अध्यायः 096

राज्ञां द्वन्द्वयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम ।
कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥
रक्षमाणः स्वथं व्यूहं द्रोणोऽपि सह सैनिकैः ।
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः ॥
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः ।
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः ॥
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः ।
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥
तेषां युद्धं समभवद्दारुणं शोणितोदकम् ।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः ।
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः ।
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥
तद्युद्धमभवद्धोरं शरशक्तिसमाकुलम् ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा ।
अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन ॥
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् ।
ससैन्यो योधयामास गजः प्रतिगजं यथा ॥
बाह्लीकराजः सङ्क्रुद्धो द्रौपदेयान्महारथान् ।
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥
अयोधयंस्ते सुभृशं तं शरौघैः समन्ततः ।
इन्द्रियाणि यथा देहं शश्वद्देहवतां वर ॥
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव ।
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥
सोऽतिविद्धो बलवता महेष्वासेन धन्विना ।
ईषन्मूर्च्छां जगामाशु सात्यकिः सत्यविक्रमः ॥
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् ।
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥
तावन्योन्यं दृढं विद्धावन्योन्यशरपीडितौ ।
रजेतुः समरे राजन्पुष्पिताविव किंशुकौ ॥
अलम्बुसस्तु सङ्क्रुद्धः कृन्तिभोजशरार्दितः ।
अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः ।
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् ।
ददृशुः सर्वसैन्यानि शक्रजम्भौ यथा पुरा ॥
शकुनिं रभसं युद्धे कृतवैरं च भारत ।
माद्रीपुत्रौ च संरब्धौ शरैश्चार्दयतां भृशम् ॥
तुमुलः स महान्राजन्प्रावर्तत जनक्षयः ।
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ॥
रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः ।
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः ।
न स्म जानाति कर्तव्यं युद्धे किञ्चित्पराक्रमम् ॥
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ ।
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥
स वध्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥
घटोत्कचस्तथा शूरं राक्षसं तमलामुधम् ।
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ।
यादृशं हि पुरावृत्तं रामरावणयोर्मृधे ॥
ततो युधिष्ठिरो राजा मद्रराजानमाहवे ।
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप ।
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः ।
अयोधयन्भीमसेनं महत्या सेनया वृताः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षण्णवतितमोऽध्यायः ॥ 96 ॥

5-96-23 हुताशनः प्रावर्ततेत्यनुषज्यते ॥ 5-96-96 षण्णवतितमोऽध्यायः ॥

श्रीः