अध्यायः 097

द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 1 ॥

सञ्जय उवाच ।
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रमे रोमहर्षणे ।
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ॥
जलसन्धं महाबाहुं भीमसेनोऽभ्यवर्तत ।
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥
किरंस्तु शरवर्षाणि रोचमान इवांशुमान् ।
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् ।
कुरूणां पाण्डवानां च सङ्क्रुद्धानां परस्परम् ॥
सङ्क्षये तु तथाभूते वर्तमाने महाभये ।
द्वन्दवीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥
द्रोणः पाञ्चालपुत्रेण बली बलवता सह ।
यदक्षिपत्पृषत्कौघांस्तदद्भुतमिवाभवत् ॥
पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥
विनिकीर्णानि वीराणामनीकेषु समन्ततः ।
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥
तपनीयतनुत्राणाः संसिक्ता रुधिरेण च । कोविदारा इवाभान्ति पुष्पितास्तत्र भारत ।
तावकाः समरे योधाः पाण्डवेयाश्च विक्षताः ॥
कुञ्जराश्वनरान्ये पातयन्ति स्म पत्रिभिः ।
तालमात्राणि चापानि विकर्षन्तो महारथाः ॥
असिचर्माणि चापानि शिरांशि कवचानि च ।
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥
गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा ।
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥
भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम् ।
विलुम्पमानाः केशांश्च मज्जाश्च बहुधा नृप ॥
आकर्षन्तः शरीराणि शरीरावयवांस्तथा ।
नराश्वगजसङ्घानां शिरांशि च ततस्ततः ॥
कृतास्त्रा रणशिक्षाभिर्दीक्षिता रणशालिनः ।
रणे जयं प्रार्थयाना भृशं युयुधिरे तदा ॥
असिमार्गान्बहुविधान्विचेरुः सैनिका रणे ।
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टसैः ॥
गदाभिः परिघैश्चान्यैरायुधैश्च भुजैरपि ।
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गता नराः ॥
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः ।
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः ।
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च ॥
वर्तमाने तथा युद्धे निर्मर्यादे विशाम्पते ।
धृष्टद्युम्नो हयानश्चैर्द्रोणस्य व्यत्यमिश्रयत् ॥
ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः ।
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ॥
पारावतसवर्णास्ते रक्तशोणविमिश्रिताः ।
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ॥
धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम् ।
असिचर्माददे वीरो धनुरुत्सृज्य भारत ॥
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा ।
ईषायाः समतिक्रम्य द्रोणस्य रथमाविशत् ॥
अतिष्ठद्युगमध्ये स युगसन्नहनेषु च ।
जघनार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥
खङ्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः ।
न ददार्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः ।
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् ।
द्रोणो द्रुपद पुत्रस्य खङ्गं च दशभिः शरैः ॥
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली ।
ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी ॥
अथास्मै त्वरितो बाणमपरं जीवितान्तकम् ।
धृष्टद्युम्नाय चिक्षेप वज्रं वज्रधरो यथा ॥
तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः ।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत् ॥
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष ।
द्रोणाद्वै मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ॥
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे ।
शराणां त्वरितो द्रोणः षड्विंशत्या समार्पयत् ॥
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सृञ्जयान् ।
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥
ततः सर्वे रथास्तूर्णं पाञ्चाल्या जयगृद्धिनः ।
सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तनवतितमोऽध्यायः ॥ 97 ॥

5-97-26 युगसन्नहनेषु युगबन्धेषु ॥ 5-97-36 अवाक्षित् अपनीतवन्तः ॥ 5-97-97 सप्तनवतितमोऽध्यायः ॥

श्रीः