अध्यायः 098

द्रोणसात्यक्योर्युद्धम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते ।
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ॥
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः ।
नरव्याघ्रं शिनेः पौत्रं द्रोणः किमकरोद्युधि ॥
सञ्जय उवाच ।
सम्प्रस्रुतक्रोधविषो व्यादितास्यशरासनः ।
तीक्ष्णधारेषुदशनः सितनाराचदंष्ट्रवान् ॥
संरम्भामर्षताम्राक्षो महोरग इव श्वसन् ।
नरवीरः प्रमुदितः शोणैरश्वैर्महाजवैः ॥
उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम् ।
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥
शरपातमहावर्षं रथघोषबलाहकम् ।
कार्मुकैरावृतं राजन्नाराचबहुविद्युतम् ॥
शक्तिखङ्गाशनिधरं क्रोधवेगसमुत्थितम् ।
द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः ।
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥
एनं वै ब्राह्मणं शूरं स्वकर्मण्यनवस्थितम् ।
आश्रयं धार्तराष्ट्रस्य धर्मराजभयावहम् ॥
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् ।
आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥
सञ्जय उवाच ।
`एवमुक्तस्ततः सूतः सात्यकस्यावहद्रथम्' । ततो रजतसङ्काशा माधवस्य हयोत्तमाः ।
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥
ततस्तौ द्रोणशैनेयौ युयुधाते परन्तपौ ।
शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम् ॥
इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ । पूरयामासतुर्वीरावुभौ दश दिशः शरैः ।
मेघाविवातपापाये धाराभिरितरेतरम् ॥
न स्म सूर्यस्तदा भाति न ववौ च समीरणः ।
हषुजालावृतं घोरमन्धकारं समन्ततः ॥
अनाधृष्यमिवान्येषां शूराणामभवत्तदा ।
अन्धकारीकृते लोके द्रोणशैनेययोः शरैः ॥
तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा ।
नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः ॥
इषूणां सन्निपातेन शब्दो धाराभिघातजः ।
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥
नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ ।
आशीविषविदष्टानां सर्पाणामिव भारत ॥
तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः ।
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी ।
रुक्मपुङ्खैः शरैछन्नाश्चित्ररूपा बभुस्तदा ॥
निर्मलानामजिह्मानां नाराचानां विशाम्पते ।
निर्मुक्ताशीविपाभानां सम्पातोऽभूत्सुदारुणः ॥
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ ।
`निकृन्ततोः शरैस्तीक्ष्णैर्द्रोणसात्यकयो रणे' ॥
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ । स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ ।
अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः ॥
गर्जितोत्कृष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः ।
उपारमन्महाराज व्याजहार न कश्चन ॥
तुष्णींभूतान्यनौकानि योधा युद्धादुपारमन् ।
ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः ॥
रथिनो हस्तियन्तारो हयारोहाः पदातयः ।
अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ ॥
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् ।
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ॥
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ।
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः ।
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ॥
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु ।
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥
सबलाकाः सखद्योताः सैरावतशतहदाः ।
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः ।
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ॥
विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः ।
सिद्धचारणसङ्खाश्च विद्याधरमहोरगाः ॥
`गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः' । गतप्रत्यागताक्षेपैश्चितैरस्त्रविघातिभिः ।
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ ।
अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी ॥
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे ।
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः ॥
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः ।
सज्यं चकार तदपि चिच्छेदास्य स सात्यकिः ॥
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत ।
सज्यं सज्यं धनुश्चास्य चिच्छेद निशिथैः शरैः ॥
एवमेकशतं छिन्नं धनुषां दृढधन्विना ।
न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च ॥
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् ।
युयुधानस्य राजेन्द्र मनसैतदचिन्तयत् ॥
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये ।
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् ।
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ॥
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः ।
न तामालक्षयामासुर्लघुतां शीघ्रचारिणः ॥
देवाश्च युयुधानस्य गन्धर्वाश्च विशाम्पते ।
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ॥
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः ।
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ॥
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः ।
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥
तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे ।
युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः ।
तमाचार्योऽथ सम्भ्रान्तोऽयोधयच्छत्रुतापनः ॥
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः ।
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ॥
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः ।
दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत् ॥
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ ।
न विचेरुस्तदाऽऽकाशे भूतान्याकाशगान्यपि ॥
अस्त्रे ते वारुणाग्नेये यदा बाणैः समाहिते ।
न यावदभ्यपद्येतां व्यावर्तदथ भास्करः ॥
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः ।
मत्स्याः साल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः ।
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ॥
रजसा संवृते लोके शरजालसमावृते ॥ सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन ।
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥ `तेनान्तरेण पार्थस्तु रणे जित्वा महारिपून् ।
अतिक्रान्तस्तदा युद्धं कृत्वा पर्यवतस्थिवान्' ॥ ॥ 

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टनवतितमोऽध्यायः ॥ 98 ॥

5-98-16 अन्तरमवच्छेदः ॥ 5-98-27 रथवाहिन्यो रथसेनाः ॥ 5-98-29 वैजयन्ती विलक्षणाभिः पताकाभिः । परिस्तोमैर्वर्णकम्बलैः । अङ्गकम्बलैः सूक्ष्मकम्बलैः ॥ 5-98-31 ऐरावतमिन्द्रधनुः । ऐरावतोभ्रमातङ्गै इत्युपक्रम्य नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने इति मेदिनी ॥ उष्णस्य पर्याये अपगमे वागुराः जालानि समूहा इतियावत् ॥ 5-98-34 प्रत्यागतं निवर्तनम् । आक्षेपः प्रहरणम् ॥ 5-98-43 आलक्षयामासुर्लक्षितवन्तः ॥ 5-98-44 विदुर्नेत्यनुषज्यते ॥ 5-98-47 योगेन युक्त्या ॥ 5-98-52 न यावदभ्यपद्येतां यावदेव न पराभूते । व्यावर्तत् मध्याह्नतः परावृत्तोऽभूत् ॥ 5-98-98 अष्टनवतितमोऽध्यायः ॥

श्रीः