अध्यायः 004

भीष्मानुज्ञातस्य कर्णस्य युद्धायाऽऽगमनम् ॥ 1 ॥

सञ्जय उवाच ।
तस्य लालप्यमानस्य कुरुवृद्धः पितामहः ।
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः ॥
भीष्म उवाच ।
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः ।
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा ॥
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भवान् ।
बान्धवास्त्वाऽनुजीवन्तु स्वादुवृक्षमिवाण़्डजाः ॥
मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः ।
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम् ॥
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा ।
कर्ण राजपुरं गत्वा काम्भोजा निर्जितास्त्वया ॥
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः ।
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया ॥
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः ।
दुर्योधनस्य वशगास्त्वया कर्ण पुरा कृताः ॥
उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे । निषादाश्च त्रिगर्ताश्च बाह्लीकाश्च जितास्त्वया
तत्रतत्र च संग्रामे दुर्योधनहितैषिणा ।
बहवश्च जिताः कर्ण त्वया वीरा महौजसा ॥
यथा दुर्योधनस्यातः सज्ञातिकुलबान्धवः ।
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव ॥
शिवेशनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः ।
अनुशास्य कुरून्सर्वान्धत्स्व दुर्योधने जयम् ॥
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा ।
तवापि धर्मतः सर्वे यथा तस्य वयं तथा ॥
यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम् ।
सद्भिः सङ्गममिच्छन्ति तस्मात्प्राज्ञाः परैरपि ॥
स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितः ।
कुरूणां पालय बलं यथा दुर्योधनस्तथा ॥
`यथा च कुरवो युद्धे योधयन्ति स्म पाण्डवान् ।
तथा कर्ण त्वया कार्यं दुर्योधनहितैषिणा' ॥
निशम्य वचनं तस्य चरणावभिवाद्य च ।
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति ॥
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् ।
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् ॥
हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः ।
उपागतं महाबाहुं सर्वानीकपुरःसरम् ॥
कर्णं दृष्ट्वा महात्मानं युद्धाय समुपस्थितम् । क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि ।
धनुःशब्दैश्च विविधैः कुरवः समपूजयन् ॥

5-1-3 अर्थपतिः प्रधानस्वामी ॥

श्रीः