहे पलायनकृतक्षणे ॥
पाकशासनिनाऽभीक्ष्णं वध्यमाने शरोत्तमैः ।
न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम् ॥
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् ।
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्यगात् ॥
सकाञ्चनविचित्रेण कवचेन समावृतः ।
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥
नागानीकेन महता ग्रसन्निव महीमिमाम् ।
दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥
हादेन गजघण्टानां शङ्खानां निनदेन च ।
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् । `युवराजो बलश्लाघी पिङ्गलः प्रियदर्शनः' ।
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् ।
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥
सिंहनादेन महता नरसिंहो धनञ्जयः । `तदाचलघनप्रख्यं पताकाशतसङ्कुलम्' । गजानीकममित्राणामभितो व्यधमच्छरैः ॥
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् ।
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥
खमाश्रित इवादित्यः प्रतपन्स युगक्षये ।
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जनः ॥
खुरशब्देन चाश्वानां नेमिघोषेण तेन च ।
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ॥
नानावादित्रशब्देन पाञ्चजन्यस्वनेन च । देवदत्तस्य घोषेण गाण्डीवनिनदेन च ।
मन्दवेगा नरा नागा बभूवुस्ते विचेतसः ॥
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ।
ते गजाः समसीदन्त मग्नाः पङ्कार्णवेष्विव ॥
युगपच्च समाविष्टैः शरैर्गाण्डीवधन्वनः । अनेकशतसाहस्रैर्द्रुमा मधुकरैरिव ।
`पुङ्खावशिष्टैर्बहुभिः शोणितोत्पीडवाहिभिः' ॥
आरावं परमं कृत्वा वध्यमानाः किरीटिना ।
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च ।
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥
गजस्कन्धगतानां च पुरुषाणां किरीटिना ।
छिद्यन्ते चोत्तमाङ्गानि भुल्लैः सन्नतपर्वभिः ॥
सकुण्डलानां पततां शिरसां धरणीतले ।
पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् ॥
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः ।
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥
केचिदेकेन बाणेन सुयुक्तेन सुपत्रिणा ।
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥
अपरे मदसंरब्धा मातङ्गाः पर्वतोपमाः ।
सारोहा न्यपतन्भूमौ द्रुमवन्त इवाचलाः ॥
मौर्वी ध्वजं धनुश्चैव युगमीषां तथैव च ।
रथिनां कुट्टयामास भल्लैः सन्नतपर्वभिः ॥
न सन्दधन्न चाकर्षन्न विमुञ्चन्न चोद्वहन् ।
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः ।
मुहूर्तान्न्यपतन्नन्ये वारणा वसुधातले ॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥
सचापाः साङ्गुलित्राणाः सखङ्गाः साङ्गदा रणे ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
चक्रैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः ॥
चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः ।
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः ।
अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥
एवं दुःशासनबलं वध्यमानं किरीटिना ।
सम्प्राद्रवन्महाराज व्यथितं सहनायकम् ॥
`एवं बले द्रुते याते राजपुत्रं महारथम् ।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥
जीवितेन कथं गन्ता दुरुक्तं यावदद्य ते ।
तद्वाक्यसदृशं कर्म कुरु त्वं यदि मन्यसे ॥
एवमुक्त्वा ततो राजा पार्थः पार्थिवमर्दनः ।
भृशं क्रुद्धो महाराज अविध्यत्तनयं तव' ॥
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः ।
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे नवतितमोऽध्यायः ॥ 90 ॥

5-90-3 पलायने कृतः क्षणोऽवसरो येन ॥ 5-90-9 प्रतिभयो भयङ्करः । दारुणः क्रूरः ॥ 5-90-19 दन्तवेष्टेषु दन्तमूलेषु । कटेषु कटिषु ॥ 5-90-21 निवेदनमुपाहारम् ॥ 5-90-22 यन्त्रबद्धा यन्त्रैरालिखिताः ॥ 5-90-90 नवतितमोऽध्यायः ॥

श्रीः